००६ देवीमहिषासुरयुद्धवर्णनम्

॥ ऋषय ऊचुः ॥ ॥
द्वैपायनविनेय त्वं सूत पौराणिकोत्तम ॥
देवीपत्तनपर्यन्तं चक्रतीर्थमनुत्तमम् ॥ १ ॥
इत्यब्रवीः पुरास्माकमतः पृच्छाम किञ्चन ॥
देवीपुरं हि तत्कुत्र यदन्तं चक्रतीर्थकम् ॥ २ ॥
देवीपत्तन मित्याख्या कथं तस्याभवत्तथा ॥
श्रीरामसेतुमूले च स्नातानां पापिनामपिः॥ ३ ॥
कीदृशं वा भवेत्पुण्यं चक्रतीर्थे तथैव च ॥
एतच्चान्यान्विशे षांश्च ब्रूहि पौराणिकोत्तम ॥ ४ ॥
॥ श्रीसूत उवाच ॥ ॥
सर्वमेतत्प्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः ॥
पठतां शृण्वतां चैतदाख्यानं पापनाश नम् ॥ ५ ॥
यत्र पाषाणनवकं स्थापयित्वा रघूद्वहः ॥
बबन्ध प्रथमं सेतुं समुद्रे मैथिलीपतिः ॥ ६ ॥
देवीपुरं तु तत्रैव यदन्तं चक्रतीर्थकम् ॥
देवीपत्तनमित्याख्या यथा तस्य समागता ॥ ।७ ॥
तद्ब्रवीमि मुनिश्रेष्ठाः शृणुध्वं श्रद्धया सह ॥
पुरा देवासुरे युद्धे देवैर्नाशितपुत्रिणी ॥
दितिः प्रोवाच तनयामात्मनः शोकमोहिता ॥ ८ ॥
॥ दितिरुवाच ॥ ॥
याहि पुत्रि तपः कर्तुं तपोवनमनुत्तमम्॥ ९ ॥
पुत्रार्थं तव सुश्रोणि नियता नियतेन्द्रिया ॥
इन्द्रादयो न शिष्येरन्येन पुत्रेण वै सुराः ॥ 3.1.6.१० ॥
उदिता तनया चैवं जनन्या तां प्रणम्य सा ॥
स्वीकृत्य माहिषं रूपं वनं पञ्चाग्निमध्यगा ॥ ११ ॥
तपोऽतप्यत सा घोरं तेन लोकाश्चकम्पिरे ॥
तस्यां तपः प्रकुर्वन्त्यां त्रिलोक्यासीद्भयातुरा ॥ १२ ॥
इन्द्रादयः सुर गणा मोहमापुर्द्विजोत्तमाः ॥
सुपार्श्वस्तपसा तस्या मुनिः क्षुब्धोऽवदत्तु ताम् ॥ १३ ॥
॥ सुपार्श्व उवाच ॥ ॥
परितुष्टोऽस्मि सुश्रोणि पुत्रस्तव भविष्यति ॥
मुखेन महिषाकारो वपुषा नररूपवान् ॥ १४ ॥
महिषो नामपुत्रस्ते भविष्यत्यतिवीर्यवान् ॥
पीडयिष्यति यः स्वर्गं देवेन्द्रं च ससैनिकम् ॥ १५ ॥
सुपार्श्वस्त्वेवमुक्त्वा तां विनिवार्य तपस्तथा ॥
आगच्छदात्मनो लोकमनुनीय तपस्विनीम् ॥ १६ ॥
अथ जज्ञे स महिषो यथोक्तं ब्रह्मणा पुरा ॥
व्यवर्द्धत महावीर्यः पर्वणीव महोदधिः ॥ १७ ॥
ततः पुत्रो विप्रचित्तेर्विद्युन्माल्यसुराग्रणीः ॥
अन्येऽप्यसुरवर्यास्ते सन्ति ये भूतले द्विजाः ॥ १८ ॥
ते सर्वे महिषस्यास्य श्रुत्वा दत्तवरं मुदा ॥
समागम्य मुनिश्रेष्ठाः प्रावदन्महिषासुरम् ॥ १९ ॥
स्वर्गाधिपत्यमस्माकं पूर्व मसीन्महामते ॥
देवैर्विष्णुं समाश्रित्य राज्यं नो हृतमोजसा ॥ 3.1.6.२० ॥
तद्राज्यमानय वलादस्माकं महिषासुर ॥
वीर्यं प्रकटयस्वाद्य प्रभावमपि चात्मनः ॥२१॥
अतुल्यबलवीर्यस्त्वं ब्रह्मदत्तवरोद्धतः॥
पुलोमजापतिं युद्धे जहि देवगणैः सह॥२२॥
दनुजैरेवमुक्तोऽसौ योद्धुकामोऽमरैः सह॥
महा वीर्योऽथ महिषः प्रययावमरावतीम् ॥२३॥
देवानामसुराणां च संवत्सरशतं रणम् ॥
पुरा बभूव विप्रेन्द्रास्तुमुलं रोमहर्षणम्॥ २४ ॥
देववृन्दं ततो भी त्या पुरस्कृत्य पुरन्दरम्॥
कान्दिशीकमभूद्विप्रा ब्रह्माणं च ययौ तदा ॥ २५ ॥
ब्रह्मा तानमरासर्वान्समादाय ययौ पुनः॥
नारायणशिवौ यत्र वर्तेते विश्वपालकौ ॥२६॥
तत्र गत्वा नमस्कृत्य स्तुत्वा स्तोत्रैरनेकशः ॥
ब्रह्मा निवेदयामास महिषासुरचेष्टितम् ॥ २७ ॥
सुराणामसुरैः पीडां देवयोः शम्भुकृष्णयोः ॥
इन्द्राग्नियमसूर्येन्दुकुबेरवरुणादिकान् ॥ २८ ॥
निराकृत्याधिकारेषु तेषां तिष्ठत्ययं स्वयम् ॥
अन्येषां देववृन्दानामधिकारेपि तिष्ठति ॥ २९ ॥
निरस्तं देववृन्दं तत्स्वर्लोकादवनीतले ॥
मनुष्यवद्विचरते महिषासुरबाधितम् ॥ 3.1.6.३० ॥
एतज्ज्ञापयितुं देवौ युवयोरहमागतः॥
सार्द्धं देव गणैरत्र रक्षतं तान्समागतान् ॥ ३१ ॥
ब्रह्मणो वचनं श्रुत्वा रमेश्वरमहेश्वरौ ॥
कोपात्करालवदनौ दुष्प्रेक्ष्यौ तौ बभूवतुः ॥ ३२ ॥
अत्यन्तकोपज्वलितान्मुखाद्विष्णोरथ द्विजाः ॥
निश्चक्राम महत्तेजः शम्भोः स्रष्टुस्तथैव च ॥ ३३ ॥
अपरेषां सुराणां च देहादिन्द्रशरीरतः ॥
तेजः समुदभूत्क्रूरं तदेकं समजायत ॥ ३४ ॥
तेषां तु तेजसां राशिर्ज्वलत्पर्वतसन्निभः ॥
ददृशे देववृन्दैस्तैर्ज्वालाव्याप्तदिगन्तरः ॥ ३५ ॥
तेजसां समुदायोऽसौ नारी काचि दभूत्तदा ॥
शिवतेजो मुखमभूद्विष्णुतेजो भुजौ द्विजाः ॥ ३६ ॥
ब्रह्मतेजस्तु चरणौ मध्यमैन्द्रेण तेजसा ॥
यमस्य तेजसा केशाः कुचौ चन्द्रस्य तेजसा ॥ ३७ ॥
जङ्घोरू कल्पितौ विप्रा वरुणस्य तु तेजसा ॥
नितम्बः पृथिवीतेजः पादाङ्गुल्योऽर्कतेजसा ॥ ३८ ॥
कराङ्गुल्यो वसूनां च तेजसा कल्पितास्तथा ॥
कुबेरतेजसा विप्रा नासिकापरिकल्पिता ॥ ३९ ॥
नवप्रजापतीनां च तेजसा दन्तपङ्क्तयः ॥
चक्षुर्द्वयं समजनि हव्यवाहनतेजसा ॥ ॥ 3.1.6.४० ॥
उभे सन्ध्ये भ्रुवौ जाते श्रवणे वायुतेजसा ॥
इतरेषां च देवानां तेजोभिरतिदारुणैः ॥ ४१ ॥
कृतान्यावयवा नारी दुर्गा परमभास्वरा ॥
बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ॥ ४२ ॥
सर्ववृन्दारकानीकतेजःसङ्घसमुद्भवा ॥
तां दृष्ट्वा प्रीतिमापुस्ते देवा महिषबाधिताः ॥ ४३ ॥
ततो रुद्रा दयो देवा विनिष्कृष्यायुधान्निजात् ॥
आयुधानि ददुस्तस्यै शूलादीनि द्विजोत्तमाः ॥ ४४ ॥
भूषणानि ददुस्तस्यै वस्त्रमाल्यानि चन्दनम् ॥
सापि देवी तदा वस्त्रैर्भूषणैश्चन्दनादिभिः ॥ ४५ ॥
कुसुमैरायुधैर्हारैर्भूषिता परिचारकैः ॥
साट्टहासं प्रमुञ्चन्ती भैरवी भैरवस्वना ॥ ४६ ॥
ननाद कम्पयतीव रोदसी देवसेविता ॥
देव्या भैरवनादेन चचाल सकलं जगत् ॥ ४७ ॥
सिंहवाहनमारूढां देवीं ताममरास्तदा ॥
मुनयः सिद्धगन्धर्वास्तुष्टुवुर्जयश ब्दतः ॥ ४९ ॥
अतिभीषणनादेन देव्याः क्षुब्धं जगत्त्रयम् ॥
दृष्ट्वा देवारयो दैत्याः समुत्तस्थुरुदायुधाः ॥ ४९ ॥
महिषोऽपि महाक्रोधात्समुद्यत महायुधः ॥
तं शब्दमवलक्ष्याथ ययावसुरसंवृतः ॥ 3.1.6.५० ॥
व्यलोकयत्ततो देवीं तेजोव्याप्तजगत्त्रयीम् ॥
सायुधानन्तबाह्वाढयां नादकम्पितभूतलाम् ॥ ५१ ॥
क्षोभिताशेषशेषादिमहानागपरम्पराम् ॥
विलोक्य देवीमसुराः समनह्यन्नुदायुधाः ॥ ५२ ॥
ततो देव्या तया सार्द्धमसुराणामभूद्रणः ॥
अस्त्रैः शस्त्रैः शरैश्चक्रैर्गदाभिर्मुसलैरपि ॥ ५३ ॥
गजाश्वरथपादातैरसङ्ख्येयैर्महावलः ॥
महिषो युयुधे तत्र देव्या साकमरिन्दमः ॥ ५४ ॥
लक्षको टिसहस्राणि प्रधानासुरयूथपाः ॥
एकैकस्य तु सेनायास्तेषां सङ्ख्या न विद्यते ॥ ५५ ॥
ते सर्वे युगपद्देवीं शस्त्रैरावव्रुरोजसा ॥
सापि देवी ततो भीमा दैत्यमुक्तास्त्रसञ्चयम् ॥ ५६ ॥
बिभेद लीलया बाणैः स्वकार्मुकविनिःसृतैः ॥
ससर्ज दैत्यकायेषु बाणपूगान्यनेकशः ॥ ५७ ॥
देव्याश्रयबला द्देवा निर्भया दैत्ययूथपैः ॥
युयुधुः संयुगे शस्त्रैरस्त्रैरप्यायुधान्तरैः ॥ ५८ ॥
ततो देवा बलोत्सिक्ता देवीशक्त्युपबृंहिताः ॥
निःशेषमसुरान्सर्वानायु धैर्निरमूलयन् ॥ ५९ ॥
स्वसैन्ये तु क्षयं याते सङ्क्षुब्धो महिषासुरः ॥
चापमादाय वेगेन विकृष्य च महास्वनम् ॥ 3.1.6.६० ॥
सन्धाय मुमुचे बाणान्देव सैन्येषु भूसुराः ॥
इन्द्रे तु दशसाहस्रं यमे पञ्चसहस्रकम् ॥ ६१ ॥
वरुणे चाष्टसाहस्रं कुबेरे षट्सहस्रकम् ॥
सूर्ये चन्द्रे च वह्नौ च वायौ वसुषु चाश्विनोः ॥ ६२ ॥
अन्येष्वपि च देवेषु महिषो दानवेश्वरः ॥
प्रत्येकमयुतं बाणान्मुमुचे बलिनां वरः ॥ ६३ ॥
पलायन्ते ततो देवा महिषासुरमर्द्दिताः ॥
देवीं शरणमाजग्मुस्त्राहित्राहीतिवादिनः ॥ ६४ ॥
ततो देवी गणान्स्वस्य भूतवेतालकादिकान् ॥
यूयं नाशयत क्षिप्रमासुरं बलमित्यशात् ॥। ॥ ६५ ॥
अहं तु महिषं युद्धे योधयामि वलोद्धतम् ॥
ततो देव्या गणैः सर्वमासुरं क्षतमाशु वै ॥ ६६ ॥।
ततः सैन्यं क्षयं नीते गणै र्देवीप्रचोदितैः ॥
योद्धुकामः स महिषो गणैः साकं व्यतिष्ठत ॥ ६७ ॥
अत्रान्तरे महानादः सुचक्षुश्च महाहनुः ॥
महाचण्डो महाभक्षो महोदरम होत्कटौ ॥ ६८ ॥
पञ्चास्यः पादचूडश्च बहुनेत्रः प्रबाहुकः ॥
एकाक्षस्त्वेकपादश्च बहुपादोऽप्यपादकः ॥ ६९ ॥
एते चान्ये च बहवो महिषासुर मन्त्रिणः ॥
योद्धुकामा रणे देव्याः पुरतस्त्ववतस्थिरे ॥ 3.1.6.७० ॥
सिंहं वाहनमारुह्य ततो देवी मनोजवम् ॥
प्रलयाम्बुदनिर्घोषं चापमादाय भैरवम् ॥ ॥ ७१ ॥
विस्फोट्य मुमुचे बाणान्वज्रवेगसमान्युधि ॥
दशलक्षगजैश्चापि शतलक्षैश्च वाजिभिः ॥ ७२ ॥
शतलक्षै रथैश्चापि लक्षायुतपदातिभिः ॥
युक्तो महाहनुर्दैत्यो देव्या युधि निपातितः ॥७३॥
सैन्ये च तस्य निहता देव्या बाणैर्द्विजोत्तमाः ॥
लक्षकोटिसहस्राणि प्रधानासुरनायकाः ॥७४॥
महिषस्य हि विद्यन्ते महाबलपराक्रमाः ॥
एकैकस्य प्रधानस्य चतुरङ्गबलं तथा ॥ ७५ ॥
महाहनोर्यथा विप्रास्तथैवास्ति महद्बलम् ॥
तत्सर्वं निहतं देव्या शरैः काञ्चनपुङ्खितैः ॥ ७६ ॥
याममात्रेण विप्रेन्द्रास्तदद्भुतमिवाभवत् ॥ ७७ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये चक्रतीर्थप्रशंसायां देवीपुराभिधानकथने देवीमहिषासुरयुद्धवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥