०१४ ब्रह्मशापविमोक्षणवर्णनम्

॥ श्रीसूत उवाच ॥ ॥
स्नात्वा त्वमृत वाप्यां वै सेवित्वैकान्तराघवम् ॥
जितेन्द्रियो नरः स्नातुं ब्रह्मकुण्डं ततो व्रजेत् ॥ १ ॥
सेतुमध्ये महातीर्थं गन्धमादनपर्वते ॥
ब्रह्मकुडमिति ख्यातं सर्व दारिद्र्यभेषजम् ॥ २ ॥
विद्यते ब्रह्महत्यानामयुतायुतनाशनम् ॥
दर्शनं ब्रह्मकुण्डस्य सर्वपापौघनाशनम् ॥ ३ ॥
किं तस्य बहुभिस्तीर्थैः किं तपोभिः किमध्वरैः ॥
महादानैश्च किं तस्य ब्रह्मकुण्डविलोकिनः ॥ ४ ॥
ब्रह्मकुण्डे सकृत्स्नानं वैकुण्ठप्राप्तिकारणम् ॥
ब्रह्मकुण्डसमुद्भूतं भस्म येन धृतं द्विजाः॥ ॥ ५ ॥
तस्यानुगास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥
ब्रह्मकुण्डसमुद्भूतभस्मना यस्त्रिपुण्ड्रकम् ॥ ६ ॥
करोति तस्य कैवल्यं करस्थं नात्र संशयः ॥
तद्भस्मपरमाणुर्वा यो ललाटे धृतो भवेत् ॥ ७ ॥
तावदेवास्य मुक्तिः स्यान्नात्र कार्या विचारणा ॥
तत्कुण्डभस्मना मर्त्यः कुर्यादुद्धूलनं तु यः ॥ ८ ॥
तस्य पुण्यफलं वक्तुं शङ्करो वेत्ति वा न वा ॥
ब्रह्मकुण्डसमुद्भूतं भस्म यो नैव धारयेत् ॥ ९ ॥
रौरवे नरके सोऽयं पतेदाचन्द्रतारकम् ॥
उद्धूलनं त्रिपुण्ड्रं वा ब्रह्मकुण्डस्थभस्मना ॥ 3.1.14.१० ॥
नराधमो न कुर्याद्यः सुखं नास्य कदाचन ॥
ब्रह्मकुण्डसमुद्भूतभस्मनिन्दारतस्तु यः ॥ ११ ॥
उत्पत्तौ तस्य साङ्कर्यमनुमेयं विपश्चिता ॥
ब्रह्मकुण्डसमुद्भूतं भस्मैतल्लोकपावनम् ॥ १२ ॥
अन्यभस्मसमं यस्तु न्यूनं वा वक्ति मानवः ॥
उत्पत्तौ तस्य साङ्कर्य मनुमेयं विपश्चिता ॥ १३ ॥
ब्रह्मकुण्डसमुद्भूतेऽप्यस्मिन्भस्मनि जाग्रति ॥
भस्मान्तरेण मनुजो धारयेद्यस्त्रिपुण्ड्रकम् ॥ १४ ॥
उत्पत्तौ तस्य साङ्क र्यमनुमेयं विपश्चिता ॥
कदाचिदपि यो मर्त्यो भस्मैतत्तु न धारयेत् ॥ १५ ॥
उत्पत्तौ तस्य साङ्कर्यमनुमेयं विपश्चिता ॥
ब्रह्मकुण्डसमुद्भूतं भस्म दद्याद्द्विजाय यः ॥ १६ ॥
चतुरर्णवपर्यन्ता तेन दत्ता वसुन्धरा ॥
सन्देहो नात्र कर्तव्यस्त्रिर्वा शपथयाम्यहम् ॥ १७ ॥
सत्यंसत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ॥
ब्रह्मकुण्डोद्भवं भस्म धारयध्वं द्विजोत्तमाः ॥ १८ ॥
एतद्धि पावनं भस्म ब्रह्मयज्ञसमुद्भवम् ॥
पुरा हि भगवान्ब्रह्मा सर्वलोकपितामहः ॥ १९ ॥
सन्निधौ सर्वदेवानां पर्वते गन्धमादने ॥
ईशशापनिवृत्त्यर्थं क्रतून्सर्वान्समातनोत् ॥ 3.1.14.२० ॥
विधाय विधिवत्सर्वानध्वरान्बहुदक्षिणान् ॥
मुमुचे सहसा ब्रह्मा शम्भुशापाद्द्विजोत्तमाः ॥ २१ ॥
तदेतत्तीर्थमासाद्य स्नानं कुर्वन्ति ये नराः ॥
ते महादेवसायुज्यं प्राप्नुवन्ति न संशयः ॥ २२ ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
व्यासशिष्य महाप्राज्ञ पुराणार्थविशारद ॥
चतुर्दशानां लोकानां स्रष्टारं चतुराननम् ॥ २३ ॥
शम्भुः केनापराधेन शप्तवान्भारतीपतिम् ॥
शापश्च कीदृशस्तस्य पुरा दत्तो हरेण वै ॥
एतत्सर्वं मुने ब्रूहि तत्त्वतोऽस्माकमादरात् ॥ २४ ॥
॥ श्रीसूत उवाच ॥
पुरा बभूव कलहो ब्रह्मविष्ण्वोः परस्परम्॥ २५ ॥
कञ्चिद्धेतुं समुद्दिश्य स्पर्धया श्लाघमानयोः ॥
अहं कर्त्ता न मत्तोऽन्यः कर्त्तास्ति जगतीतले ॥ ॥ २६ ॥
एवमाह हरिं ब्रह्मा ब्रह्माणं च हरिस्तथा ॥
एवं विवादः सुमहान्प्रावर्त्तत पुरा तयोः ॥ २७ ॥
एतस्मिन्नन्तरे विप्राः कुर्वतोः कलहं मिथः ॥
तयोर्गर्वविनाशाय प्रबोधार्थं च देवयोः ॥ २८ ॥
मध्ये प्रादुरभूल्लिङ्गं स्वयञ्ज्योतिरनामयम् ॥
तौ दृष्ट्वा विस्मितौ लिङ्गं ब्रह्मविष्णु परस्परम् ॥ २९ ॥
समयं चक्रतुर्विप्रा देवानां सन्निधौ पुरा ॥
अनाद्यन्तं महालिङ्गं यदेतद्दृश्यते पुरः ॥ 3.1.14.३० ॥
अनन्तादित्यसङ्का शमनन्ताग्निसमप्रभम् ॥
आवयोरस्य लिङ्गस्य योंऽतमादिं च द्रक्ष्यति ॥ ३१ ॥
स भवेदधिको लोके लोककर्ता च स प्रभुः ॥
अहमूर्ध्वं गमिष्यामि लिङ्गस्यातं गवेषयन् ॥ ३२ ॥
गवेषणाय मूलस्य त्वमधस्ताद्धरे व्रज ॥
इति तस्य वचः श्रुत्वा तथे त्याह रमापतिः ॥ ३३ ॥
एवं तौ समयं कृत्वा मार्गणाय विनिर्गतौ ॥
विष्णुर्वराहरूपेण गतोऽधस्ताद्गवेषितुम् ॥ ३४ ॥
हंसतां भारतीजानिः स्वीकृत्योपरि निर्ययौ ॥
अधो लोकान्विचित्याथो विष्णुर्वर्षगणान्बहून् ॥
यथास्थानं समागत्य वभाषे देवसन्निधौ ॥ ३५ ॥
॥ विष्णुरुवाच ॥ ॥
अहं लिङ्गस्य नाद्राक्षमादिमस्येति सत्यवाक्॥ ३६ ॥
ऊर्ध्वं गवेषयित्वाथ ब्रह्माप्यागच्छदत्र सः ॥
आगत्य च वचः प्राह छद्मना चतुराननः ॥ ॥ ३७ ॥
॥ ब्रह्मोवाच ॥ ॥
अहमद्राक्षमस्यान्तं लिङ्गस्येति मृषा पुनः ॥
तयोस्तद्वचनं श्रुत्वा व्रह्मविष्ण्वोर्महेश्वरः ॥
मिथ्यावादिनमाहेदं प्रहस्य चतुराननम् ॥ ३८ ॥
॥ ईश्वर उवाच ॥ ॥
असत्यं यदवोचस्त्वं चतुरानन मत्पुरः ॥ ३९ ॥
तस्मात्पूजा न ते भूयाल्लोके सर्वत्र सर्वदा ॥
अथ विष्णुं पुनः प्राह भगवान्परमेश्वरः ॥ 3.1.14.४० ॥
यस्मात्सत्यमवोचस्त्वं कमलायाः पते हरे ॥
तस्मात्ते मत्समा पूजा भविष्यति न संशयः ॥ ४१ ॥
ततो ब्रह्मा विषण्णः सञ्छङ्करं प्रत्यभाषत ॥
स्वामिन्ममापराधं त्वं क्षमस्व करुणानिधे ॥ ४२ ॥
एकोपराधः क्षन्तव्यः स्वामि भिर्जगदीश्वरैः ॥
ततो महेश्वरोऽवादीद्ब्रह्माणं परिसान्त्वयन् ॥ ४३ ॥
॥ ईश्वर उवाच ॥ ॥
न मिथ्यावचनं मे स्याद्ब्रह्मन्वक्ष्यामि ते शृणु ॥
गच्छ त्वं सहसा वत्स गन्धमादनपर्वतम् ॥४४॥
तत्र क्रतून्कुरुष्व त्वं मिथ्यादोषप्रशान्तये ॥
ततो विधूतपापस्त्वं भविष्यसि न संशयः ॥ ॥४५॥
तेन श्रौतेषु ते ब्रह्मन्स्मार्तेष्वपि च कर्मसु ॥
पूजा भविष्यति सदा न पूजा प्रतिमासु ते॥४६॥
इत्युक्त्वा भगवानीशस्तत्रैवान्तरधीयत ॥
ततो ब्रह्मा ययौ विप्रा गन्धमादनपर्वतम् ॥ ४७ ॥
ईजे च क्रतुकर्तारं क्रतुभिः पार्वतीपतिम् ॥
अष्टाशीतिसहस्राणि वर्षाणि मुनिपुङ्गवाः ॥ ४८ ॥
पौण्डरीकादिभिः सर्वैरध्वरैर्भूरिदक्षिणैः ॥
इन्द्रादिसर्वदेवानां सन्निधावयजच्छिवम् ॥
तेन तुष्टोभवच्छम्भुर्वरमस्मै प्रदत्तवान् ॥ ४९ ॥
॥ ईश्वर उवाच ॥ ॥
मिथ्योक्तिदोषस्ते नष्टः कृतैरेतैर्मखैरिह ॥ 3.1.14.५० ॥
चतुरानन ते पूजा श्रौतस्मार्तेषु कर्मसु ॥
भविष्यत्यमला ब्रह्मन्न पूजा प्रतिमासु ते ॥ ५१ ॥
यागस्थलमिदं तेऽद्य ब्रह्मकुण्डमिति प्रथाम् ॥
गमिष्यति त्रिलोकेस्मिन्पुण्यं पापविनाशनम् ॥ ५२ ॥
ब्रह्मकुण्डाभिधे तीर्थे सकृद्यः स्नानमा चरेत् ॥
मुक्तिद्वारार्गलं तस्य भिद्यते तत्क्षणाद्विधे ॥ ५३ ॥
ब्रह्मकुण्डसमुद्भूतं ललाटे भस्म धारयन् ॥
मायाकपाटं निर्भिद्य मुक्तिद्वारं प्रया स्यति ॥ ५४ ॥
ब्रह्मकुण्डोत्थितं भस्म ललाटे यो न धारयेत् ॥
स्वपितुर्बीजसम्भूतो न मातरि सुतस्तु सः ॥५५॥
ब्रह्मकुण्डसमुद्भूतभस्मधारणतो विधे ॥
ब्रह्महत्यायुतं नश्येत्सुरापानायुतं तथा ॥ ५६ ॥
गुरुतल्पायुतं नश्येत्स्वर्णस्तेयायुतं तथा ॥
तत्संसर्गायुतं नश्येत्सत्यमुक्तं मया विधे ॥ ॥ ५७ ॥
ब्रह्मकुण्डसमुद्भूतभस्मधारणवैभवात् ॥
भूतप्रेतपिशाचाद्या नश्यन्ति क्षणमात्रतः ॥ ५८ ॥
इत्युक्त्वा भगवानीशस्तत्रैवान्तरधीयत ॥
यज्ञेष्वथ समाप्तेषु मुनयश्च जितेन्द्रियाः ॥ ५९ ॥
इन्द्रादिदेवताश्चैव सिद्धचारणकिन्नराः ॥
अन्ये च देवनिवहा गन्धमादनपर्वते ॥ 3.1.14.६० ॥
तां यज्ञभूमिमाश्रित्य स्वयं रुद्रेण सेविताम् ॥
निरन्तरमवर्तन्त विदित्वा तस्य वैभवम् ॥ ६१ ॥
यथाविधि ततो यज्ञान्समाप्य बहुदक्षिणान् ॥
सत्यलोकमगाद्ब्रह्मा शिवाल्लब्धमनोरथः ॥ ६२ ॥

a
तदाप्रभृति देवाश्च मुनयश्च द्विजोत्तमाः ॥
ब्रह्मकुण्डं समासाद्य चक्रुर्यागान्विधानतः ॥ ६३ ॥
तस्मादियक्षवो मर्त्याः कुर्युर्यज्ञानिहैव हि ॥ ६४ ॥
मनुजदेवमुनीश्वरवन्दितं सकलसंसृतिनाशकरं द्विजाः ॥
जलजसम्भवकुण्डमिदं शुभं सकल पापहरं सकलार्थदम् ॥ ६५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये ब्रह्मकुण्डप्रशंसायां ब्रह्मशापविमोक्षणवर्णनन्नाम चतुर्दशोऽध्यायः ॥ १४ ॥