॥ श्रीसूत उवाच ॥ ॥
मङ्गलाख्ये महातीर्थे नरः स्नात्वा विकल्मषः ॥
एकान्तरामनाथाख्यं क्षेत्रं गच्छेत्ततः परम् ॥ १ ॥
तत्र रामो जगन्नाथो जानक्या लक्ष्मणेन च ॥
हनुमत्प्रमुखैश्चापि वानरैः परिवारितः ॥ २ ॥
सन्निधत्ते सदा विप्रा लोकानुग्रहकाम्यया ॥
विद्यते पुण्यदा तत्र नाम्ना ह्यमृतवापिका ॥ ३ ॥
तस्यां निमज्जतां नृणां न जरान्तकजं भयम् ॥
अस्याममृतवाप्यां यः सश्रद्धं स्नाति मानवः ॥ ४ ॥
अमृतत्वं भजत्येष शङ्करस्य प्रसादतः ॥
महापातकनाशिन्यामस्यां वाप्यां निमज्जताम् ॥ ५ ॥
अमृतत्वं हरो दातुं सन्निधत्ते सदा तटे ॥
॥ । ऋषय ऊचुः ॥ ॥
इयं ह्यमृतवापीति कुतो हेतोर्निगद्यते ॥ ६ ॥
अस्माकमेतद्ब्रूहि त्वं कृपया व्यासशासित ॥
तथैवामृतनामिन्या वापिकायाश्च वैभवम् ॥
तृप्तिर्न जायतेऽस्माकं त्वद्वचोऽमृतपायिनाम् ॥ ।७ ॥
॥ श्रीसूत उवाच ॥ ॥
अस्या अमृतनामत्वं वैभवं च मनोहरम् ॥ ८ ॥
प्रवक्ष्यामि विशेषेण शृणुत द्विजसत्तमाः ॥
पुरा हिमवतः पार्श्वे नानामुनिसमाकुले ॥ ९ ॥
सिद्धचारणगन्धर्वदेवकिन्नरसेविते ॥
सिंहव्याघ्रवराहेभमहिषादिसमाकुले ॥ 3.1.13.१० ॥
तमालतालहिन्तालचम्पकाशोकसन्तते ॥
हंसकोकिलदात्यूहचक्रवाकादिशोभिते ॥ ११ ॥
पद्मेन्दीवरकह्लारकुमुदाढ्यसरो वृते ॥
सत्यवाञ्छीलवान्वाग्मी वशी कुम्भजसोदरः ॥ १२ ॥
आस्ते तपश्चरन्नित्यं मोक्षार्थी शङ्करप्रियः ॥
त्रिकालमर्चयञ्छम्भु वन्यैर्मूलफलादिभिः ॥। १३ ॥
आगतान्स्वाश्रमाभ्याशमतिथीन्वन्यभोजनैः ॥
पूजयन्नर्चयन्नग्निं सन्ध्योपासनतत्परः ॥ १४ ॥
गायत्र्यादीन्महामन्त्रान्कालेकाले जपन्मुदा ॥
निद्रां परित्यजन्ब्राह्मे मुहूर्ते विष्णुचिन्तकः ॥ १५ ॥
स्नानं कुर्वन्नुषःकाले नमन्सन्ध्यां प्रसन्नधीः ॥
गायत्रीं प्रजपन्विप्राः पूजयन्हरिशङ्करौ ॥ १६ ॥
वेदाध्यायी शास्त्रपाठी मध्याह्नेऽतिथिपूजकः ॥
श्रोतापुराणपाठानामग्निकार्येष्वतन्द्रितः ॥ १७ ॥
पञ्चयज्ञपरो नित्यं वैश्वदेवबलिप्रदः ॥
प्रत्यब्दं श्राद्धकृत्पित्रोस्तथान्यश्राद्धकृद्द्विजाः ॥ १८ ॥
एवं निनाय कालं स नित्यानुष्ठानतत्परः ॥
तस्यैवं वर्तमानस्य तपश्चरत उत्तमम् ॥ १९ ॥
सहस्रवर्षाण्यगमञ्च्छङ्करासक्तचेतसः ॥
तथापि शङ्करो नास्याययौ प्रत्यक्षतां तदा ॥ 3.1.13.२० ॥
ततस्त्वगस्त्यभ्रातासौ ग्रीष्मे पञ्चानिमध्यगः ॥
भास्करं दत्तदृष्टिश्च मौनव्रतसमन्वितः ॥ २१ ॥
तिष्ठन्कनिष्ठिकाङ्गुल्यां वामपादस्य निश्चलः ॥
ऊर्ध्वबाहुर्निरालम्बस्तपस्तेपेऽतिदारुणम् ॥ २२ ॥
अथ तस्य प्रसन्नात्मा महादेवो घृणानिधिः ॥
प्रादुरासीत्स्वया दीप्त्या दिशो दश विभासयन् ॥ २३ ॥
ततोऽद्राक्षीन्मुनिः शम्भुं साम्बं वृषभसंस्थि तम् ॥
दृष्ट्वा प्रणम्य तुष्टाव भवानीपतिमीश्वरम् ॥ २४ ॥
॥ मुनिरुवाच ॥ ॥
नमस्ते पार्वतीनाथ नीलकण्ठ महेश्वर॥
शिव रुद्र महादेव नम स्ते शम्भवे विभो ॥ २५ ॥
श्रीकण्ठोमापते शूलिन्भगनेत्रहराव्यय ॥
गङ्गाधर विरूपाक्ष नमस्ते रुद्र मन्यवे ॥ २६ ॥
अन्तकारे कामशत्रो देवदेव जगत्पते ॥
स्वामिन्पशुपते शर्व नमस्ते शतधन्वने ॥
दक्षयक्षविनाशाय स्नायूनां पतये नमः ॥
निचेरवे नमस्तुभ्यं पुष्टानां पतये नमः ॥ ॥ २८ ॥
भूयोभूयो नमस्तुभ्यं महादेव कृपालय ॥
दुस्तराद्भवसिन्धोर्मां तारयस्व त्रिलोचन ॥ २९ ॥
अगस्त्यसोदरेणैवं स्तुतः शम्भुरभाषत ॥।
प्रीणयन्वचसा स्वेन कुम्भजस्यानुजं मुनिम् ॥ 3.1.13.३० ॥
॥ ईश्वर उवाच ॥ ॥
कुम्भजानुज वक्ष्यामि मुक्त्युपायं तवानघ ॥
सेतुमध्ये महातीर्थं गन्धमादनपर्वते ॥ ३१ ॥
मङ्गलाख्यस्य तीर्थस्य नातिदूरेण वर्तते ॥
तत्र गत्वा कुरु स्नानं ततो मुक्तिमवाप्स्यसि ॥३२॥
तत्तीर्थसेवनान्नान्योमोक्षो पायो लघुस्तव ॥
न हि तत्तीर्थवैशिष्ट्यं वक्तुं शक्यं मयापि च ॥ ३३ ॥
सन्देहो नात्र कर्तव्यस्त्वयाद्य मुनिसत्तम॥
तस्मात्तत्रैव गच्छ त्वं यदीच्छसि भवक्षयम् ॥ ३४ ॥
इत्युक्त्वा भगवानीशस्तत्रैवान्तरधीयत ॥
ततो देवस्य वचनादगस्त्यस्य सहोदरः ॥ ३५ ॥
गत्वा सेतुं समुद्रे तु गन्धमादनपर्वते॥
ईश्वरणैव गदितं तीर्थं तच्छीघ्रमासदत् ॥ ३६ ॥
तत्र तीर्थे महापुण्ये स्नातानां मुक्तिदायिनि ॥
एकान्तरामनाथाख्ये क्षेत्रालङ्करणे शुभे ॥ ३७ ॥
सस्नौ नियमपूर्वं स त्रीणि वर्षाणि वै द्विजः ॥
ततश्चतुर्थवर्षे तु समाधिस्थो महामुनिः ॥ ३८ ॥
ब्रह्मनाड्या प्राणवायुं मूर्द्धन्यारोप्ययोगतः ॥
प्राणान्निर्गमयामास ब्रह्मरन्ध्रेण तत्र सः ॥ ३९ ॥
ततोऽगस्त्यानुजः सोयं परित्यज्य कलेवरम् ॥
अवाप मुक्तिं परमां तस्य तीर्थस्य वैभवात् ॥3.1.13.४॥।
विनष्टाशेषदुःखस्य तत्तीर्थस्नानवैभवात् ॥
मृतत्वमभूद्यस्मादगस्त्यानुजजन्मनः॥४१॥
ततो ह्यमृतवापीतिप्रथाऽस्यासीन्मुनीश्वराः॥
अत्र तीर्थे नरा ये तु वर्षत्रयमतन्द्रिताः॥४२॥
स्नानं कुर्वन्ति ते सत्यममृतत्वं प्रयान्ति हि ॥
एवं त्वमृतवापीति प्रथा तद्वैभवं तथा ॥
युष्माकं कथितं विप्राः किम्भूयः श्रोतुमिच्छथ ॥ ४३ ॥
॥ ऋषय ऊचुः ॥ ॥
एकान्तरामनाथाख्या तस्य क्षेत्रस्य वै मुने ॥ ४४ ॥
कथं समागता सूत वक्तुमेतत्त्वमर्हसि ॥
अस्माकं मुनिशार्दूल तच्छुश्रूषातिभूयसी ॥ ४५ ॥
॥ श्रीसूत उवाच ॥ ॥
पुरा दाशरथी रामः ससुग्रीवभिभीषणः ॥
लक्ष्मणेन युतो भ्रात्रा मन्त्रज्ञेन हनूमता ॥ ४६ ॥
वानरैर्बध्यमाने तु सेतावम्बुधिमध्यतः ॥
चिन्तयन्मनसा सीतामेकान्ते सममन्त्रयत् ॥ ४७ ॥
तेषु मन्त्र यमाणेषु रावणादिवधं प्रति ॥
उल्लोलतरकल्लोलो जुघोष जलधिर्भृशम् ॥ ४८ ॥
अर्णवस्य महाभीमे जृम्भमाणे महाध्वनौ ॥
अन्योन्यकथितां वार्तां नाशृण्वंस्ते परस्परम् ॥ ४९ ॥
ततः किञ्चिदिव क्रुद्धो भृकुटीकुटिलेक्षणः ॥
भ्रूभङ्गलीलया रामो नियम्य जलधिं तदा ॥ ॥ 3.1.13.५० ॥
न्यमन्त्रयत विप्रेन्द्रा राक्षसानां वधं प्रति ॥
एकान्तेऽमन्त्रयत्तत्र तैः सार्धं राघवो यतः ॥ ५१ ॥
एकान्तरामनाथाख्यं तत्क्षेत्रमभवद्विजाः ॥
सोयं नियमितो वार्धी रामभ्रूभङ्गलीलया ॥ ५२ ॥
अद्यापि निश्चलजलस्तत्प्रदेशेषु दृश्यते ॥
एकान्तरामनाथाख्यं तदेतत्क्षेत्रमुत्तमम् ॥ ५३ ॥
आगत्यामृतवाप्यां च स्नात्वा नियमपूर्वकम् ॥
रामादीनपि सेवन्ते ते सर्वे मुक्तिमाप्नुयुः ॥ ५४ ॥
अद्वैतविज्ञानविवेकशून्या विरक्तिहीनाश्च समाधि हीनाः ॥
यागाद्यनुष्ठानविवर्जिताश्च स्नात्वात्र यास्यन्त्यमृतं द्विजेन्द्राः ॥ ५५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये अमृतवापीप्रशंसायाम् अगस्त्यभ्रातृविमुक्तिवर्णनन्नाम त्रयोदशोऽध्यायः ॥ १३ ॥