॥ श्रीसूत उवाच ॥ ॥
वेतालवरदे तीर्थे नरः स्नात्वा द्विजोत्तमाः ॥
ततः शनैःशनैर्गच्छेद्गन्धमादनपर्वतम् ॥ १ ॥
योंऽबुधौ सेतुरूपेण वर्तते गन्धमादनः ॥
स मार्गो ब्रह्मलोकस्य विश्वकर्त्रा विनिर्मितः ॥ २ ॥
लक्षकोटिसहस्राणि सरांसि सरितस्तथा ॥
समुद्राश्च महापुण्या वनान्यप्याश्रमाणि च ॥ ३ ॥
पुण्यानि क्षेत्रजातानि वेदारण्या दिकानि च ॥
मुनयश्च वसिष्ठाद्या सिद्धचारणकिन्नराः ॥ ४ ॥
लक्ष्म्या सह धरण्या च भगवान्मधुसूदनः ॥
सावित्र्या च सरस्वत्या सहैव चतु राननः ॥ ५ ॥
हेरम्बः षण्मुखश्चैव देवाश्चेन्द्रपुरोगमाः ॥
आदित्यादिग्रहाश्चैव तथाष्टौ वसवो द्विजाः ॥ ६ ॥
पितरोलोकपालाश्च तथान्ये देवता गणाः ॥
महापातकसङ्घानां नाशने लोकपावने ॥ ७ ॥
दिवानिशं वसन्त्यत्र पर्वते गन्धमादने ॥
अत्र गौरी सदा तुष्टा हरेण सह वर्तते ॥ ॥
अत्र किन्नरकान्तानां क्रीडा जागर्ति नित्यशः ॥
तस्य दर्शनमात्रेण बुद्धिसौख्यं नृणां भवेत् ॥ ९ ॥
तन्मूर्धनि कृतावासाः सिद्धचारणयोषितः ॥
पूजयन्ति सदा कालं शङ्करं गिरिजापतिम् ॥ 3.1.10.१० ॥
कोटयो ब्रह्महत्यानामगम्यागमकोटयः ॥
अङ्गलग्नैर्विनश्यन्ति गन्धमादनमारुतैः ॥ ११ ॥
असावुल्लोलकल्लोले तिष्ठन्मध्ये महाम्बुधौ ॥
आसीन्मुनिगणैः सेव्यः पुरा वै गन्धमादनः ॥ १२ ॥
ततो नलेन सेतौ तु बद्धे तन्मध्यगोचरः ॥
रामाज्ञयाखिलैः सेव्यो बभूव मनुजैरपि ॥ १३ ॥
सेतुरूपं गिरिं तं तु प्रार्थयेद्गन्धमादनम् ॥
क्षमाधर महापुण्य सर्वदेवनमस्कृत ॥ १४ ॥
विष्ण्वा दयोऽपि ये देवास्सेवन्ते श्रद्धया सह ॥
तं भवन्तमहं पद्भ्यामाक्रमामि नगोत्तम ॥ १५ ॥
क्षमस्व पादघातं मे दयया पापचेतसः ॥
त्वन्मूर्द्धनि कृतावासं शङ्करं दर्शयस्व मे ॥ १६ ॥
प्रार्थयित्वा नरस्त्वेवं सेतुरूपं नगोत्तमम् ॥
ततो मृदुपदं गच्छेत्पावनं गन्धमादनम् ॥ १७ ॥
अब्धौ तत्र नरः स्नात्वा पर्वते गन्धमादने ॥
पिण्डदानं ततः कुर्यादपि सर्षपमात्रकम् ॥ १८ ॥
तृप्तिं प्रयान्ति पितरस्तस्य यावद्युगक्षयः ॥
शमीदलसमानान्वा दद्यात्पिण्डान्पितॄन्प्रति ॥ १९॥
स्वर्गस्था मोक्षमायान्ति स्वर्गं नरकवासिनः ॥
ततस्तस्योपरि महातीर्थं लोकेषु विश्रुतम् ॥3.1.10.२॥।
सर्वतीर्थोत्तमं पुण्यं नाम्ना पापविनाशनम् ॥
अस्ति पुण्यतमं विप्राः पवित्रे गन्धमादने ॥२१॥
यस्य संस्मरणादेव गर्भवासो न विद्यते ॥
तत्प्राप्य तु नरः स्नायात्स्वदे हमलनाशनम् ॥
तत्र स्नानान्नरो याति वैकुण्ठं नात्र संशयः ॥२२॥
॥ ऋषय ऊचुः ॥ ॥
सूत पापविनाशाख्य तीर्थस्य ब्रूहि वैभवम् ॥
व्यासेन बोधितस्त्वं हि वेत्सि सर्वं महामुने॥२३॥
॥श्रीसूत उवाच॥ ॥
ब्रह्माश्रमपदे वृत्तां पार्श्वे हिमवतः शुभे॥
वक्ष्यामि ब्राह्मणश्रेष्ठा युष्माकं तु कथां शुभाम्॥२४॥
अस्याश्रमपदं पुण्यं ब्रह्माश्रमपदे शुभे ॥
नानावृक्षगणाकीर्णं पार्श्वे हिमवतः शुभे ॥ २५ ॥
वहुगुल्मलताकीर्णं मृगद्विपनिषेवितम् ॥
सिद्धचारणसङ्घुष्टं रम्यं पुष्पितकाननम् ॥ २६ ॥
वृतिभिर्बहुभिः कीर्णं तापसैरुशोभितम् ॥
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसन्निभैः ॥ २७ ॥
नियमव्रतसं पन्नैः समाकीर्णं तपस्विभिः ॥
दीक्षितैर्यागहेतोश्च यताहारैः कृतात्मभिः ॥ २८ ॥
वेदाध्ययनसम्पन्नैर्वैदिकैः परिवेष्टितम् ॥
वर्णिभिश्च गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥ २९ ॥
स्वाश्रमाचारनिरतैः स्ववर्णोक्तविधायिभिः ॥
वालखिल्यैश्च मुनिभिः सम्प्राप्तैश्च मरीचिभिः ॥ 3.1.10.३० ॥
तत्राश्रमे पुरा कश्चिच्छूद्रो दृढमतिर्द्विजाः ॥
साहसी ब्राह्मणाभ्याशमाजगाम मुदान्वितः ॥ ३१ ॥
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥
नाम्ना दृढमतिः शूद्रः साष्टाङ्गं प्रणनाम वै ॥ ३२ ॥
तान्स दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः ॥
कुर्वतो विविधान्यज्ञान्सम्प्रहृष्य स शूद्रकः ॥ ३३ ॥
अथास्य बुद्धिरभवत्तपःकर्तुमनुत्तमम् ॥
ततोऽब्रवीत्कुलपतिं मुनिमागत्य तापसम् ॥ ३४ ॥
॥ दृढमतिरुवाच ॥ ॥
तपोधन नमस्तेऽस्तु रक्ष मां करुणानिधे ॥
तव प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ ॥ ३५ ॥
तस्मादभिगतं मां त्वं यागे दीक्षय सुव्रत ॥
ब्रह्मन्नवरवर्णोऽहं शूद्रो जात्यास्मि सत्तम ॥ ३६ ॥
शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ॥
एवमुक्ते तु शूद्रेण तमाह ब्राह्मणस्तदा ॥ ३७ ॥
॥ कुलपतिरुवाच ॥
यागे दीक्षयितुं शक्यो न शूद्रो हीनजन्मभाक् ॥
श्रूयतां यदि ते बुद्धिः शुश्रूषानिरतो भव ॥ ३८ ॥
उपदेशो न कर्तव्यो जातिहीनस्य कर्हिचित् ॥
उपदेशे महान्दोष उपाध्यायस्य विद्यते ॥ ३९ ॥
नाध्यापयेद्बुधः शूद्रं तथा नैव च याजयेत् ॥
न पाठयेत्तथा शूद्रं शास्त्रं व्याकरणादिकम् ॥ 3.1.10.४० ॥
काव्यं वा नाटकं वापि तथालङ्कारमेव च ॥
पुराणमितिहासं च शूद्रं नैव तु पाठयेत् ॥ ४१ ॥
यदि चोपदिशेद्विप्रः शूद्रं चैतानि कर्हिचित् ॥
त्यजेयुर्ब्राह्मणा विप्रं तं ग्रामाद्ब्रह्मसङ्कुलात् ॥ ४२ ॥
शूद्राय चोपदेष्टारं द्विजं चण्डालवत्त्यजेत् ॥
शूद्रं चाक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥४३ ॥
अतः शुश्रूष भद्रं ते ब्राह्मणाञ्छ्रद्धया सह॥
शूद्रस्य द्विजशुश्रूषा मन्वादिभिरुदीरिता॥४४॥
नहि नैसर्गिकं कर्म परित्यक्तुं त्वमर्हसि ॥
एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयत्तदा ॥ ४५ ॥
किं कर्तव्यं मया त्वद्य व्रते श्रद्धा हि मे पुरा ॥
यथा स्यान्मम विज्ञानं यतिष्येऽहं तथाद्य वै ॥ ४६ ॥
इति निश्चित्य मनसा शूद्रो दृढमतिस्तदा ॥
गत्वाश्रमपदाद्दूरं कृतवानुटजं शुभम् ॥ ४७ ॥
तत्र वै देवतागारं पुण्यान्यायतनानिच ॥
पुष्पारामादिकं चापि तटाकखननादिकम् ॥ ४८ ॥
श्रद्धया कारयामास तपःसिद्ध्यर्थमात्मनः ॥
अभिषेकांश्च नियमानुपवासादिकानपि ॥ ४९ ॥
बलिं च कृत्वा हुत्वा च दैवतान्यभ्यपूजयत् ॥
सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः ॥ 3.1.10.५० ॥
नित्यं कन्दैश्च मूलैश्च पुष्पैरपि तथा फलैः ॥
अतिथीन्पूजयामास यथावत्समुपागतान् ॥ ५१ ॥
एवं हि सुमहान्कालो व्यतिचक्राम तस्य वै ॥
अथाश्रममगात्तस्य सुमतिर्नाम नामतः ॥ ५२ ॥
द्विजो गर्गकुलोद्भूतः सत्यवादी जितेन्द्रियः ॥
स्वागतेन मुनिं पूज्य तोषयित्वा फलादिकैः ॥ ५३ ॥
कथयन्वै कथाः पुण्याः कुशलं पर्यपृच्छत ॥
इत्थं सप्रणिपाताद्यैरुपचारैस्तु पूजितः ॥ ५४ ॥
आशीर्भिरभिनन्द्यैनं प्रतिगृह्य च सत्क्रियाम् ॥
तमापृछ्य प्रहृष्टाप्मा स्वाश्रमं पुनराययौ ॥ ५५ ॥
एवं दिनेदिने विप्रः शूद्रेस्मिन्पक्षपातवान् ॥
आगच्छदाश्रमं तस्य द्रष्टुं तं शूद्रयोनिजम् ॥ ५६ ॥
बहुकालं द्विजस्याभूत्संसर्गः शूद्रयोनिना॥
स्नेहस्य वशमापन्नः शूद्रोक्तं नातिचक्रमे ॥ ५७ ॥
अथागतं द्विजं शूद्रः प्राह स्नेहवशीकृतम् ॥
हव्यकव्यविधानं मे कृत्स्नं ब्रूहि मुनीश्वर ॥ ५८ ॥
पितृकार्यविधानार्थं देवकार्यार्थमेव च ॥
मन्त्रानुपदिश त्वं मे महालयविधिं तथा ॥ ५९ ॥
अष्टकाश्राद्धकृत्यं च वैदिकं यच्च किञ्चन ॥
सर्वमेतद्रहस्यं मे ब्रूहि त्वं वै गुरुर्मतः॥ 3.1.10.६० ॥
एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत् ॥
कारयामास तस्यायं पितृकार्यादिकं तथा ॥ ६१ ॥
पितृकार्ये कृते तेन विसृष्टः स द्विजो गतः ॥
अथ दीर्घेण कालेन पोषितः शूद्रयोनिना ॥ ६२ ॥
त्यक्तो विप्रगणैः सोऽयं पञ्चत्वमगमद्द्विजः
वैवस्वतभटैर्नीत्वा पातितो नरकेष्वपि ॥ ६३ ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
भुक्त्वा क्रमेण नरकांस्तदन्ते स्था वरोऽभवत् ॥ ६४ ॥
गर्दभस्तु ततो जज्ञे विड्वराहस्ततः परम् ॥
जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः ॥ ६५ ॥
अथ चण्डालतां प्राप शूद्रयोनिमगात्ततः ॥
गतवान्वैश्यतां पश्चात्क्षत्रियस्तदनन्तरम् ॥ ६६ ॥
प्रबलैर्बाध्यमानोऽसौ ब्राह्मणो वै तदाऽभवत् ॥
उपनीतः स पित्रा तु वर्षे गर्भाष्टमे द्विजः ॥ ६७ ॥
वर्तमानः पितुर्गेहे स्वाचाराभ्यासतत्परः ॥
गच्छन्कदाचिद्गहने गृहीतो ब्रह्मरक्षसा ॥ ६८ ॥
रुदन्भ्रमन्स्खल न्मूढः प्रहसन्विलपन्नसौ ॥
शश्वद्धाहेति च वदन्वैदिकं कर्म सोऽत्यजत् ॥ ६९ ॥
दृष्ट्वा सुतं तथाभूतं पिता दुःखेन पीडितः ॥
सुतमादाय च स्नेहा दगस्त्यं शरणं ययौ ॥ 3.1.10.७० ॥
भक्त्या मुनिं प्रणम्यासौ पिता तस्य सुतस्य वै ॥
तस्मै निवेदयामास स्वपुत्रस्य विचेष्टितम् ॥ ७१ ॥
अब्रवीच्च तदा विप्रः कुम्भजं मुनिपुङ्गवम्॥
एष मे तनयो ब्रह्मन्गृहीतो ब्रह्मरक्षसा ॥ ७२ ॥
सुखं न भजते ब्रह्मन्रक्ष तं करुणादृशा ॥
नास्ति मे तनयोऽ प्यन्यः पितॄणामृणमुक्तये ॥ ७३ ॥
अस्य पीडाविनाशार्थमुपायं ब्रूहि कुम्भज ॥
त्वत्समस्त्रिषु लोकेषु तपःशीलो न विद्यते ॥ ७४ ॥
अग्रणीः शिवभक्तानामुक्तस्त्वं हि महर्षिभिः ॥
त्वां विनास्य परित्राणं न मेपुत्रस्य विद्यते ॥ ७५ ॥
पित्रे कृपां कुरुष्व त्वं दयाशीला हि साधवः ॥ ॥
॥ श्रीसूत उवाच ॥ ॥
एवमुक्तस्तदा तेन कुम्भजो ध्यानमास्थितः ॥ ७६ ॥
ध्यात्वा तु सुचिरं कालमब्रवीद्ब्राह्मणं ततः ॥
॥ अगस्त्य उवाच ॥ ॥
पूर्वजन्मनि ते पुत्रो ब्राह्मणोऽयं महामते ॥ ७७ ॥
सुमतिर्नाम विप्रोऽयं मतिं शूद्राय वै ददौ ॥
कर्माणि वैदिकान्येष सर्वाण्युपदि देश वै ॥ ७८ ॥
अतोऽयं नरकान्भुक्त्वा कल्पकोटिसहस्रकम् ॥
जातो भुवि तदन्तेषु स्थावरादिषु योनिषु ॥ ७९ ॥
इदानीं ब्राह्मणो जातः कर्मशेषेण ते सुतः ॥
यमेन प्रेषितेनात्र गृहीतो ब्रह्मरक्षसा ॥ 3.1.10.८० ॥
क्रूरेण पातकेनाद्धा पूवजन्मकृतेन वै ॥
उपायं ते प्रवक्ष्यामि ब्रह्मरक्षोविनाशने ॥ ८१ ॥
शृणुष्व श्रद्धया युक्तः समाधाय च मानसम् ॥
दक्षिणाम्भोनिधौ विप्र सेतुरूपो महागिरिः ॥ ८२ ॥
वर्तते दैवतैः सेव्यः पावनो गन्धमादनः ॥
तस्योपरि महातीर्थं नाम्ना पापविनाशनम् ॥ ८३ ॥
अस्ति पुण्यं प्रसिद्धं च महापातकनाशनम् ॥
भूतप्रेतपिशाचानां वेतालब्रह्म रक्षसाम्॥ ८४ ॥
महतां चैव रोगाणां तीर्थं तन्नाशकं स्मृतम् ॥
सुतमादाय गच्छ त्वं तत्तीर्थं सेतुमध्यगम् ॥ ८५ ॥
प्रयतः स्नापय सुतं तीर्थे पापविनाशने ॥
स्नानेन त्रिदिनं तत्र ब्रह्मरक्षो विनश्यति ॥ ८६ ॥
नैवोपायान्तरं तस्य विनाशे विद्यते भुवि ॥
तस्माच्छीघ्रं प्रयाहि त्वं रामसेतुं विमुक्तिदम् ॥ ८७ ॥
तत्र पापविनाशाख्यतीर्थे स्नापय ते सुतम् ॥
मा विलम्बं कुरुष्वात्र त्वरया याहि वै द्विज ॥ ८८ ॥
इत्युक्तः स द्विजोऽगस्त्यं प्रणम्य भुवि दण्डवत्॥
अनुज्ञातश्च तेनासौ प्रययौ गन्धमादनम् ॥ ८९ ॥
सुतेन साकं विप्रेन्द्रो गत्वा पापविनाशनम् ॥
सङ्कल्पपूर्वं संस्नाप्य दिनत्रयमसौसुतम्॥ 3.1.10.९॥।
सस्नौ स्वयं च विप्रेन्द्राः पिता पापविनाशने ॥
अथ तस्य सुतस्तत्र विमुक्तो ब्रह्मरक्षसा ॥ ९१ ॥
समजायत नीरोगः स्वस्थः सुन्दररूपधृक् ॥
सर्वसम्पत्समृद्धोऽसौ भुक्त्वा भोगाननेकशः ॥ ९२ ॥
देहान्ते प्रययौ मुक्तिं स्नानात्पापविनाशने ॥
पितापि तत्र स्नानेन देहान्ते मुक्तिमाप्तवान्॥ ९३ ॥
तेनोपदिष्टो यः शूद्रः स भुक्त्वा नरकान्क्रमात् ॥
अनेकासु जनित्वा च कुत्सितास्वपियोनिषु ॥ ९४ ॥
गृध्रजन्मा भवत्पश्चाद्गन्धमादनपर्वते ॥
स कदाचिज्जलं पातुं तीर्थे पापविनाशने ॥ ९५ ॥
समागतः पपौ तोयं सिषिचे चात्मनस्तनुम् ॥
तदैव दिव्यदेहः सन्सर्वाभरणभूषितः ॥ ९६ ॥
दिव्यमाल्याम्बरधरो रक्तचन्दनरूषितः ॥
दिव्यं विमानमारुह्य शोभितश्छत्रचामरैः ॥ ९७ ॥
उत्तमस्त्रीपरिवृतः प्रययावमरालयम् ॥९८॥
श्रीसूत उवाच ॥ ॥
एवं प्रभावमेतद्वै तीर्थं पापविनाशनम् ॥
स्वर्गदं मोक्षदं पुण्यं प्रायश्चित्तकरं तथा ॥
ब्रह्मविष्णुमहे शानैः सेवितं सुरसेवितम् ॥ ९९ ॥
पापानां नाशनाद्विप्राः पापनाशाभिधं हि तत् ॥
श्रेयोर्थी पुरुषस्तस्मात्स्नायात्पापविनाशने ॥3.1.10.१॥॥
इत्थं रहस्यं कथितं मुनीन्द्रास्तद्वैभवं पापविनाशनस्य ॥
यत्राभिषेकात्सहसा विमुक्तौ द्विजश्च शूद्रश्च विनिन्द्यकृत्यौ ॥१०१॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये गन्धमादनप्रशंसायां पापविनाशप्रभावकथनन्नाम दशमोऽध्यायः ॥ १० ॥