॥ श्रीसूत उवाच ॥ ॥
ब्रह्मकुण्डे महापुण्ये स्नानं कृत्वा समाहितः ॥
नरो हनूमतः कुण्डमथ गच्छेद्विजोत्तमाः ॥ १ ॥
पुरा हतेषु रक्षःसु समाप्ते रणकर्मणि ॥
रामादिषु निवृत्तेषु गन्धमादनपर्वते ॥ २ ॥
सर्व लोकोपकाराय हनूमान्मारुतात्मजः ॥
सर्वतीर्थोत्तमं चक्रे स्वनाम्ना तीर्थमुत्तमम् ॥ ३ ॥
विदित्वा वैभवं यस्य स्वयं रुद्रेण सेव्यते ॥
तस्य तीर्थस्य सदृशं न भूतं न भविष्यति ॥ ४ ॥
यत्र स्नाता नरा यान्ति शिवलोकं सनातनम् ॥
यस्मिंस्तीर्थे महापुण्ये महापातकनाशने ॥ ५ ॥
सर्वलोकोपकाराय निर्मिते वायुसूनुना ॥
सर्वाणि नरकाण्यासञ्च्छून्यान्येव चिराय वै ॥ ६ ॥
वैभवं तस्य तीर्थस्य शङ्करो वेत्ति वा न वा ॥
यत्र धर्मसखोनाम राजा केकयवंशजः ॥ ७ ॥
भक्त्या सह पुरा स्नात्वा शतं पुत्रानवाप्त वान् ॥
॥ ऋषय ऊचुः ॥ ॥
सूत धर्मसखस्याद्य चरितं वक्तुमर्हसि ॥
हनूमत्कुण्डतीर्थे यो लेभे स्नात्वा शतं सुतान् ॥ ८ ॥ ॥
॥ श्रीसूत उवाच ॥ ॥
शृणुध्वमृषयो यूयं चरितं तस्य भूपतेः ॥ ९ ॥
अद्य धर्मसखस्याहं प्रवक्ष्यामि समासतः ॥
राजा धर्मसखोनाम विजितारिः सुधार्मिकः ॥ 3.1.15.१० ॥
बभूव नीतिमान्पूर्वं प्रजापालनतत्परः ॥
तस्य भार्याशतं विप्रा वभूव पतिदैवतम् ॥ ११ ॥
स पालयन्महीं राजा सशैलवनकाननाम् ॥
तासु भार्यासु तनयं नाविन्दद्वंशवर्द्धनम् ॥ १२ ॥
पुत्रार्थं स महीपालो बहूयत्नानथाकरोत् ॥५
अकरोच्च महादानं पुत्रार्थं स महीपतिः ॥ १३ ॥
अश्वमेधादिभिर्यज्ञैरयजच्च सुरान्प्रति ॥
तुलापुरुषमुख्यानि ददौ दानानि भूरिशः ॥ १४ ॥
आमध्यरात्रमन्नानि सर्वेभ्योऽप्यनिवारितम् ॥
प्रायच्छद्बहुसूपानि सस्योपेतानि भूमिपः ॥ १५ ॥
पितॄनुद्दिश्य च श्राद्धमकरोद्विधिपूर्वकम् ॥
सन्तानदायिनो मन्त्राञ्जजाप नियतेद्रियः ॥ १६ ॥
एवमादीन्बहून्धर्मान्पुत्रार्थं कृतवान्नृपः ॥
पुत्रमुद्दिश्य सततं कुर्वन्धर्माननुत्तमान् ॥ १७ ॥
राजा दीर्घेण कालेन वृद्धतां प्रत्यपद्यत ॥
कदाचित्तस्य वृद्धस्य यतमानस्य भूपतेः ॥ १८ ॥
पुत्रस्सुचन्द्रनामाभूज्ज्येष्ठपत्न्यां मनोरमः ॥
जातं पुत्रं जनन्यस्ताः सर्वा वैषम्यवर्जिताः ॥ १९ ॥
समं संवर्द्धयामासुः क्षीरादिभिरनुत्तमाः ॥
राज्ञश्च सर्वमातॄणां पौराणाम्मन्त्रिणां तथा ॥ 3.1.15.२० ॥
मनोनयनसन्तोषजनकोऽयं सुतोऽभवत् ॥
लालयानः सुतं राजा मुदं लेभे परात्पराम्॥२१॥
आन्दोलिकाशयानस्य सूनोस्तस्य कदाचन ॥
वृश्चिकोऽकुट्टयत्पादे पुच्छेनोद्यद्विषाग्निना ॥ २२ ॥
कुट्टनाद्वृश्चिकस्यासावरुदत्तनयो भृशम् ॥
ततस्तन्मातरः सर्वाः प्रारुदञ्च्छोककातराः ॥ २३ ॥
परिवार्यात्मजं विप्राः सध्वनिः सङ्कुलोऽभवत् ॥
आर्तध्वनिं स शुश्राव राजा धर्मसखस्तदा ॥ २४ ॥
उपविष्टः सभामध्ये सहामात्यपुरोहितः ॥
अथ प्रातिष्ठिपद्राजा सौविदल्लं स वेदितुम् ॥ २५ ॥
अन्तःपुरबहिर्द्वारं सौविदल्लः समेत्य सः ॥
षण्ढवृद्धान्समाहूय वाक्यमेतदभाषत ॥ २६ ॥
षण्ढाः किमर्थमधुना रुदत्यन्तःपुर स्त्रियः ॥
तत्परिज्ञायतां तत्र गत्वा रोदनकारणम् ॥ २७ ॥
एतदर्थं हि मां राजा प्रेरयामास संसदि ॥
इत्युक्तास्तु परिज्ञाय निदानं रोदनस्य ते ॥ २८ ॥
निर्गम्यान्तःपुरात्तस्मै यथावृत्तं न्यवेदयत् ॥
स षण्ढकवचः श्रुत्वा सौविदल्लः सभां गतः ॥ २९ ॥
राज्ञे निवेदयामास पुत्रं वृश्चिकपीडितम् ॥
ततो धर्मसखो राजा श्रुत्वा वृत्तान्तमीदृशम् ॥ 3.1.15.३० ॥
त्वरमाणः समुत्थाय सामात्यः सपुरोहितः ॥
प्रविश्यान्तःपुरं सार्द्धं मान्त्रिकैर्विषहा रिभिः ॥ ३१ ॥
चिकित्सयामास सुतमौषधाद्यैरनेकशः ॥
जातस्वास्थ्यं ततः पुत्रं लालयित्वा स भूपतिः ॥ ३२ ॥
मानयित्वा च मन्त्रज्ञान्रत्नकां चनमौक्तिकैः ॥
निष्क्रम्यान्तःपुराद्राजा भृशं चिन्तासमाकुलः ॥ ३३ ॥
ऋत्विक्पुरोहितामात्यैस्तां सभां सनुपाविशत् ॥
तत्र धर्मसखो राजा समासीनो वरासने ॥
उवाचेदं वचो युक्तमृत्विजः सपुरोहितान् ॥ ३४ ॥
॥ धर्मसख उवाच ॥ ॥
दुःखायैवैकपुत्रत्वं भवति ब्राह्मणो त्तमाः ॥ ३५ ॥
एकपुत्रत्वतो तृणां वरा चैव ह्यपुत्रता ॥
नित्यं व्यपाययुक्तत्वाद्वरमेव ह्यपुत्रता ॥
अहं भार्याशतं विप्रा उदवोढ विचिन्त्य तु ॥ ३६ ॥
वयश्च समतिक्रान्तं सपत्नीकस्य मे द्विजाः ॥
प्राणा मम च भार्याणामस्मिन्पुत्रे व्यवस्थिताः ॥ ३७ ॥
तन्नाशे मम भार्याणां सर्वासां च मृतिर्ध्रुवा ॥
ममापि प्राणनाशः स्यादेकपुत्रस्य मारणे ॥ ३८ ॥
अतो मे बहुपुत्रत्वं केनोपायेन वै भवेत् ॥
तमुपायं मम ब्रूत ब्राह्मणा वेदवि त्तमाः ॥ ३९ ॥
एकैकः शतभार्यासु पुत्रो मे स्याद्यथा गुणी ॥
तत्कर्म व्रत यूयं तु शास्त्रमालोक्य धर्मतः ॥ 3.1.15.४० ॥
महता लघुना वापि कर्मणा दुष्करेण वा ॥
फलं यद्यपि तत्साध्यं करिष्येऽहं न संशयः ॥ ४१ ॥
युष्माभिरुदितं कर्म करिष्यामि न संशयः ॥
कृतमेव हि तद्वित्त शपेऽहं सुकृतैर्मम ॥ ४२ ॥
अस्ति चेदीदृशं कर्म येन पुत्रशतं भवेत् ॥
तत्कर्म कुत्र कर्तव्यं मयेति वदताधुना ॥ ४३ ॥
इति पृष्टास्तदा राज्ञा ऋत्विजः सपुरोहिताः ॥
सम्भूय सर्वे राजानमिदमूचुः सुनिश्चितम् ॥ ४४ ॥
॥ ऋत्विज ऊचुः ॥ ॥
अस्ति राजन्प्रवक्ष्यामो येन पुत्रशतं तव ॥
भवेद्धर्मेण महता शतभार्यासु कैकय ॥ ४५ ॥
अस्ति कश्चिन्महापुण्यो गन्धमादनपर्वतः ॥
दक्षिणाम्बुधिमध्ये यः सेतुरूपेण वर्तते ॥ ४६ ॥
सिद्धचारणगन्धर्वदेवर्षिगणसङ्कुलः ॥
दर्शनात्स्पर्शनान्नृणां महापातकनाशनः ॥ ४७ ॥
तत्रास्ति हनुमत्कुण्डमिति लोकेषु विश्रुतम् ॥
महादुःखप्रशमनं स्वर्गमोक्षफलप्रदम्॥ ४८ ॥
नरकक्लेशशमनं तथा दारिद्र्यमोचनम् ॥
पुत्रप्रदमपुत्राणामस्त्रीणां स्त्रीपदं नृणाम् ॥ ४९ ॥
तत्र त्वं प्रयतः स्नात्वा सर्वाभीष्टप्रदायिनीम्॥
पुत्रीयेष्टिं च तत्तीरे कुरुष्व सुसमाहितः ॥3.1.15.५० ॥
तेन ते शतभार्यासु प्रत्येकं तनयो नृप ॥
एकैकस्तु भवेच्छीघ्रं मा कुरु ष्वात्र संशयम्॥ ५१ ॥
तथोक्तो नृपतिर्विप्रैऋत्विक्भिः सपुरोहितैः ॥
तत्क्षणेनैव ऋत्विक्भिर्भार्याभिश्च पुरोधसा ॥ ५२ ॥
वृतोमात्यैश्च भृत्यैश्च यज्ञसम्भारसंयुतः ॥
प्रययौ दक्षिणाम्भोधौ गन्धमादनपर्वतम् ॥ ५३ ॥
हनुमत्कुण्डमासाद्य तत्र सस्नौ ससैनिकः ॥
मासमात्रं स तत्तीरे न्यवस त्स्नानमाचरन् ॥ ५४ ॥
ततो वसन्ते सम्प्राप्ते चैत्रमासि नृपोत्तमः ॥
इष्टिमारब्धवांस्तत्र पुत्रीयां सपुरोहितः ॥ ५५ ॥
सम्यक्कर्माणि चक्रुस्ते ऋत्विजः सपुरोधसः ॥
सपत्नीकस्य राजर्षेस्तथाधर्मसखस्य तु ॥ ५६ ॥
इष्टौ तस्य समाप्तायां हनूमत्कुण्डतीरतः ॥
पुरोहितो हुतोच्छिष्टं प्राश यद्राजयोषितः ॥ ५७ ॥
ततो धर्मसखो राजा हनूमत्कुण्डवारिषु ॥
सम्यक्चकारावभृथस्नानं भार्याशतान्वितः ॥ ५८ ॥
ऋत्विक्भ्यो दक्षिणाः प्रादादसङ्ख्यातास्तु भूरिशः ॥
ग्रामांश्च प्रददौ राजा बाह्मणेभ्यो द्विजोत्तमाः ॥ ५९ ॥
सामात्यः सपरीवारः सपत्नीकः स धार्म्मिकः ॥
राजा ततो निववृते पुरीं स्वां प्रति नन्दितः ॥ 3.1.15.६० ॥
ततः कतिपये काले गते दशममामि वै ॥
शतं भार्याः शतं पुत्रान्सुषुवुर्गुणवत्तरान् ॥ ६१ ॥
अथ प्रीतमना राजा वीरो धर्मसखो महान् ॥
स्नातः शुद्धश्च सङ्कल्प्य जातकर्माकरोत्तदा॥६२ ॥
गोभूतिलहिरण्यादि ब्राह्मणेभ्यो ददौ बहु ॥
द्वौ पुत्रौ ज्येष्ठभार्यायाः पूर्वजोऽवरजस्तदा ॥ ६३ ॥
सर्वे ववृधिरे पुत्रा एकाधिकशतं द्विजाः ॥
प्रौढेषु तेषु राजासौ तेभ्यो राज्यं विभज्य तु ॥ ६४ ॥
दत्त्वा च प्रययौ सेतुं सभार्यो गन्धमादनम्॥
हनुमत्कुण्डमासाद्य तपोऽतप्यत तत्तटे ॥ ६५ ॥
महान्कालो व्यतीयाय राज्ञ स्तस्य तपस्यतः ॥
राज्ञो धर्मसखस्यास्य ध्यायमानस्य शूलिनम् ॥ ६६ ॥
ततो बहुतिथे काले गते धर्मसखो नृपः ॥
कालधर्मं ययौ तत्र धार्म्मिकश्शान्तमानसः ॥ ६७ ॥
पत्न्योपि तस्य राजर्षेरनुजग्मुः पतिं तदा ॥
ज्येष्ठपुत्रः सुचन्द्रोपि संस्कृत्य पितरं ततः ॥ ६८ ॥
अकरोच्छ्राद्ध पर्यन्तं कर्माणि श्रद्धया सह ॥
राजा सभार्यो वैकुण्ठं मरणादत्र जग्मिवान् ॥ ६९ ॥
सुचन्द्रमुख्यास्ते सर्वे राजपुत्रा महौजसः ॥
स्वस्वराज्यं बुभुजिरे भ्रातरस्त्यक्तमत्सराः ॥ 3.1.15.७० ॥
एवं वः कथितं विप्रा हनूमत्कुण्डवैभवम् ॥
राज्ञो धर्मसखस्यापि चरित्रं परमाद्भुतम् ॥ ७१ ॥
तत्सर्वं कामसि द्ध्यर्थं स्नायात्कुण्डे हनृमतः ॥ ७२ ॥
अध्यायमेनं पठते मनुष्यः शृणोति वा यः सुसमाहितो द्विजाः ॥
सोऽनन्तमाप्नोति सुखं परत्र क्रीडेत सार्द्धं दिवि देववृन्दैः ॥ ७३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये हनुमत्कुण्डप्रशंसायां धर्मसखशतपुउत्रावाप्तिवर्णनन्नाम पञ्चदशोऽध्यायः ॥ १५ ॥