०११ सीतासरःप्रशंसायामिन्द्रब्रह्महत्याविमोक्षण

॥ श्रीसूत उवाच ॥ ॥
पापनाशे नरः स्नात्वा सर्वपापनिबर्हणे ॥
ततः सीतासरो गच्छेत्स्नातुं नियमपूर्वकम् ॥ १ ॥
यानि कानि च पुण्यानि ब्रह्माण्डान्तर्गतानि वै ॥
तानि गङ्गादितीर्थानि स्वपापपरिशुद्धये ॥ २ ॥
सीतासरसि वर्तन्ते महापातकनाशने ॥
क्षेत्राण्यपि महार्हाणि काश्यादीनि दिवानिशम् ॥ ३ ॥
सीतासरोत्र सेवन्ते स्वस्वकल्मषशान्तये ॥
तस्याः सरसि सङ्गीतगुणेनाकृष्य बालिशः ॥ ४ ॥
पञ्चाननोऽपि वसते पञ्चपातकनाशनः ॥
तदेतत्तीर्थमागत्य स्नात्वा वै श्रद्धया सह ॥
पुरन्दरः पुरा विप्रा मुमुचे ब्रह्महत्यया ॥ ५ ॥
॥ ऋषय ऊचुः ॥ ॥
ब्रह्महत्या कथमभूद्वासवस्य पुरा मुने ॥
सीतासरसि स्नानात्कथं मुक्तोऽभवत्तया ॥ ६॥
॥ श्रीसूत उवाच ॥ ॥
कपालाभरणोनाम राक्षसोऽभूत्पुरा द्विजाः ॥ ॥ ७ ॥
अवध्यः सर्वदेवानां सोऽभवद्ब्रह्मणो वरात् ॥
शवभक्षणनामा तु तस्यासीन्मन्त्रिसत्तमः ॥ ८ ॥
अक्षौहिणीशतं तस्य हयेभरथसङ्कुलम् ॥
अस्ति तस्य पुरं चापि वैजयन्तमिति श्रुतम् ॥ ९ ॥
वसत्यस्मिन्पुरे सोऽयं कपालाभरणो बली ॥
शवभक्षं समाहूय बभाषे मन्त्रिणं द्विजाः ॥ ॥ 3.1.11.१० ॥
शवभक्ष महावीर्य मन्त्रशास्त्रेषु कोविद ॥
वयं देवपुरीं गत्वा विनिर्जित्य सुरान्रणे ॥ ११ ॥
शक्रस्य भवने रम्ये स्थास्यामस्सैनिकैः सह ॥
रमावो नन्दने तस्य रम्भाद्यप्सरसां गणैः ॥ १२ ॥
कपालाभरणस्येदं निशम्य वचनं तदा ॥
शवभक्षोऽब्रवीद्विप्रा वचस्तत्र तथास्त्विति ॥ ॥ १३ ॥
ततः कपालाभरणः पुत्रं दुर्मेधसं बली ॥
प्रतिष्ठाप्य पुरे शूरं सेनया परिवारितः ॥ १४ ॥
युयुत्सुरमरैः साकं प्रययावमरावतीम् ॥
गजाश्वरथपादातैरुद्धतै रेणुसञ्चयैः ॥ १५ ॥
शोषयञ्जलधीन्सिन्धूंश्चूर्णयन्पर्वतानपि ॥
निःसाणध्वनिना विप्रा नादयन्रोदसी तथा ॥ १६ ॥
अश्वानां हेषितरवैर्गजानामपि बृंहितैः ॥
रथनेमिस्वनैरुग्रैः सिंहनादैः पदातिनाम् ॥ १७ ॥
श्रोत्राणि दिग्गजानां च वितन्वन्बधिराणि सः ॥
अगमद्देवनगरीं युयुत्सुरमरैः सह ॥ १८ ॥
तत इन्द्रादयो देवाः सेनाकलकलध्वनिम् ॥
श्रुत्वाभिनिर्य्ययुः पुर्या युद्धाभिमनसो द्विजाः ॥ १९ ॥
ततो युद्धं समभवद्देवानां राक्षसैः सह ॥
अदृष्टपूर्वं जगति तथैवाश्रुतपूर्वकम् ॥ 3.1.11.२० ॥
तत इन्द्रादयो देवा राक्षसाञ्जघ्नुराहवे ॥
राक्षसाश्च सुराञ्जघ्नुः समरे विजिगीषवः ॥ २१ ॥
द्वन्द्वयुद्धं च समभूदन्योन्यं सुररक्षसाम् ॥
कपालाभरणेनाजौ युयुधे बलवृत्रहा ॥ २२ ॥
यमेन शवभक्षश्च वरुणेन च कौशिकः ॥
कुबेरो रुधिराक्षेण युयुधे ब्राह्मणोत्तमाः ॥ २३ ॥
मांसप्रियो मद्यसेवी क्रूरदृष्टिर्भयावहः ॥
चत्वार एते विक्रान्ताः कपालाभरणानुजाः ॥ २४ ॥
अश्विभ्यामग्निवायुभ्यां युद्धे युयुधिरे मिथः ॥
ततो यमो महावीर्यः कालदण्डेन वेगवान् ॥ २५ ॥
शवभक्षं निहत्याजावनयद्यमसादनम्॥
तस्य चाक्षौहिणीस्त्रिंशन्निजघ्ने समरे यमः ॥ २६ ॥
वरुणः कौशिकस्याजौ प्रासेन प्राहरच्छिरः ॥
कुबेरो रुधिराक्षस्य कुन्तेनाभ्यहरच्छिरः ॥ २७ ॥
अश्विभ्यामग्निवायुभ्यां कपालाभरणानुजाः ॥
निहताः समरे विप्राः प्रययुर्यमसादनम् ॥ २८ ॥
अक्षौहिणीशतं चापि देवेन्द्रेण मृधे द्विजाः ॥
यामार्द्धेन हतं युद्धे प्रययौ यमसादनम् ॥ २९ ॥
ततः कपालाभरणः प्रेक्ष्य सेनां निजां हताम् ॥
चापमादाय निशिताञ्छरांश्चापि महाजवान् ॥ 3.1.11.३० ॥
अभ्ययात्समरे शक्रं तिष्ठतिष्ठेति चाब्रवीत् ॥
ततः शक्रस्य शिरसि व्यधमच्छरपञ्चकैः ॥ ३१ ॥
तानप्राप्तान्प्रचिच्छेद शरैर्युद्धे स वृत्रहा ॥
ततः शूलं समादाय कपालाभरणो मृधे ॥ ३२ ॥
देवेन्द्राय प्रचिक्षेप तं शक्त्या निजघान सः ॥
ततः कपालाभरणः शतहस्तायतां गदाम्॥ ३३ ॥
आयसीं पञ्चसाहस्रतुलाभारेणनिर्मिताम् ॥
आददे समरे शक्रं वक्षोदेशे जघान च ॥३४॥
ततः स मूर्च्छितः शक्रो रथोपस्थ उपाविशत् ॥
मृतसञ्जीविनीं विद्यां जपित्वाथ बृहस्पतिः ॥ ३५ ॥
पुलोमजापतिं युद्धे समजीवयदद्भुतम् ॥
ऐरावतं तदारुह्य कपालाभरणान्तिकम्॥ ३६ ॥
आजगाम शचीभर्ता प्रहर्तुं कुलिशेन तम् ॥
एकप्रहारेण तदा महेन्द्रः पाकशासनः ॥ ३७ ॥
कपालाभरणं युद्धे वज्रेण सरथाश्वकम् ॥
सचापं सध्वजं चैव सतूणीरं सवर्मकम् ॥३८॥
चूर्णयामास कुपितस्तिलशः कणशस्तथा ॥
हते तस्मिन्महावीरे कपालाभरणे रणे॥३९॥
सुखं सर्वस्य लोकस्य बभूव चिरदुःखिनः ॥
राक्षसस्य वधोत्पन्ना ब्रह्महत्या पुरन्दरम् ॥
अन्वधावत्तदा भीमा नादयन्ती दिशो दश ॥3.1.11.४०॥
॥ ऋषय ऊचुः ॥ ॥
न विप्रो राक्षसः सूत कपालाभरणो मुने ॥
तत्कथं ब्रह्महत्येन्द्रं तद्वधात्समुपाद्रवत् ॥ ४१ ॥
॥ श्रीसूत उवाच ॥ ॥
वक्ष्यामि परमं गुह्यं मुनीन्द्राः परमाद्भुतम् ॥४२॥
शृणुत श्रद्धया यूयं समाधाय स्वमानसम् ॥
पुरा विन्ध्यप्रदेशेषु त्रिवक्रो नाम राक्षसः ॥ ४३ ॥
तस्य भार्या गुणोपेता सौन्दर्यगुणशालिनी ॥
सुशीला नाम सुश्रोणी सर्वलक्षणलक्षिता ॥ ४४ ॥
सा कदाचिन्मनोज्ञाङ्गी सुवेषा चारुहासिनी ॥
विन्ध्यपादवनोद्देशे विचचार विलासिनी ॥ ४५ ॥
तस्मिन्वने शुचिर्नाम वर्ततेस्म महामुनिः ॥
तपसमाधिसंयुक्तो वेदाध्ययनतत्परः ॥ ४६ ॥
तस्याश्रमसमीपं तु सा ययौ वरवर्णिनी ॥
तां दृष्ट्वा स मुनिर्धैर्यं मुमोचानङ्गपीडितः॥
तामासाद्य वरारोहां बभाषे मुनिसत्तमः ॥ ४७॥
॥ शुचिरुवाच ॥ ॥
ललने स्वागतं तेऽस्तु कस्य भार्या शुचिस्मिते ॥ ४८ ॥
किमागमनकृत्यं ते वनेऽस्मिन्नतिभीषणे ॥
श्रान्तासि त्वं वरारोहे वसास्मिन्नुटजे मम ॥ ४९ ॥
तथोक्ता सा तु सुश्रोणी तं मुनिं प्रत्यभाषत ॥
त्रिवक्ररक्षोभार्याहं सुशीला नामतो मुने ॥3.1.11.५॥।
पुष्पावचयकामेन वनमेतत्समागता ॥
अपुत्राहं मुने भर्त्रा प्रेरिता पुत्रमिच्छता ॥ ५१ ॥
शुचिं मुनिं समाराध्य तस्मात्पुत्रमवाप्नुहि ॥
इति प्रतिसमादिष्टा पतिना त्वां समागता ॥५२॥
पुत्रमुत्पादय त्वं मे कृपां कुरु मुने मयि ॥
एवमुक्तः स तु शुचिः सुशीलां तामभाषत ॥ ५३ ॥
॥ शुचिरुवाच ॥॥
त्वां दृष्ट्वा मम च प्रीतिः सुशीले विद्यतेऽधुना॥
मनोरथमहाम्भोधिं त्वमापूरय मामकम् ॥ ५४ ॥
इत्युक्त्वा स मुनिस्तत्र तया रेमे दिनत्रयम् ॥
तामुवाच मुनिः प्रीतः सुशालां सुन्दराकृतिम् ॥ ॥ ५५ ॥
तवोदरे महावीर्यः कपालाभरणाभिधः ॥
भविष्यति चिरं राज्यं पालयिष्यति मेदिनीम् ॥ ५६ ॥
सहस्रं वत्सरान्वत्सस्तपसा प्रीणयन्विधिम् ॥
पुरन्दरं विनान्येभ्यो देवेभ्यो नास्य वध्यता॥५७॥
ईदृशस्ते सुतो भूयादिन्द्रतुल्यपराक्रमः ॥
इत्युक्त्वा स मुनिर्नारीं काशीं शिवपुरीं ययौ ॥५८॥
सुशीला सापि सुषुवे कपालाभरणं सुतम् ॥
तं जघान मृधे शक्रो वज्रेण मुनिपुङ्गवाः ॥५९॥
शुचेर्बीजसमुद्भूतं तमिन्द्रो न्यवधीद्यतः ॥
ततः पुरन्दरः शक्रो जगृहे ब्रह्महत्यया ॥3.1.11.६०॥
धावति स्म तदा शक्रः सर्वांल्लोकान्भयाकुलः॥
धावन्तमनुधावन्ती ब्रह्महत्या तमन्वगात्॥६१॥
अनुद्रुतो हि विप्रेन्द्राः शक्रोऽयं ब्रह्महत्यया ॥
पितामहसदः प्राप सन्तप्तहृदयो भृशम् ॥६२॥
न्यवेदयद्ब्रह्महत्यां ब्रह्मणे स पुरन्दरः ॥
भगवल्ँलोकनाथेयं ब्रह्महत्याति भीषणा॥६३॥
बाधते मां प्रजानाथ तस्या नाशं ब्रवीहि मे ॥
पुरन्दरेणैवमुक्तो ब्रह्मा प्राह दिवस्पतिम्॥६४॥
ब्रह्मोवाच ॥
सीताकुण्डं प्रयाहीन्द्र गन्धमादनपर्वते॥
सीताकुण्डस्य तीरे त्वं इष्ट्वा यागैः सदाशिवम्॥ ६५ ॥
तस्मिन्सरसि च स्नायाः सर्वपापहरे शुभे ॥
ततः पूतो भवेश्शक्र बह्महत्याविमोचितः॥६६॥
देवलोकं पुनर्यायाः सर्वदुःखविवर्जितः ॥
सर्वपापहरं पुण्यं सीताकुण्डं विमुक्तिदम् ॥६७॥
महापातकसङ्घानां नाशकं परमामृतम् ॥
सर्वदुःखप्रशमनं सर्वदारिद्र्यनाशनम् ॥ ६९ ॥
धनधान्यप्रदं शुद्धं वैकुण्ठादिपदप्रदम्॥
तस्मात्तत्र कुरुष्वेष्टिं सीतासरसि वृत्रहन् ॥ ६९ ॥
इत्युक्तः सुरराजोऽसौ प्रययौ गन्धमादनम् ॥
प्राप्य सीतासरो विप्राः स्नात्वेष्ट्वा च तदन्तिके ॥ 3.1.11.७० ॥
प्रययौ स्वपुरीं भूयो ब्रह्महत्याविमोचितः ॥
एवं प्रभावं तत्तीर्थं सीतायाः कुण्डमुत्तमम् ॥ ७१ ॥
राघवप्रत्ययार्थं हि प्रविश्य हुतवाहनम् ॥
सन्निधौ सर्वदेवानां मैथिली जनकात्मजा ॥ ७२ ॥
विनिर्गता पुनर्वह्नेः स्थिता सर्वाङ्गशोभना ॥
निर्ममे लोकरक्षार्थं स्वनाम्ना तीर्थमुत्तमम् ॥ ७३ ॥
तत्र सस्नौ स्वयं सीता तेन सीतासरः स्मृतम् ॥
तत्र यो मानवः स्नाति सर्वान्कामाल्ँलभेत सः ॥ ७४ ॥
तस्मिन्नुपस्पृश्य नरो द्विजेन्द्रा दत्त्वा च दानानि पृथग्विधानि ॥
कृत्वा च यज्ञान्बहुदक्षिणाभिर्लोकं प्रयायात्परमेश्वरस्य ॥ ७५ ॥
युष्माकमेवं प्रथितं मुनीन्द्राः सीतासरो वैभवमेतदुक्तम् ॥
शृण्वन्पठन्वै तदिहैव भोगान्भुक्त्वा परत्रापि सुखं लभेत ॥ ७६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्ये सीतासरःप्रशंसायामिन्द्रब्रह्महत्याविमोक्षणनामैकादशोऽध्यायः ॥ ११ ॥