००९ सुदर्शनसुकर्णशापमोक्षणम्

ततः स विप्रः प्रत्यूषे पुत्रशोकेन पीडितः ॥
अशोक दत्तसंयुक्तो भार्यया विललाप ह ॥ १ ॥
विलपन्तं समालोक्य गोविन्दस्वामिनं द्विजाः ॥
वणिक्समुद्रदत्ताख्यः समानिन्ये निजं गृहम् ॥ २ ॥
समानीय समाश्वास्य दयायुक्तो वणिग्वरः ॥
स्वधनानां हि सर्वेषां रक्षितारमकल्पयत् ॥ ३ ॥
स्मरन्महायतिवचः पुत्रदर्शनलालसः ॥
स तस्थौ वणिजो गेहे पुत्रभार्यासमन्वितः ॥ ४ ॥
अशोकदत्तनामा तु द्वितीयो विप्रनन्दनः ॥
शस्त्रे चैव तथा शास्त्रे बभूवातिविचक्षणः ॥ ५ ॥
तथान्यास्वपि विद्यासु नास्ति तत्सदृशो भुवि ॥
कृतविद्यो द्विजसुतः प्रख्यातो नगरेऽभवत् ॥ ६ ॥
अत्रान्तरे नरपतिं प्रतापमुकुटाभिधम् ॥
काशीदेशाधिपो मल्लः कश्चिदभ्याययौ बली ॥ ७ ॥
प्रतापमुकुटो राजा मल्लस्यास्य जयाय सः ॥
बलिनं द्विजपुत्रं तमाह्वयामास भृत्यकैः ॥ ८ ॥
तमागतं समालोक्य प्रतापमुकुटोऽब्रवीत् ॥
अशोकदत्त सहसा मल्लमेनं बलोत्कटम् ॥ ९ ॥
दुर्जयं जहि सङ्ग्रामे त्वं वै वलवतां वरः ॥
दाक्षिणात्यमहामल्लपतावस्मिञ्जिते त्वया ॥ 3.1.9.१० ॥
यदिष्टं तव तत्सर्वं दास्याम्यहं न संशयः ॥
इति तस्य वचः श्रुत्वा वलवान्द्विजनन्दनः ॥ ११ ॥
दाक्षिणात्यमहामल्लनृपतिं समताडयत् ॥
ताडितो द्विजपुत्रेण मल्लः स बलिना बली ॥ १२ ॥
सद्यो विवृत्तनयनः परासुर्न्यपतद्भुवि ॥
द्विज पुत्रस्य तत्कर्म देवैरपि सुदुष्करम् ॥ १३ ॥
प्रतापमुकुटो दृष्ट्वा प्रसन्नहृदयोऽभवत् ॥
दत्त्वा वहुधनान्ग्रामान्समीपेऽस्थापयत्तदा ॥ १४ ॥
स कदाचिन्महाराज सहितो द्विजसूनुना ॥
सन्ध्यायां विजने देशे चचार तुरगेण वै ॥ १५ ॥
द्विजसूनुसखस्तत्र दीनां वाणीमथाशृणोत् ॥
राजन्नल्पापराधोऽहं शत्रुप्रेरणयासकृत् ॥ १६ ॥
दण्डपालेन निहितः शूले निर्घृणचेतसा ॥
दिनमद्य चतुर्थं मे शूलस्थस्यैव जीवतः ॥ १७ ॥
प्राणाः सुखेन निर्यान्ति न हि दुष्कृतकर्मणाम् ॥
भृशं मां बाधते तृष्णा तां निवारय भूपते ॥१८ ॥
इति दीनां समाकर्ण्य वाचं राजा द्विजा त्मजम् ॥
अशोकदत्तनामानं धैर्यवन्तमभाषत ॥ १९ ॥
अस्मै निरपराधाय शूलप्रोताय जन्तवे ॥
तृष्णार्दिताय दातव्यं द्विजसूनो त्वया जलम् ॥ ॥ 3.1.9.२० ॥
इत्यादिष्टो नरेन्द्रेण सहसा द्विजनन्दनः ॥
जलपूर्णं समादाय कलशं वेगवान्ययौ ॥ २१ ॥
तच्छ्मशानं समासाद्य भूतवेतालसङ्कुलम् ॥
शूलप्रोताय वै तस्मै जलं दातुं समुत्सुकः ॥ २२ ॥
ददर्शाथ स्थितां नारीं नवयौवनशालिनीम् ॥
उदैक्षत महाकान्तिं मूर्तामिव रतिं द्विजः ॥ ॥ २३ ॥
तामालोक्य ततः प्राह धैर्यवान्द्विजनन्दनः ॥
कासि भद्रे वरारोहे श्मशाने विजने स्थिता ॥ २४ ॥
अस्याधस्तात्किमर्थं त्वं शूलप्रोतस्य तिष्ठसि ॥
इति तस्य वचः श्रुत्वा सा प्राह रुचिरानना ॥ २५ ॥
पुरुषो वल्लभोऽयं मे शूले राज्ञा समर्पितः ॥
धनं यथा च कृपणः पश्य प्राणान्न मुञ्चति ॥ २६ ॥
आसन्नमरणं चैनमनुयातुमिह स्थिता ॥
तृषितो याचते वारि मामयं व्यथते मुहुः ॥ २७ ॥
शूलप्रोतो द्धतग्रीवं मुमूर्षुं प्राणनायकम्॥
नास्मि पाययितुं शक्ता जलमेनमधःस्थिता॥२८॥
अशोकदत्तस्तच्छ्रुत्वा करुणावरुणालयः ॥
तत्कालसदृशं वाक्यं तां वधूमब्रवीत्तदा ॥२९॥
॥ अशोकदत्त उवाच ॥ ॥
मातर्मत्स्कन्धमारुह्य देह्यस्मै शीतलं जलम्॥
सा तथेति तमाभाष्य तरुणी त्वरयान्विता॥3.1.9.३०॥
आनम्रवपुषस्तस्य स्कन्धं पद्भ्यां रुरोह वै ॥
द्विजसूनुर्ददर्शाथ शोणितं नूतनं पतत्॥३१॥
किमेतदिति सोपश्यदुन्नम्य सहसा मुखम् ॥
भक्ष्यमाणं तया तत्स विज्ञाय द्विजनन्दनः॥३२॥
अशोकदत्तो जग्राह तस्याः पादं सनूपुरम्॥
ततोऽगान्नूपुरं त्यक्त्वा बद्धरत्नं विहाय तत्॥३३॥
प्रत्युप्तानेकरत्नाढ्यं तदादायच नूपुरम्॥
अशोकदत्तः प्रययौ तच्छ्मशानान्नृपान्तिकम्॥३४॥
स्मशानवृत्तं तत्सर्वं स नृपाय निवेद्य वै॥
महार्घ्यरत्नप्रत्युप्तं नूपुरं च ददौ तदा ॥३५॥
ज्ञात्वा तद्वीरचरितं वीरैरन्यैः सुदुष्करम्॥
ददौ मदनलेखाख्यां सुतां तस्मै महीपतिः॥३६॥
कदाचिदथ ताद्दिव्यं नूपुरं वीक्ष्य भूपतिः॥
अस्य नूपुरवर्यस्य तुल्यं वै नूपुरान्तरम्॥ ३७ ॥
कुतो वा लभ्यत इति सादरं समचिन्तयत् ॥
अशोकदत्तस्तु तदा विज्ञाय नृपकाङ्क्षितम् ॥ ३८ ॥
नृपुरान्तरसि द्ध्यर्थं चिन्तयामास चेतसा ॥
श्मशाने नूपुरमिदं यतः प्राप्तं मया पुरा ॥३९॥
तां नूपुरान्तरप्राप्त्यै कुत्र द्रक्ष्यामि साम्प्रतम् ॥
इत्थं वितर्क्य बहुधा नि श्चिकाय महामतिः॥3.1.9.४०॥
विक्रेष्यामि महामांसं समेत्य पितृकाननम्॥
तत्र राक्षसवेतालपिशाचादिषु सर्वशः॥४१॥
मन्त्रैराहूयमानेषु साप्यायास्य ति राक्षसी ॥
तामागतां बलाद्गृह्य तद्ग्रहीष्यामि नूपुरम्॥४२॥
राक्षसानां सहस्रं वा पिशाचानां तथायुतम् ॥
वेतालानां तथा कोटिर्न लक्ष्यं बलिनो मम ॥४३॥
इति निश्चित्य मनसा श्मशानं सहसा ययौ ॥
विक्रीणानो महामांसं मन्त्रैराहूय राक्षसान् ॥४४॥
गृहाणेत्युच्चया वाचा चचार श्रावयन्दि शः ॥
विक्रीयते महामांसं गृह्यताङ्गृह्यतामिति ॥ ४५ ॥
तत्र राक्षसवेतालाः कङ्कालाश्च पिशाचकाः ॥
अन्ये च भूतनिवहाः समाजग्मुः प्रहर्षिताः ॥ ॥ ४६ ॥
भक्षयिष्यामहे सर्वे मांसमिष्टतमं त्विति ॥
तत्रागच्छत्सु सर्वेषु रक्षःकन्यासमावृता ॥ ४७ ॥
आययौ राक्षसी सापि मांसभक्षणलालसा ॥
गवेषयंस्तदा विप्रस्तां समुद्वीक्ष्य राक्षसीम्॥ ४८ ॥
सेयं दृष्टा पुरेत्येष प्रत्यभिज्ञानमाप्तवान् ॥
तामाह द्विजपुत्रोऽन्यद्देहि मे नूपुरं त्विति ॥ ४९ ॥
सा तस्य वचनं श्रुत्वा प्रीता वाक्यमथाऽब्रवीत् ॥
ममैव च त्वया नीतं पुरा वीरेन्द्र नूपुरम् ॥ 3.1.9.५० ॥
गृहाण रत्नरुचिरं द्वितीयमपि नूपुरम् ॥
इत्युक्त्वा नूपुरं तस्मै स्वसुतां च ददौ प्रियाम्॥ ५१ ॥
विद्युत्केश्या तदा दत्तां प्रियां विद्युत्प्रभाभिधाम् ॥
विप्रः सम्प्राप्य मुमुदे रूपयौवनशालि नीम् ॥ ५२ ॥
विद्युत्केशी तु जामात्रे हेमाब्जमपि सा ददौ ॥
विद्युत्प्रभां नूपुरं च हेमाब्जमपिलभ्य सः ॥ ५३ ॥
श्वश्रूमाभाष्य सहसा पुनः प्रायान्नृपान्तिकम्॥
ततः प्रतापमुकुटो नूपुरप्राप्तिनन्दितः ॥ ५४ ॥
शौर्यधैर्यसमायुक्तं प्रशशम्स द्विजात्मजम्॥
अथ विद्युत्प्रभां विप्रः सोऽब्रवीद्रहसि प्रियाम्॥५५॥
मात्रा तव कुतो लब्धमेतद्धेमाम्बुज प्रिये॥
एतत्तुल्यानि चान्यानि यतः प्राप्स्ये वरानने॥५६॥
द्विजात्मजं ततः प्राह पतिं विद्युत्प्रभा रहः ॥
प्रभो कपालविस्फोटनाम्नो वेतालभूपतेः ॥ ५७ ॥
अस्ति दिव्यं सरः किञ्चिद्धेमाम्बुजपरिष्कृतम् ॥
तव श्वश्र्वा जलक्रीडां वितन्वं त्येदमाहृतम् ॥ ५८ ॥
इति श्रुत्वा वचस्तत्र मां नयेति जगाद सः ॥
ततः सा सहसा विप्रं निन्ये तत्काञ्चनं सरः ॥ ५९ ॥
ततः स हेमपद्मानामाजिहीर्षुर्द्विजात्मजः ॥
तद्विप्रकारिणः सर्वान्वेतालादींस्ततोऽवधीत् ॥ 3.1.9.६० ॥
स्वयं कपालविस्फोटं निहताशेषसैनिकम् ॥
ददर्श वेतालपतिं तं च हन्तुं प्रचक्रमे ॥ ६१ ॥
अत्रान्तरे महातेजा नाम्ना विज्ञप्तिकौतुकः ॥
विद्याधरपतिः प्राप्य विमानेनैनमब्रवीत् ॥ ६२ ॥
अशोकदत्तं विप्रेन्द्र साहसं मा कृथा इति ॥
तदाकर्ण्य द्विजसुतो विमानवरसंस्थितम् ॥६३॥
ददर्श प्रभया युक्तं विद्याधरपतिं दिवि ॥
तस्य दर्शनमात्रेण शापामुक्तो द्विजा त्मजः ॥ ६४ ॥
सन्त्यज्य मानुषं रूपं दिव्यं रूपमवाप्तवान् ॥
विमानवरमारूढं दिव्याभरणभूषितम् ॥ ६५ ॥
शापान्मुक्तं सुकर्णं तं प्राह विज्ञप्ति कौतुकः ॥
अयं सुकर्ण ते भ्राता गालवस्य महामुनेः ॥ ६६ ॥
शापाद्वेतालतां प्राप तत्कन्यास्पर्शपातकी ॥
त्वं च शप्तः पुरा तेन तत्पापस्यानु मोदकः ॥ ६७ ॥
तवायमल्पपापस्य शापो मद्दर्शनावधिः ॥
कल्पिस्ततेन मुनिना शापान्तो नास्य कल्पितः ॥ ६८॥
तदेहि मुक्तशापोसि सुकर्ण स्वर्गमारुह ॥
ततः सुकर्णस्तं प्राह विद्याधरकुलाधिपम् ॥ ६९ ॥
विद्याधरपते भ्रात्रा विना ज्येष्ठेन साम्प्रतम् ॥
सर्वभोगयुतं स्वर्गं नैव गन्तुं समुत्सहे ॥ 3.1.9.७० ॥
शापस्यान्तो यथा भूयान्मम भ्रातुस्तथा वद ॥
तमुवाच महातेजास्तथा विज्ञप्तिकौतुकः ॥ ७१ ॥
दुर्निवारमिमं शापमन्यः को वा निवारयेत् ॥
किं तु गुह्यतमं किञ्चित्तव वक्ष्यामि साम्प्रतम्॥७२॥
ब्रह्मणा सनकादिभ्यो मुनिभ्यः कथितं पुरा॥
सर्वतीर्थाश्रये पुण्ये दक्षिणस्यो दधेस्तटे॥७३॥
चक्रतीर्थसमीपे तु तीर्थमस्तिमहत्तरम्॥
महापातकसङ्घाश्च यस्य दर्शनमात्रतः॥७४॥
नश्यन्ति तत्क्षणादेव न जाने स्नानजं फलम्॥
तत्र गत्वा तव ज्येष्ठो यदि स्नायान्महत्तरे ॥७५॥
वेतालत्वं त्यजेन्नूनं तदा गालवशापजम्॥
सुकर्णस्तद्वचः श्रुत्वा भ्रात्रा वेतालरूपिणा ॥७६॥
सहितः सहसा प्रायाद्दक्षिणस्योदधेस्तटम् ॥
दक्षिणं चक्रतीर्थाख्यादुत्तरं गन्धमादनात् ॥ ७७ ॥
ब्रह्मणा सनकादिभ्यः कथितं तीर्थमभ्यगात् ॥
तत्तीर्थकूलमासाद्य भ्रातरं चेदमब्रवीत् ॥ ७८ ॥
भ्रातर्गालवशापस्य घोरस्यास्य निवृत्तये ॥
तीर्थेऽस्मिन्नचिरात्स्नाहि सर्वतीर्थोत्तमोत्तमे ॥ ७९ ॥
तस्मिन्न वसरे विप्रास्तस्य तीर्थस्य शीकराः ॥
न्यपतंस्तस्य गात्रेषु वायुना वै समाहृताः ॥ 3.1.9.८० ॥
स तच्छीकरसंस्पर्शात्त्यक्त्वा वेतालतां तदा ॥
तदेव मानुषं भावं द्विजपुत्रत्वमाप्तवान्॥ ८१ ॥
ततः सङ्कल्प्य सहसा तस्मिंस्तीर्थोत्तमोत्तमे ॥
मनुष्यत्वनिवृत्त्यर्थं निममज्ज द्विजात्मजः ॥ ८२ ॥
उत्तिष्ठन्नेव सहसा दिव्यं रूपमवाप्तवान् ॥
विमानवरमारूढो देवस्त्रीपरिवारितः ॥ ८३ ॥
सर्वाभरणसंयुक्तः सह भ्रात्रा सुदर्शनः ॥
श्लाघमानश्च तत्तीर्थं नमस्कत्य पुनःपुनः ॥ ८४ ॥
विज्ञप्तिकौतुकं चापि पुरस्कृत्य दिवं ययौ ॥
तदाप्रभृति तत्तीर्थं वेतालवरदाभिधम्॥ ८५ ॥
वेतालत्वं विनष्टं यच्छीकरस्पर्शमात्रतः ॥
य इदं तीर्थमासाद्य चक्रतीर्थस्य दक्षिणे ॥ ८६ ॥
स्नानं कदाचित्कुर्वन्ति जीवन्मुक्ता भवन्ति ते॥
एतत्तीर्थसमं पुण्यं न भूतं न भविष्यति ॥ ८७ ॥
घोरां वेतालतां त्यक्त्वा दिव्यतां स यदाप्तवान् ॥ ८८ ॥
अत्र सङ्कल्प्य च स्नात्वा वेतालवरदे शुभे ॥
पितृभ्यः पिण्डदानं च कुर्याद्वै नियमान्वितः ॥ ८९ ॥
एवं वः कथितं विप्रास्तस्य तीर्थस्य वैभवम् ॥
वेतालवरदाभिख्या यथा चास्य समागता ॥। ॥ 3.1.9.९० ॥
यः पठेदिममध्यायं शृणुयाद्वा स मुच्यते ॥ ९१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये वेतालवरदतीर्थप्रशंसायां सुदर्शनसुकर्णशापमोक्षणन्नाम नवमोऽध्यायः ॥ ९ ॥