००७ महिषासुरसंहारवर्णनम्

॥ श्रीसूत उवाच ॥ ॥
स्वसैन्यमवलोक्याथ महिषो दानवेश्वरः ॥
हतं देव्या महाक्रोधाच्चण्डकोपमथाब्रवीत् ॥ १ ॥
॥ महिष उवाच ॥ ॥
चण्डकोप महावीर्य युद्ध्यस्वैनां दुरात्मिकाम् ॥
तथास्त्विति स चोक्त्वाथ चण्डकोपः प्रतापवान् ॥ २ ॥
अवाकिरद्बाणवर्षैर्देवीं समरमूर्द्धनि ॥
बाणजालानि तस्याशु चण्डकोपस्य लीलया ॥ ३ ॥
छित्त्वा जघान शस्त्रेण चण्डकोपस्य साम्बिका ॥
चकर्त वाजिनोऽप्यस्य सारथिं च ध्वजं धनुः ॥ ४ ॥
उन्ममाथ रथं चापि तं बाणैर्हृद्यताडयत् ॥
स भग्नधन्वा विरथो हताश्वो हतसारथिः ॥ ५ ॥
चण्डकोपस्ततो देवीं खड्गचर्मधरोऽभ्यगात् ॥
खड्गेन सिंहमाजघ्ने देव्या वाहं महासुरः ॥ ६ ॥
देवीमपि भुजे सव्ये खड्गेन प्रजघान सः ॥
खङ्गो देव्या भुजे सव्ये व्यशीर्यत सहस्रधा ॥ ७ ॥
ततः शूले न महता चण्डकोपं तदाम्बिका ॥
जघान हृदये सोऽपि पपात च ममार च ॥ ८ ॥
चण्डकोपे हते तस्मिन्महावीर्ये महाबले ॥
चित्रभानुर्गजारूढो देवीं तामभ्यधावत ॥ ९ ॥
दिव्यां शक्तिं ससर्जाथ महाघण्टारवाकुलाम् ॥
न्यवारयत हुङ्कारैर्देवी शक्तिं निराकुलाम् ॥ 3.1.7.१० ॥
ततः शूलेन सा देवी चित्रभानुं व्यदारयत् ॥
मृते तस्मिंस्ततो युद्धे करालो द्रुतमभ्यगात् ॥ ११ ॥
करमुष्टिप्रहारेण सोऽपि देव्या निपातितः ॥
ततो देवी मदोन्मत्तं गदया व्यसुमातनोत् ॥ १२ ॥
बाष्कलं पट्टिशेनापि चक्रेणापि तथान्तिकम् ॥
प्राहिणोद्यमलोकाय दुर्गा देवी द्विजोत्तमाः ॥ १३ ॥
एवमन्यान्महाकायान्मन्त्रिणो महिषस्य च ॥
शूलेन प्रोथयित्वाथ प्राहिणोद्यमसादनम् ॥ १४ ॥
आत्मसैन्ये हते त्वेवं दुर्गया महिषासुरः ॥
माहिषेणाथ रूपेण गणान्देव्या अभक्षयत् ॥ १५ ॥
तुण्डेन निजघानैकान्सुराघातैस्तथापरान् ॥
निश्वासवायुभिश्चान्यान्पातयामास रोषितः ॥ १६ ॥
देव्या भूतगणं त्वेवं निहत्य महिषासुरः ॥
सिंहं मारयितुं देव्याश्चुक्रोध च ननाद च ॥ १७ ॥
ततः सिंहोऽभवत्क्रुद्धो महावीर्यो महाबलः ॥
सुराभि घातनिर्भिन्नमहीतलमहीधरः ॥ १८ ॥
महिषासुरमायान्तं नखैरेनं व्यदारयत् ॥
चण्डिकापि ततः क्रुद्धा वधे तस्याकरोन्मतिम् ॥ १९ ॥
बबन्ध पाशैर्महिषं चण्डिका कोपमूर्च्छिता॥
मोचयित्वा ततः पाशांस्त्यक्तमाहिषवेषवान्॥3.1.7.२॥।
सिंहवेषोऽभवद्दैत्यो महाबलपराक्रमः॥
देवी तस्य शिरोयावच्छेत्तुं बुद्धिमधारयत्॥२१॥
तावत्स पुरुषो भूत्वा खड्गपाणिरदृश्यत॥
अथ तं पुरुषं देवी खड्गहस्तं शरोत्करैः॥२२॥
जघान तीक्ष्णधाराग्रैः परमर्मविदारणैः ॥
ततः स पुरुषो विप्रा गजोऽभूद्धस्तदन्तवान् ॥ २३ ॥
दुर्गाया वाहनं सिंहं करेण विचकर्ष च ॥
ततः सिंहः करं तस्य विचकर्त नखाङ्कुरैः ॥ २४ ॥
भूयो महासुरो जातो माहिषं वेषमाश्रितः ॥
ततः क्रुद्धा भद्रकाली महत्पानमसेवत ॥ २५ ॥
ततः पानवशा न्मत्ता जहासारुणलोचना ॥
महिषः सोऽपि गर्वेण शृङ्गाभ्यां पर्वतोत्करान् ॥२६॥
चण्डिकां प्रतिं चिक्षेप सा च तानच्छिनच्छरैः ॥
ततो देवी जग न्माता महिषासुरमब्रवीत् ॥ २७ ॥
॥ देव्युवाच ॥ ॥
कुरु गर्वं क्षणं मूढ मधु यावत्पिबाम्यहम् ॥
निवृत्तमधुपानाहं त्वां नयिष्ये यमक्षयम्॥ ॥२८॥
हते त्वयि दुराधर्षे मया दैवतकण्टके॥
स्वंस्वं स्थानं प्रपद्यन्तां सिद्धा साध्या मरुद्गणाः॥२९॥
उक्त्वैवं ताडयामास मुष्टिना महिषासुरम्॥
ताडितोऽयं ततो देव्या महिषो भृशविह्वलः॥3.1.7.३॥।
दक्षिणस्योदधेस्तीरेप्रदुद्राव त्वरान्वितः॥
अनुदुद्राव तं देवी सिंहमारुह्य वाहनम्॥३१॥
अनुद्रुतस्ततो देव्या महिषो दानवेश्वरः॥
धर्मपुष्कीरणीतोये दशयोजनमायते॥३२॥
प्रविश्यान्तर्हितस्तस्थौ दुर्गाताडनविह्वलः॥
ततो दुर्गा समासाद्य धर्मपुष्करिणीतटम् ॥ ॥३३॥
नददर्शासुरं तत्र महिषं चण्डिका तदा ॥
अशरीरा ततो वाणी दुर्गा देवीमभाषत॥३४॥
भद्रकालि महादेवि महिषो दानवस्त्वया ॥
ताडितो मुष्टिना भद्रे धर्मपुष्करिणीजले ॥३५॥
अस्मिन्नन्तर्हितः शेते भयार्तो मारयस्व तम् ॥
येनकेनाप्युपायेन चैनं प्राणैर्वियोजय ॥३६॥
एवं वाचाऽशरी रिण्या कथिता चण्डिका तदा ॥
प्राह स्ववाहनं सिंहमसुरेन्द्रवधोद्यता ॥३७॥
मृगेन्द्र सिंहविक्रान्त महावलपराक्रम ॥
धर्मपुष्कीरणीतोयं निःशेषं पीय तां त्वया ॥ ३८ ॥
देव्यैवमुक्तः पञ्चास्यो धर्मपुष्करिणीजलम् ॥
निःशेषं च पपौ विप्रा यथा पांसुर्भवेत्तथा ॥ ३९ ॥
निरगान्महिषो दीनस्ततस्तस्मा ज्जलाशयात् ॥
आयान्तमसुरं देवी पादेनाक्रम्य मूर्द्धनि ॥ 3.1.7.४० ॥
कण्ठं शूलेन तीक्ष्णेन पीडयामास कोपिता ॥
ततो देव्यसिमादाय चकर्तास्य शिरो महत् ॥ ४१ ॥
एवं स महिषो विप्राः सभृत्यबलवाहनः ॥
दुर्गया निहतो भूमौ पपात च ममार च ॥ ४२ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥
स्तुत्वा देवीं ततः स्तोत्रैस्तुष्टा जहृषिरे तदा ॥ ४३ ॥
अनुज्ञातास्ततो देव्या देवा जग्मुर्यथागतम् ॥
ततो देवी जगन्माता स्व नाम्ना पुरमुत्तमम् ॥ ४४ ॥
दक्षिणस्य समुद्रस्य तीरे चक्रे तदोत्तरे ॥
ततो देव्यनुशिष्टास्ते देवाः शक्रपुरोगमाः ॥ ४५ ॥
पूरयामासुरमृतैर्धर्मपुष्क रिणीं तदा ॥
ततो ह्यमृततीर्थाख्यां लेभे तत्तीर्थमुत्तमम् ॥ ४६ ॥
ततो देवी वरमदात्स्वपुरस्य मुदान्विता ॥
पशव्यं चापरोगं च पुरमेतद्भवत्विति ॥ ४७ ॥
ददौ तीर्थाय च वरं स्नातानामत्र वै नृणाम् ॥
यथाभिलाषं सिद्धिः स्यादित्युक्त्वा सा दिवं ययौ ॥ ४९ ॥
॥ श्रीसूत उवाच ॥ ॥
यत्स्वनाम्ना चकारेदं देवी पुरमनुत्तमम् ॥
देवीपत्तनमित्युक्तं तेन देव्याः पुरोत्तमम् ॥ ४९ ॥
देवीपत्तनमारभ्य सुमुहूर्ते दिने द्विजाः ॥
विघ्नेश्वरं प्रणम्यादौ सलिलस्वामिनं तथा ॥ 3.1.7.५० ॥
महादेवाभ्यनुज्ञातो रामचन्द्रोऽतिधार्मिकः ॥
स्थापयित्वा स्वहस्तेन पाषाणनवकं मुदा॥ ५१ ॥
सेतुमारब्धवान्विप्रा यावल्लङ्कामतन्द्रितः ॥
सिंहासनं समारुह्य रामो नलकृतं शुभम्॥ ५२ ॥
वानरैः कारयामास सेतुमब्धौ नलादिभिः ॥
पर्वताञ्छाखिनोवृक्षान्दृषदः काष्ठसञ्चयान् ॥ ५३ ॥
तृणानि च समाजह्रुर्वानरा वनमध्यतः ॥ ५४ ॥
नलस्तानि समादाय चक्रे सेतुं महोदधौ ॥
पञ्चभिर्दिवसैः सेतुर्यावल्लङ्कासमीपतः ॥ ५५ ॥
दशयोजनविस्तीर्णश्शतयोजनमायतः ॥
कृतः सेतुर्नलेनाब्धौ पुण्यः पापविनाशनः ॥ ५६ ॥
देवीपुरस्य निकटे नवपाषाणरूपके ॥
सेतुमूले नरः स्नायात्स्वपापपरिशुद्धये ॥ ५७ ॥
चक्रतीर्थे तथा स्नायाद्भजेत्सेत्वधिपं हरिम्॥
देवीपत्तनमारभ्य यत्कृतं सेतुबन्धनम् ॥ ५८ ॥
तत्सेतुमूलं विप्रेन्द्रा यथार्थं परिकल्पितम् ॥
सेतोस्तु पश्चिमा कोटिर्दर्भशय्या प्रकीर्तिता ॥ ५९ ॥
देवीपुरी च प्राक्कोटिरुभयं सेतुमूलकम् ॥
उभयं पुण्यमाख्यातं पवित्रं पापनाशनम् ॥ 3.1.7.६० ॥
यत्सेतुमूलं गच्छन्ति येन मार्गेण वै नराः॥
तत्तन्मार्गगतास्ते ते तस्मिंस्तस्मिन्विमुक्तिदे ॥ ६१ ॥
स्नात्वादौ सेतुमूले तु चक्रतीर्थे तथैव च ॥
सङ्कल्पपूर्वकं पश्चाद्गच्छेयुः सेतुबन्धनम्॥ ६२ ॥
देवीपुरे तथा दर्भशय्यायामपि भूसुराः ॥
चक्रतीर्थे शिवे स्नानं पुण्यपापविनाशनम् ॥६३॥
स्मरणादुभयत्रापि चक्रतीर्थस्य वै द्विजाः ॥
भस्मीभवन्ति पापानि लक्षजन्मकृतान्यपि ॥ ६४ ॥
जन्मापि विलयं यायान्मुक्तिश्चापि करे स्थिता ॥
चक्रतीर्थसमं तीर्थं न भूतं न भविष्यति ॥ ६५ ॥
भूलोके यानि तीर्थानि गङ्गादीनि द्विजोत्तमाः ॥
चक्रतीर्थस्य तान्यद्धा कलां नार्हन्ति षोडशीम् ॥ ६६ ॥
आदौ तु नवपाषाणमध्येऽब्धौ स्नानमाचरेत् ॥
क्षेत्रपिण्डे ततः कुर्याच्चक्रतीर्थे तथैव च ॥ ६७ ॥
सेतुनाथं हरिं सेवेत्स्वपापपरिशुद्धये ॥
एवं हि दर्भशय्यायां कुर्युस्तन्मार्गतो गताः ॥ ६८ ॥
आरूढं रामचन्द्रेण यो नमस्कुरुते जनः ॥
सिंहासनं नलकृतं न तस्य नरकाद्भयम्॥ ६९ ॥
सेतुमादौ नमस्कुर्याद्रामं ध्यायन्हृदा तदा ॥
रघुवीरपदन्यास पवित्रीकृतपांसवे ॥ 3.1.7.७० ॥
दशकण्ठशिरश्छेदहेतवे सेतवे नमः ॥
केतवे रामचन्द्रस्य मोक्षमार्गैकहेतवे ॥ ७१ ॥
सीताया मानसाम्भोजभानवे सेतवे नमः ॥ ॥
साष्टाङ्गं प्रणिपत्यादौ मन्त्रेणानेन वै द्विजाः ॥ ७२ ॥
ततो वेतालवरदं तीर्थं गच्छेन्महाबलम् ॥
तत्र स्नानादवाप्नोति सिद्धिं पारामिकां नरः ॥ ७३ ॥
योऽध्यायमेनं पठते मनुष्यः शृणोति वा भक्तियुतो द्विजेन्द्राः ॥
स्वर्गादयस्तस्य न दुर्लभाः स्युः कैवल्यमप्यस्य करस्थमेव ॥ ७४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये चकतीर्थप्रशंसायां देवीपुराभिधानकथने महिषासुरसंहारवर्णनन्नाम सप्तमोऽध्यायः ॥ ७ ॥