००८ सुदर्शनवेतालत्वप्राप्तिवर्णनम्

॥ ऋषय ऊचुः ॥ ॥
भगवन्सूतसर्वज्ञ कृष्णद्वैपायनप्रिय ॥
त्वन्मुखाद्वै कथाः श्रुत्वा श्रोत्रकामृतवर्षिणीः ॥ १ ॥
तृप्तिर्न जायतेऽस्माकं त्वद्वचोमृतपायिनाम् ॥
अतः शुश्रूषमाणानां भूयो ब्रूहि कथाः शुभाः ॥ २ ॥
वेतालवरदन्नाम चक्रतीर्थस्य दक्षिणे ॥
तीर्थमस्ति महापुण्यमित्यवादीद्भवान्पुरा ॥ ३॥
वेतालवरदाभिख्या तीर्थस्यास्यागता कथम् ॥
किम्प्रभावं च तत्तीर्थमेतन्नो वक्तुमर्हसि ॥ ४ ॥
॥ श्रीसूत उवाच ॥ ॥
साधुपृष्टं हि युष्माभिरतिगुह्यं मुनीश्वराः ॥
शृणुध्वं मनसा सार्द्धं ब्रवीम्यत्यद्भुतां कथाम् ॥ ५ ॥
पामरा अपि मोदन्ते यां वै श्रुत्वा कथां शुभाम् ॥
कथा चेयं महापुण्या पुरा कैलासपर्वते ॥ ६ ॥
केलिकालेषु पावत्यै शम्भुना कथिता द्विजाः ॥
तां ब्रवीमि कथामेनामत्यद्भुततरां हि वः ॥ ७ ॥
पुरा हि गालवोनाम महर्षिः सत्यवाक्छुचिः ॥
चिन्तयानः परं ब्रह्म तपस्तेपे निजाश्रमे॥ ॥ ८ ॥
तस्य कन्या महाभागा रूपयौवनशालिनी ॥
नाम्ना कान्तिमती बाला व्यचरत्पितुरन्तिके ॥ ९ ॥
आहरन्ती च पुष्पाणि बल्यर्थं तस्य वै मुनेः ॥
वेदिसम्मार्जनादीनि समिदाहरणानि च ॥ 3.1.8.१० ॥
कुर्वती पितरं बाला सम्यक्परिचचार ह ॥
कदाचित्सा तु वल्यर्थं पुष्पाण्याहर्तुमुद्यता ॥ ॥ ११ ॥
तस्मिन्वने कान्तिमती सुदूरमगमत्तदा ॥
तत्र पुष्पाणि रम्याणि समाहृत्य च पेटके ॥ १२ ॥
तूर्णं निववृते बाला पितृशुश्रूषणे रता ॥
निवर्तमानां तां कन्यां विद्याधरकुमारकौ ॥ १३ ॥
सुदर्शनसुकर्णाख्यौ विमानस्थौ ददर्शतुः ॥
तां दृष्ट्वा गालवसुतां रूपयौवनशालिनीम् ॥१४॥
कामस्य पत्नीं ललितां रतिं मूर्तिमतीमिव ॥
सुदर्शनाभिधो ज्येष्ठो विद्याधरकुमारकः ॥ १५ ॥
हर्षसम्फुल्लनयनश्चकमे काममोहितः ॥
पूर्णचन्द्राननां तां वै वीक्षमाणो मुहुर्मुहुः ॥ १६ ॥
तया रिरंसुकामोऽसौ विमानाग्रादवातरत् ॥
तामुपेत्य मुनेः कन्यामित्युवाच सुदर्शनः ॥ १७ ॥ ॥
॥ सुदर्शन उवाच ॥ ॥
कासि भद्रे सुता कस्य रूपयौवनशालिनी ॥
रूपमप्रतिमं ह्येतदाह्लादयति मे मनः ॥ १८ ॥
त्वां दृष्ट्वा रतिसङ्काशां बाधते मां मनोभवः ॥
सुकण्ठनामधेयस्य विद्याधरपतेरहम् ॥ १९ ॥
आत्मजो रूपसम्पन्नो नाम्ना चैव सुदर्शनः ॥
प्रतिगृह्णीष्व मां भद्रे रक्ष मां करुणादृशा ॥ 3.1.8.२० ॥
भर्तारं मां समासाद्य सर्वान्भोगानवाप्स्यसि ॥
इत्याकर्ण्य वचस्तस्य विद्याधरसुतस्य सा ॥ २१ ॥
तदा कान्तिमती वाक्यं धर्मयुक्तमभाषत ॥
सुदर्शन महाभाग विद्याधरपतेः सुत ॥२२ ॥
आत्मजां मां विजानीहि गालवस्य महात्मनः ॥
कन्या चाहमनूढास्मि पितृशु श्रूषणे रता ॥ २३ ॥
बल्यर्थं हि पितुश्चाहं पुष्पाण्याहर्तुमागता ॥
आहरन्त्याश्च पुष्पाणि याम एको न्यवर्तत ॥ २४ ॥
मद्विलम्बेन स मुनिर्देव तार्चनतत्परः ॥
कोपं विधास्यते नूनं तपस्वी मुनिपुङ्गवः ॥ २५ ॥
तच्छीघ्रमद्य गच्छामि पुष्पाण्यप्याहृतानि मे ॥
कन्याश्च पितुराधीना न स्वतन्त्राः कदाचन ॥२६॥
यदि मामिच्छति भवान्पितरं मम याचय ॥
इति विद्याधरसुतमुक्त्वा कान्तिमती तदा ॥ २७ ॥
पितुराशङ्किता तूर्णमा श्रमं गन्तुमुद्यता ॥
गच्छन्तीं तां समालोक्य विद्याधरकुमारकः ॥ २८ ॥
तूर्णं जग्राह केशेषु धावित्वा मदनार्दितः ॥
अभ्येत्य निजकेशेषु गृह्णन्ते तं विलोक्य सा ॥ २९ ॥
उच्चैश्चक्रन्द सहसा कुररीव मुनेः सुता ॥
अस्माद्विद्याधरसुताज्जनक त्राहि मां विभो ॥ 3.1.8.३० ॥
बलाद्गृह्णाति दुष्टात्मा विद्याधरसुतोऽद्य माम् ॥
इत्थमुच्चैः प्रचुक्रोश स्वाश्रमान्नातिदूरतः ॥ ३१ ॥
तदाक्रन्दितमाकर्ण्य गन्धमादनवासिनः ॥
मुनयस्तु पुरस्कृत्य गालवं मुनिपुङ्गवम् ॥ ३२ ॥
किमेतदिति विज्ञातुं तं देशं तूर्णमाययुः ॥
तं देशं तु समागत्य सर्वे ते ऋषिपुङ्गवाः ॥ ३३ ॥
विद्याधरगृहीतां तां ददृशुर्मु निकन्यकाम् ॥
विद्याधरसुतं चान्यमन्तिके समुपस्थितम् ॥ ३४ ॥
एतद्दृष्ट्वा महायोगी गालवो मुनिपुङ्गवः ॥
गतः कोपवशं किञ्चिद्दुराप्मानं शशाप तम् ॥ ३५ ॥
कृतवानीदृशं कार्यं यत्त्वं विद्याधराधम ॥
तद्याहि मानुषीं योनिं स्वस्य दुष्कर्मणः फलम् ॥ ३६ ॥
सम्प्राप्य मानुषं जन्म बहुदुःखसमाकुलम् ॥
अचिरेण तु कालेन तस्मिन्नेव तु जन्मनि ॥ ३७ ॥
मनुष्यैरपि निन्द्यं तद्वेतालत्वं प्रयास्यसि ॥
मांसानि शोणितं चैव सर्वदा भक्षयिष्यसि ॥ ३८ ॥
वेताला राक्षसप्राया बलाद्गृह्णन्ति योषितः ॥
तस्मात्त्वं मानुषो भूत्वा वेतालत्वमवाप्स्यसि ॥ ३९?॥
तव दुष्कर्मणो योऽसावनुमन्ता कनिष्ठकः ॥
सुकर्ण इति विख्यातो भविता सोपि मानुषः ॥ 3.1.8.४० ॥
किन्तु साक्षान्न कृतवान्यतोऽसावीदृशीं क्रियाम्॥
तन्मानुषत्व मेवास्य वेतालत्वं तु नो भवेत् ॥ ४१ ॥
विज्ञप्तिकौतुकाभिख्यं यदा विद्याधराधिपम् ॥
द्रक्ष्यतेऽसौ कनिष्ठस्ते तदा शापाद्विमोक्ष्यते ॥ ४२ ॥
ईदृशस्यतु यः कर्ता महापापस्य कर्मणः ॥
स त्वं सम्प्राप्य मानुष्यं तस्मिन्नेव तु जन्मनि ॥ ४३ ॥
वेतालजन्म सम्प्राप्य चिरं लोके चरिष्यसि ॥
इत्युक्त्वा गालवः कन्यां गृहीत्वा मुनिभिः सह ॥ ४४ ॥
विद्याधरसुतौ शप्त्वा स्वाश्रमं प्रति निर्ययौ ॥
ततस्तस्मिन्महाभागे निर्याते मुनिपुङ्गवे ॥ ॥ ४५ ॥
सुदर्शनसुकर्णाख्यौ विद्याधरपतेः सुतौ॥
मुनिशापेन दुःखार्तौ चिन्तयामासतुर्भृशम् ॥ ४६ ॥
कर्तव्यं तौ विनिश्चित्य सुदर्शनसुकर्णकौ ॥
गोविन्दस्वामिनामानं यमुनातटवासिनम् ॥ ४७ ॥
ब्राह्मणं शीलसम्पन्नं पितृत्वे परिकल्प्य तौ ॥
परित्यज्य स्वकं रूपमजायेतां तदा त्मजौ ॥ ४८ ॥
विजयाशोकदत्ताख्यौ तस्य पुत्रौबभूवतुः ॥
सुतो विजयदत्ताख्यो ज्येष्ठो जज्ञे सुदर्शनः ॥ ४९ ॥
अशोकदत्तनामा तु सुकर्णश्च कनिष्ठकः ॥
विजयाशोकदत्तौ तु क्रमाद्यौवनमापतुः ॥ 3.1.8.५० ॥
एतस्मिन्नेव कालेतु यमुनायास्तटे शुभे ॥
अनावृष्ट्या तु दुर्भिक्षमभूद्द्वादशवार्षि कम् ॥ ५१ ॥
गोविन्दस्वामिनामा तु ब्राह्मणो वेदपारगः ॥
दुर्भिक्षोपहतां दृष्ट्वा तदानीं स निजां पुरीम् ॥ ५२ ॥
प्रययौ काशनिगरं सपुत्रः सह भार्यया ॥
स प्रयागं समासाद्य द्वं दृष्ट्वा महावटम्॥ ५३ ॥
कपालमालाभरणं सोऽपश्यद्यतिनं पुरः ॥
गोविन्दस्वामिनामा तु नमश्चक्रे स तं मुनिम् ॥ ५४ ॥
सपुत्रस्य सभार्यस्य सोऽवादीदाशिषो मुनिः ॥
इदं च वचनं प्राह गोविन्दस्वामिनं प्रति ॥ ५५ ॥
ज्येष्ठेनानेन पुत्रेण साम्प्रतं ब्राह्मणोत्तम ॥
क्षिप्रं विजयदत्तेन वियोगस्ते भविष्यति ॥ ५६ ॥
इति तस्य वचः श्रुत्वा गोविन्दस्वामिनामकः ॥
सूर्ये चास्तं गते तत्र सान्ध्यं कर्म समाप्य च ॥ ५७ ॥
सभार्यः ससुतो विप्रः सुदूराध्वसमाकुलः ॥
उवास तस्यां शर्वर्य्यां शून्ये वै देवतालये ॥ ५८ ॥
तदा त्वशोकदत्तश्च ब्राह्मणी च समाकुलौ ॥
वस्त्रेणास्तीर्य पृथिवीं रात्रौ निद्रां समापतुः ॥ ५९॥
ततो विजयदत्तस्तु दूरमार्गविलङ्घनात् ॥
बभूवात्यन्तमलसो भृशं शीतज्वरार्दितः ॥ 3.1.8.६० ॥
गोविन्दस्वामिना पित्रा शीतवबाधानिवृत्तये ॥
गाढमालिङ्ग्यमानोऽपि शीतबाधां न सोऽत्यजत् ॥ ६१ ॥
बाधतेऽत्यर्थमधुना तात मां शीतलो ज्वरः ॥
एतद्बाधानिवृत्त्यर्थं वह्निमानय मा चिरम् ॥ ६२ ॥
इति पुत्रवचः श्रुत्वा सर्वत्राग्निं गवेषयन् ॥
अलब्धवह्निः प्रोवाच पुन रभ्येत्य पुत्रकम् ॥ ६३ ॥
न वह्निं पुत्र विन्दामि मार्गमाणोऽपि सर्वशः ॥
रात्रिमध्ये तु सम्प्राप्ते द्वारेषु पिहितेषु च ॥ ६४ ॥
निद्रापरवशाः पौरा नैव दास्यन्ति पावकम् ॥
इत्थं विजयदत्तोऽसावुक्तः पित्रा ज्वरातुरः ॥ ६५ ॥
ययाचे वह्निमेवासौ पितरं दीनया गिरा ॥
शीतज्वरसमुद्भूतशीतबाधाप्रपीडितम् ॥ ६६ ॥
हिमशीकरवान्वायुर्द्विगुणं बाधतेऽद्य माम् ॥
वह्निर्न लब्ध इति वै मिथ्यैवोक्तं पितस्त्वया ॥ ६७ ॥
दूरादेष पुरोभागे ज्वालामालासमाकुलः ॥
शिखाभिर्लेलिहानोभ्रं दृश्यते पश्य पावकः ॥ ६८ ॥
तं वह्निमानय क्षिप्रं तात शीतनिवृत्तये ॥
इत्युक्तवन्तं तं पुत्रं स पिता प्रत्यभाषत ॥ ६९ ॥
नानृतं वच्मि पुत्राद्य सत्यमेव ब्रवीम्यहम् ॥
वह्निमान्योऽयमुद्देशो दूरादेव विलोक्यते ॥ 3.1.8.७० ॥
पितृकाननदेशं तं पुत्र जानीहि साम्प्रतम् ॥
यद्येषोभ्रंलिहज्वालः पुरस्ताज्ज्वलतेऽनलः ॥ ७१ ॥
पुत्र वित्रासजनकं तं जानीहि चितानलम् ॥
अमङ्गलो न सेव्योऽयं चिताग्निः स्पर्शदूषितः ॥ ७२ ॥
तस्य चायुःक्षयं याति सेवते यश्चितानलम् ॥
तस्मात्तवायुर्हानिर्मा भूयादिति मया सुत ॥ ७३ ॥
अमङ्गलस्तथा स्पृश्यो नानीतोऽयं चितानलः ॥
इत्युक्तवन्तं पितरं स दीनः प्रत्यभाषत ॥ ७४ ॥
अयं शवानलो वा स्यादध्वरानल एव वा ॥
सर्वथानीयतामेष नोचेन्मे मरणं भवेत् ॥ ७५ ॥
पुत्रस्नेहाभिभूतोऽथ समाहर्तुं चितानलम् ॥
गोविन्दस्वामिनामा तु श्मशानं शीघ्रमभ्यगात् ॥ ७६ ॥
गोविन्दस्वामिनि गते समाहर्तुं चितानलम्॥
तूर्णं विजयदत्तोऽपि तदा गच्छन्तमन्वयात् ॥ ७७ ॥
सम्प्राप्य तापनिकटं विकीर्णास्थि चितानलम् ॥
आलिङ्गन्निव सोद्वेगं शनैर्निर्वृतिमाप्तवान् ॥ ७९ ॥
अथावादीत्स पितरं तदिदं परिवर्तुलम् ॥
अतिदीप्तं विभात्यग्नौ किं रक्ताम्बुजसन्निभम् ॥७९ ॥
इति तस्य वचः श्रुत्वा पुत्रस्य ब्राह्मणोत्तमः ॥
निपुणं तं निरूप्यैतद्वचनं पुनरब्रवीत् ॥ 3.1.8.८० ॥
॥ गोविन्दस्वाम्युवाच ॥ ॥
एतत्कपालमनलज्वालावलयवर्तुलम् ॥
वसाकीकसमांसाढ्यमेतद्रक्ताम्बुजोपमम् ॥ ८१ ॥
द्विजस्य सूनुः श्रुत्वेति काष्ठाग्रेण जघान तत् ॥
येन तत्स्फुटनोद्गीर्णवसासिक्तमुखोऽभवत् ॥ ८२ ॥
कपालघट्टनाद्रक्तं यत्संसक्तं मुखे तदा ॥
जिह्वया लेलिहानोऽसौ मुहुस्तद्रक्तमा स्वदत् ॥ ८३ ॥
आस्वाद्यैवं समादाय तत्कपालं समाकुलः ॥
पीत्वा वसां महाकायो बभूवातिभयङ्करः ॥ ८४ ॥
सद्यो वेता लतां प्राप तीक्ष्णदंष्ट्रस्तदा निशि ॥
तस्याट्टहासघोषेण दिशश्च प्रदिशस्तदा ॥ ८५ ॥
द्यौरतरिक्षं भूमिश्च स्फुटिता इव सर्वशः ॥
तस्मिन्वेगात्समाकृष्य पितरं हन्तुमुद्यते ॥ ८६ ॥
मा कृथाः साहसमिति प्रादुरासीद्वचो दिवि ॥
स दिव्यां गिरमाकर्ण्य वेतालोऽतिभयङ्करः ॥ ८७ ॥
पितरं तं परित्यज्य महावेगसमन्वितः ॥
तूर्णमाकाशमाविश्य प्रययावस्खलद्गतिः ॥८८॥
स गत्वा दूरमध्वानं वेतालैः सह सङ्गतः ॥
तमागतं समालोक्य वेतोलास्सर्व एव ते ॥ ८९ ॥
कपालस्फोटनादेष वेतालत्वं यदाप्तवान् ॥
कपालस्फोटनामानमाह्वयाञ्चक्रिरे ततः ॥3.1.8.९०॥
ततः कपालस्फोटो ऽसौ वेतालैः सर्वतो वृतः॥
नरास्थिभूषणाख्यस्य सद्यो वेतालभूपतेः ॥९१॥
अन्तिकं सहसा प्राप महाबलसमन्वितः॥
नरास्थिभूषणश्चैनं सेनाप तिमकल्पयत् ॥ ९२ ॥
तं कदाचित्तु गन्धर्वश्चित्रसेनाभिधो बली ॥
नरास्थिभूषणं सङ्ख्ये न्यवधीत्सोऽपि संस्थितः ॥ ९३॥
नरास्थिभूषणे तस्मि न्गन्धर्वेण हते युधि ॥
तदा कपालस्फोटोऽसौ तत्पदं समवाप्तवान् ॥ ९४ ॥
विद्याधरेन्द्रस्य सुतः सुदर्शनो मनुष्यतां वै प्रथमं स गत्वा ॥
वेतालतां प्राप्य महर्षिशापात्क्रमाच्च वेतालपतिर्बभूव ॥ ९५ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये वेतालवरदतीर्थप्रशंसायां सुदर्शनवेतालत्वप्राप्तिवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥