०१२ मनोजवालक्ष्मीविनाशवर्णनम्

॥ श्रीसूत उवाच ॥ ॥
सीताकुण्डे महापुण्ये नरः स्नात्वा द्विजोत्तमाः ॥
ततस्तु मङ्गलं तीर्थमभिगच्छेत्समाहितः ॥ १ ॥
सन्निधत्ते सदा यत्र कमला विष्णुवल्लभा ॥
अलक्ष्मीपरिहाराय यस्मिन्सरसि वै सुराः ॥ २ ॥
शतक्रतुमुखाः सर्वे समागच्छन्ति नित्यशः ॥
तदेतत्तीर्थमुद्दिश्य ऋषयो लोकपावनम् ॥ ३ ॥
इतिहासं प्रवक्ष्यामि पुण्यं पापविनाशनम् ॥
पुरा मनोजवो नाम राजा सोमकुलोद्भवः ॥ ४ ॥
पालयामास धर्मेण धरां सागरमेखलाम् ॥
अयष्ट स सुरान्यज्ञै र्ब्राह्मणानन्नसञ्चयैः ॥ ५ ॥
तर्पयामास कव्येन प्रत्यब्दं पितृदेवताः ॥
त्रयीमध्यैष्ट सततमपाठीच्छास्त्रमर्थवत् । ६ ॥
व्यजेष्ट शत्रून्वीर्येण प्राणं सीदीशकेशवौ ॥
अरंस्त नीतिशास्त्रेषु तथापाठीन्महामनून् ॥७॥
एवं स धर्मतो राजा पालयामास मेदिनीम् ॥
रक्षतस्तस्य राज्ञोऽभूद्राज्यं निहत कण्टकम् ॥ ८ ॥
अहङ्कारोऽभवत्तस्य पुत्रसम्पद्विनाशनः ॥
अहङ्कारो भवेद्यत्र तत्र लोभो मदस्तथा ॥९॥
कामः क्रोधश्च हिंसा च तथाऽसूया विमोहिनी ॥
भवन्त्येतानि विप्रेन्द्राः सम्पदां नाशहेतवः ॥ 3.1.12.१० ॥
एतानि यत्र विद्यन्ते पुरुषे स विनश्यति ॥
क्षणेन पुत्रपौत्रैश्च सार्द्धं चाखिलसम्पदा ॥ ॥ ११ ॥
बभूव तस्यासूया च जनविद्वेषिणी सदा ॥
असूयाकुलचित्तस्य वृथाहङ्कारिणस्तथा ॥ १२ ॥
लुब्धस्य कामदुष्टस्य मतिरेवं बभूव ह ॥
विप्रग्रामे करादानं करिष्यामीति निश्चितः ॥ १३ ॥
अकरोच्च तथा राजा निश्चित्य मनसा तदा ॥
धनं धान्यं च विप्राणां जहार किल लोभतः ॥ ॥ १४ ॥
शिवविष्ण्वादिदेवानां वित्तान्यादत्त रागतः ॥
शिवविष्ण्वादिदेवानां विप्राणां च महात्मनाम् ॥ १५ ॥
क्षेत्राण्यपजहारायमहङ्कार विमूढधीः ॥
एवमन्याययुक्तस्य देवद्विजविरोधिनः ॥ १६ ॥
दुष्कर्मपरिपाकेन क्रूरेण द्विजपुङ्गवाः ॥
पुरं रुरोध बलवान्परदेशाधिपो रिपुः ॥ १७ ॥
गोलभोनाम विप्रेन्द्राश्चतुरङ्गबलैर्युतः ॥
षण्मासं युद्धमभवद्गोलभेन दुरात्मनः ॥ १९ ॥
मनोजवस्य नृपतेरहङ्काररतात्मनः ॥
ततः स गोलभेनाजौ जितो राज्यात्परिच्युतः ॥ १९ ॥
वनं सपुत्रदारः सन्प्रपेदे स मनोजवः ॥
गोलभः पालयन्नास्ते मनोजवपुरे चिरम् ॥3.1.12.२०॥
चतुरङ्गबलोपेतस्तमुद्वास्य रणे बली ॥
मनोजवोपि विप्रेन्द्राः शोचन्स्त्रीपुत्रसंयुतः ॥ २१ ॥
क्षुत्क्षामः प्रस्खलञ्छश्वत्प्रविवेश महावनम् ॥
झिल्लिकागणसङ्घुष्टं व्याघ्रश्वापद भीषणम् ॥ २२ ॥
व्याप्तद्विरदचीत्कारं वराहमहिषाकुलम् ॥
तस्मिन्वने महाघोरे क्षुधया परिपीडितः ॥ २३ ॥
अयाचतान्नं पितरं मनोजवसुतः शिशुः ॥
अम्ब मेन्नं प्रयच्छ त्वं क्षुधा मां बाधते भृशम् ॥२४ ॥
एवं स्वजननीं चापि प्रार्थयामास बालकः ॥
तन्मातापितरौ तत्र श्रुत्वा पुत्रस्य भाषितम् ॥ २५ ॥
शोकाभिभूतौ सहसा मोहं समुपजग्मतुः ॥
भार्यामथाब्रवीद्राजा सुमित्रानाम नामतः ॥ २६ ॥
मुह्यमानश्च स मुहुः शुष्ककण्ठौष्ठतालुकः ॥
सुमित्रे किं करिष्यामि कुत्र यास्यामि का गतिः ॥ २७ ॥
मरिष्यत्यचिरादेष सुतो मे क्षुधयार्दितः ॥
किमर्थं ससृजे वेधा दुर्भाग्यं मां वृथा प्रिये ॥ २८ ॥
को वा मोचयिता दुःखमेतद्दुष्कर्मजं मम ॥
न पूजितो मया शम्भुर्हरिर्वा पूर्वजन्मसु ॥ २९ ॥
तथान्या देवताः सूर्यविभावसुमुखाः प्रिये ॥
तेन पापेन चाद्याहमस्मिञ्जन्मनि शोभने ॥ 3.1.12.३० ॥
अहङ्काराभिभूतोऽस्मि विप्रक्षेत्राण्यपाहरम् ॥
शिवविष्ण्वादिदेवानां वित्तं चापहृतं मया ॥ ३१ ॥
एवं दुष्कर्मबाहुल्याद्गोलभेन पराजितः ॥
वनं यातोस्मि विजनं त्वया सह सुतेन च ॥ ३२ ॥
निरन्नो निर्धनो दुःखी क्षुधितो ऽहं पिपासितः ॥
कथमन्नं प्रदास्यामि क्षुधिताय सुताय मे ॥ ३३ ॥
न मयान्नानि दत्तानि ब्राह्मणेभ्यः शुचिस्मिते ॥
न मया पूजितः शम्भुर्विष्णुर्वा देवतान्तरम् ॥ ३४ ॥
तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ॥
न मयाग्नौ हुतं पूर्वं न तीर्थमपि सेवितम् ॥ ३५ ॥
मातृश्राद्धं पितृश्राद्धं मृताह दिवसे तयोः॥
नैकोद्दिष्टविधानेन पार्वणेनापि वै प्रिये ॥३६॥
कृतं न हि मया भद्रे भूरिभोजनमेव वा ॥
तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ॥ ॥ ३७ ॥
चैत्रमासे प्रिये चित्रानक्षत्रे पानकं मया ॥
पनसानां फलं स्वादु कदलीफलमेव वा ॥ ३८ ॥
तथा छत्रं सदण्डं च रम्यं पादुकयोर्द्वयम् ॥
ताम्बूलानि च पुष्पाणि चन्दनं चानुलेपनम् ॥ ३९ ॥
न दत्तं वेदविद्भ्यस्तु चित्रगुप्तस्य तुष्टये ॥
तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ॥ 3.1.12.४० ॥
नाश्वत्थश्चूतवृक्षो वा न्यग्रोधस्तिन्तिणी तथा ॥
पिचुमन्दः कपित्थो वा तथैवामलकीतरुः ॥ ४१ ॥
नारिकेलतरुर्वापि स्थापितोऽध्वगशान्तये ॥
तेन पापेन मे त्वद्य दुःखमेतत्समागतम्॥ ४२ ॥
सम्मार्जनं च न कृतं शिवविष्ण्वालये मया ॥
न खानितं तटाकं च न कूपोपि ह्रदोऽपिवा ॥ ॥ ४३ ॥
न रोपितं पुष्पवनं तथैव तुलसीवनम् ॥
शिवविष्ण्वालयौ वापि निर्मितो न मया प्रिये ॥ ४४ ॥
तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ॥
न मया पैतृके मासि पितॄनुद्दिश्य शोभने ॥
महालयं कृतं श्राद्धमष्टकाश्राद्धमेव वा ॥ ४५ ॥
नित्यश्राद्धं तथा काम्यं श्राद्धं नैमित्तिकं प्रिये ॥
न कृताः क्रतवश्चापि विधिवद्भूरिदक्षिणाः ॥ ४६ ॥
मासोपवासो न कृतः एकादश्यामुपोषणम् ॥
धनुर्मासेप्युषःकाले शम्भुविष्ण्वादिदेवताः ॥ ४७ ॥
सम्पूज्य विधिवद्भद्रे नैवेद्यं न कृतं मया ॥
तेन पापेन मे त्वद्य दुःखमेतत्समा गतम् ॥ ४८॥
हरिशङ्करयोर्नाम्नां कीर्तनं न मया कृतम् ॥
उद्धूलनं त्रिपुण्ड्रं च जाबालोक्तैश्च सप्तभिः ॥ ४९ ॥
न धृतं भस्मना भद्रे रुद्राक्षं न धृतं मया ॥
जपश्च रुद्रसूक्तानां पञ्चाक्षरजपस्तथा ॥ 3.1.12.५० ॥
तथा पुरुषसूक्तस्य जपोऽप्यष्टाक्षरस्य च ॥
नैवकारि मया भद्रे नैवान्यो धर्मसञ्चयः ॥ ५१ ॥
तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ॥
एवं स विलपन्राजा भार्यामाभाष्य खिन्नधीः ॥ ५२ ॥
मूर्च्छामुपाययौ विप्राः पपात च धरातले ॥
सुमित्रा पतितं दृष्ट्वा भार्या सा पतिमङ्गना ॥ ५३ ॥
आलिङ्ग्य विललापाथ सपुत्रा भृशदुःखिता ॥
मम नाथ महाराज सोमान्वयधुरन्धर ॥ ५४ ॥
मां विहाय क्व यातोऽसि सपुत्रां विजने वने ॥
अनाथां त्वामनुगतां सिंहत्रस्तां मृगीमिव ॥ ५५ ॥
मृतोऽसि यदि राजेन्द्र तर्हि त्वामहमप्यरम् ॥
अनुव्रजामि विधवा न स्थास्ये क्षणमप्युत॥ ५६ ॥
पितरं पश्य पतितं चन्द्रकान्त सुत क्षितौ ॥
इत्युक्तश्चन्द्रकान्तोऽपि सुतो राज्ञः क्षुधार्दितः ॥ ५७ ॥
पितरं परिरभ्याथ निःशब्दं प्ररुरोद सः ॥
एतस्मिन्नन्तरे विप्रा जटावल्कलसंवृतः ॥ ५८ ॥
भस्मोद्धूलितसर्वाङ्गस्त्रिपुण्ड्राङ्कितमस्तकः ॥
रुद्राक्षमालाभरणः सितयज्ञोपवीतवान् ॥ ५९ ॥
पराशरोनाम मुनिराजगाम यदृच्छया ॥
तं शब्दमभिलक्ष्यासौ साधुसज्जनसम्मतः ॥ 3.1.12.६० ॥
ततः सुमित्रा तं दृष्ट्वा पराशरमुपागतम् ॥
ववन्दे चरणौ तस्य सपुत्रा सा पतिव्रता ॥ ६१ ॥
ततः पराशरेणेयं सुमित्रा परिसान्त्विता ॥
आश्वासिता च मुनिना मा शोचस्वेति भामिनि ॥
ततः सुमित्रां पप्रच्छ शक्तिपुत्रो महामुनिः ॥ ६२ ॥
॥ पराशर उवाच ॥
का त्वं सुश्रोणि कश्चासौ यश्चायं पतितोऽग्रतः ॥ ६३ ॥
अयं शिशुश्च कस्ते स्याद्वद तत्त्वेन मे शुभे ॥
पृष्टैवं मुनिना साध्वी तमुवाच महामुनिम् ॥ ६४ ॥
॥ सुमित्रोवाच ॥ ॥
पतिर्ममायमस्याहं भार्या वै मुनिसत्तम ॥
आवाभ्यां जनितश्चायं चन्द्रकान्ताभिधः सुतः ॥ ६५ ॥
अयं मनोजवो नाम राजा सोमकुलोद्भवः ॥
विक्रमाढ्यस्य तनयः शौर्ये विष्णुसमो बली ॥ ६६ ॥
सुमित्रा नाम तस्याहं भार्या पतिमनुव्रता ॥
युद्धे विनिर्जितो राजा गोलभेन मनोजवः ॥ ६७ ॥
राज्याद्भ्रष्टो निरालम्बो मया पुत्रेण चान्वितः ॥
वनं विवेश ब्रह्मर्षे क्रूरसत्त्वभयानकम् ॥६८॥
क्षुधया पीडितः पुत्रो ह्यावामन्नमयाचत ॥
निरन्नो विधुरो राजा दृष्ट्वा पुत्रं क्षुधार्दितम् ॥ ६९ ॥
शोकाकुलमना ब्रह्मन्मूर्च्छितः पतितो भुवि ॥
इति तद्वचनं श्रुत्वा शोकपर्याकुलाक्षरम् ॥ 3.1.12.७० ॥
शक्तिपुत्रो मुनिः प्राह सुमित्रां तां पतिव्रताम् ॥
मनोजवस्य नृपतेर्भार्यामग्निशिखोपमाम् ॥ ॥ ७१ ॥
॥ पराशर उवाच ॥ ॥
मनोजवस्य भार्ये ते मा भीर्भूयात्कथञ्चन ॥
युष्माकमशुभं सत्यमचिरान्नाशमेष्यति ॥ ७२ ॥
मूर्च्छां विहाय ते भद्रे क्षणादुत्थास्यते पतिः ॥
ततः पराशरो विप्रः पाणिना तं नराधिपम् ॥ ७३ ॥
पस्पर्श मन्त्रं प्रजपन्ध्यात्वा देवं त्रियम्बकम् ॥
ततो मनोजवो राजा करस्पृष्टो महामुनेः ॥ ७४ ॥
उत्थितः सहसा तत्र त्यक्त्वा मूर्च्छां तमोमयीम् ॥
ततः पराशरमुनिं प्रणम्य जगतीपतिः ॥
उवाच परमप्रीतः प्राञ्जलिर्विप्रसत्तमम् ॥ ७५ ॥
॥ मनोजव उवाच ॥ ॥
पराशरमुने त्वद्य त्वत्पादाब्जनिषेवणात् ॥ ७६ ॥
मूर्च्छा मे विगता सद्यः पातकं चैव नाशितम् ॥
त्वद्दर्शनमपुण्यानां नैव सिध्येत्कदाचन ॥ ७७ ॥
रक्ष मां करुणादृष्ट्या च्यावितं शत्रुभिः पुरात् ॥
इत्युक्तः स मुनिः प्राह राजानं तं मनोजवम् ॥ ७८ ॥
॥ पराशर उवाच ॥ ॥
उपायं ते प्रवक्ष्यामि राजञ्च्छत्रुजयाय वै ॥
रामसेतौ महापुण्ये गन्धमादनपर्वते ॥ ७९ ॥ ।
विद्यते मङ्गलं तीर्थं सर्वैश्वर्यप्रदायकम् ॥
सर्वलोकोपकाराय तस्मिन्सरसि राघवः ॥ 3.1.12.८० ॥
सन्निधत्ते सदा लक्ष्म्या सीतया राजसत्तम ॥
सपुत्रभार्यस्त्वं तत्र गत्वा स्नात्वा सभक्तिकम् ॥ ८१ ॥
क्षेत्रश्राद्धादिकं चापि तत्तीरे कुरु भूपते ॥
एवं कृते त्वया राजन्नलक्ष्मीः क्लेशकारिणी ॥ ९२ ॥
वैभवात्तस्य तीर्थस्य नाशं यास्यत्यसंशयम् ॥
मङ्गलानि च सर्वाणि प्राप्स्यसे न चिरान्नृप ॥ ८३ ॥
विजित्य शत्रूंश्च रणे पुनर्भूमिं प्रपत्स्यसे ॥
अतस्त्वं भार्यया सार्द्धं पुत्रेण च मनोजव ॥ ८४ ॥
गच्छ मङ्गलतीर्थं तद्गन्धमादनपर्वते ॥
अहमप्यागमिष्यामि तवानुग्रहकाम्यया ॥ ८५ ॥
पराशरस्त्वेवमुक्त्वा राजमुख्यैस्त्रिभिः सह ॥
प्रायात्सेतुं समुद्दिश्य स्नातुं मङ्गलतीर्थके ॥ ८६ ॥
राजादिभिः सह मुनिर्विलङ्घ्य विविधं वनम् ॥
वनप्रदेशदेशांश्च दस्युग्रामाननेकशः ॥ ८७ ॥
प्रययौ मङ्गलं तीर्थं गन्धमादनपर्वते ॥
तत्र सङ्कल्प्य विधिवत्सस्नौ स मुनिपुङ्गवः ॥ ८८ ॥
तानपि स्नापयामास राजादीन्विधिपूर्वकम् ॥
तत्र श्राद्धं च भूपालश्चकार पितृतृप्तये ॥ ८९ ॥
तत्र मासत्रयं सस्नौ राजा पत्नीसुतस्तथा ॥
ततः पराशरमुनिः सस्नौ नियमपूर्वकम् ॥। ॥ 3.1.12.९० ॥
एवं मासत्रयं सस्नौ तैः साकं मुनिपुङ्गवः ॥
मङ्गलाख्ये महापुण्ये सर्वामङ्गलनाशने ॥ ९१ ॥
ततः पराशरमुनिः सर्वानर्थविनाशनम् ॥
रामस्यैकाक्षरं मन्त्रं तदन्ते समुपादिशत् ॥ ९२ ॥
चत्वारिंशद्दिनं तत्र मन्त्रमेकाक्षरं नृपः ॥
तत्र तीर्थे जजापासौ मुन्युक्तेनैव वर्त्मना ॥ ९३ ॥
एवमभ्यसतस्तस्य मन्त्रमेकाक्षरं द्विजाः ॥
मुनिप्रसादात्पुरतो धनुः प्रादुरभूद्दृढम् ॥ ९४ ॥
अक्षयाविषुधी चापि खड्गौ च कनकत्सरू ॥
एकं चर्म गदा चैका तथैको मुसलोत्तमः ॥ ९५ ॥
एकः शङ्खो महानादो वाजियुक्तो रथस्तथा ॥
ससारथिः पताका च तीर्थादुत्तस्थुरग्रतः ॥ ९६ ॥ ।
कवचं काञ्चनमयं वैश्वानरसमप्रभम् ॥
प्रादुर्बभूव तत्तीर्थात्प्रसादेन मुनेस्तथा ॥ ९७ ॥
हारकेयूरमुकुटकटकादिविभूषणम्॥
तीर्थानां प्रवरात्तस्मादुत्थितं नृपतेः पुरः ॥ ९८ ॥
दिव्याम्बरसहस्रं च तीर्थात्प्रादुरभूत्तदा ॥
माला च वैजयन्त्याख्या स्वर्णपङ्कजशोभिता ॥ ९९ ॥
एतत्सर्वं समालोक्य मुनयेऽसौ न्यवेदयत् ॥
ततः पराशरमुनिर्जलमादाय तीर्थतः ॥ 3.1.12.१०० ॥
अभ्यषिञ्चन्नरपतिं मन्त्रपूतेनवारिणा ॥
ततोऽभिषिक्तो नृपतिर्मुनिना परिशोभितः ॥ १०१ ॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा ॥
हारकेयूरमुकुटकटकादिविभूषितः ॥ १०२ ॥
दिव्याम्बरधरश्चापि वाजियुक्त रथस्थितः ॥
शुशुभेऽतीव नृपतिर्मध्याह्न इव भास्करः ॥ १०३ ॥
तस्मै नृपतये तत्र ब्रह्माद्यस्त्रं महामुनिः ॥
साङ्गं च सरहस्यं च सोत्सर्गं सोप संहृति ॥ १०४ ॥
उपादिशच्छक्तिपुत्रः सुमित्राजानये तदा ॥
मनोजवोऽथ मुनिना ह्याशीर्वादपुरःसरम् ॥ १०५ ॥
प्रेरितो रथमास्थाय प्रणम्य मुनिपुङ्गवम् ॥
प्रदक्षिणीकृत्य तदाभ्यनुज्ञातो महर्षिणा ॥ १०६ ॥
सार्द्धं पत्न्या च पुत्रेण प्रययौ विजयाय सः ॥
स गत्वा स्वपुरं राजा प्रदध्मौ जलजं तदा ॥ १०७ ॥
ततः शङ्खरवं श्रुत्वा गोलभस्तु ससैनिकः ॥
युद्धाय निर्ययौ तूर्णं मनोजवनृपेण सः ॥ १०८ ॥
दिनत्रयं रणं जज्ञे गोलभेन नृपस्य वै ॥
ततश्चतुर्थे दिवसे गोलभं तु ससैनिकम् ॥ १०९ ॥
मनोजवो नृपो युद्धे ब्रह्मास्त्रेण व्यनाशयत् ॥
ततः सपुत्र भार्योऽयं पुरं प्राप्य निजं नृपः ॥ 3.1.12.११० ॥
पालयन्पृथिवीं सर्वां बुभुजे भार्यया सह ॥
तदाप्रभृति राजासौ नाहङ्कारं चकार वै ॥ १११ ॥
असूयादींस्तथा दोषान्वर्जयामास भूपतिः ॥
अहिंसानिरतो दान्तः सदा धर्मपरोऽभवत् ॥ ११२ ॥
सहस्रं वत्सरानेवं ररक्ष स महीपतिः ॥
ततो विरक्तो राजेन्द्रः पुत्रे राज्यं निधाय तु ॥ ११३ ॥
जगाम मङ्गलं तीर्थं गन्धमादनपर्वते ॥
तपश्चचार तत्रासौ ध्यायन्हृदि सदाशिवम् ॥ ११४ ॥।
ततोऽचिरेण कालेन त्यक्त्वा देहं मनोजवः ॥
शिवलोकं ययौ राजा तस्य तीर्थस्य वैभवात् ॥ ११५ ॥
तस्य भार्या सुमित्रापि तस्यालिङ्ग्य तनुं तदा ॥
अन्वारूढा चितां विप्राः प्राप तल्लोकमेव सा ॥ ११६ ॥
॥ श्रीसूत उवाच ॥ ॥
एवं प्रभावं तत्तीर्थं श्रीमन्मङ्गलनामकम् ॥
मनोजवो नृपो यत्र स्नात्वा तीर्थे महत्तरे ॥ ११७ ॥
शत्रून्विजित्य देहान्ते शिवलोकं ययौ स्त्रिया ॥
तस्मात्सर्वप्रयत्नेन सेव्यं मङ्गलतीर्थकम् ॥ ११८॥
तीर्थमेतदतिशोभनं शिवं भुक्तिमुक्तिफलदं नृणां सदा ॥
पापराशितृणतूलपावकं सेवत द्विजवरा विमुक्तये ॥ ११९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये मङ्गलतीर्थप्रशंसायां मनोजवालक्ष्मीविनाशवर्णनन्नाम द्वादशोऽध्यायः ॥ १२ ॥