००४ दुर्दमगन्धर्वशापमोचनम्

॥ ऋषय ऊचुः ॥ ॥
भगवन्राक्षसः कोऽसौ सूत पौराणिकोत्तम॥
विष्णुभक्तं महात्मानं यो गालवमबाधत॥१॥
श्रीसूत उवाच॥
वक्ष्यामि राक्षसं क्रूरं तं विप्राः शृणुतादरात् ॥
यथा स राक्षसो जातो मुनीनां शापवैभवात् ॥ २ ॥
पुरा कैलासशिखरे हालास्ये शिवमन्दिरे ॥
चतुर्विशतिसाहस्रा मुनयो ब्रह्मवादिनः ॥ ३ ॥
वसिष्ठात्रिमुखाः सर्वे शिवभक्ता महौजसः ॥
भस्मोद्धूलितसर्वाङ्गास्त्रिपुण्ड्राङ्कितमस्तकाः ॥ ४ ॥
रुद्राक्ष मालाभरणाः पञ्चाक्षरजपे रताः ॥
हालास्यनाथं भूतेशं चन्द्रचूडमुमापतिम् ॥ ५ ॥
उपासाञ्चक्रिरे मुक्त्यै मधुरापुरवासिनः ॥
कदाचित्तत्र गन्धर्वो विश्वावसुसुतो बली ॥ ६ ॥
दुर्द्दमोनाम विप्रेन्द्रा विटगोष्ठीपरायणः ॥
ललनाशतसंयुक्तो विवस्त्रः सलिलाशये ॥ ७ ॥
चिक्रीड स विवस्त्राभिः साकं युवतिभिर्मुदा ॥
हालास्यनाथतीर्थं तद्वसिष्ठो मुनिभिः सह ॥ ८ ॥
माध्यन्दिनं कर्तुमना ययौ शङ्करमन्दिरात् ॥
तानृषीनवलोक्याथ रामास्ता भयकातराः ॥ ९ ॥
वासांस्याच्छादयामासुर्दुर्द्दमो न तु साहसी ॥
ततो वसिष्ठः कुपितः शशापैनं गत त्रपम् ॥ 3.1.4.१० ॥
॥ वसिष्ठ उवाच ॥ ॥
यस्माद्दुर्दम गन्धर्व दृष्ट्वास्माल्ँलज्जया त्वया ॥
वासो नाच्छादितं शीघ्रं याहि राक्षसतां ततः ॥ ११ ॥
इत्युक्त्वा ता स्त्रियः प्राह वसिष्ठो मुनिपुङ्गवः ॥
यस्मादाच्छादितं वस्त्रं दृष्ट्वास्माल्ँललनोत्तमाः ॥ १२ ॥
ततो न युष्माञ्छपिष्यामि गन्छध्वं त्रिदिवं ततः ॥
एवमुक्ता वसिष्ठेन रामाः प्राञ्जलयस्तदा ॥ १३ ॥
प्रणिपत्य वसिष्ठं तं भक्तिनम्रेण चेतसा ॥
मुनिमण्डलमध्ये तं वसिष्ठमिदमब्रुवन् ॥ १४॥ ॥
॥ रामा ऊचुः ॥ ॥
भगवन्सर्वधर्मज्ञ चतुरानननन्दन ॥
दयासिन्धोऽवलोक्यास्मान्न कोपं कर्तुमर्हसि ॥ १५ ॥
पतिरेवहि नारीणां भूषणं परमुच्यते ॥
पतिहीना तु या नारी शतपुत्रापि सा मुने ॥१६॥
विधवेत्युच्यते लोके तत्स्त्रीणां मरणं स्मृतम् ॥
तत्प्रसादं कुरु मुने पत्यावस्माक मादरात् ॥ १७ ॥
एकोऽपराधः क्षन्तव्यो मुनिभिस्तत्त्वदर्शिभिः ॥
क्षमां कुरु दयासिन्धो युष्मच्छिष्येऽत्र दुर्दमे ॥ १९ ॥
वसिष्ठः प्रार्थितस्त्वैवं दुर्दम स्याङ्गनाजनैः ॥
प्रोवाच वचनं भूयः प्रसन्नः स द्विजोत्तमाः ॥ १९ ॥
न मे स्याद्वचनं मिथ्या कदाचिदपि सुभ्रुवः ॥
उपायं वः प्रवक्ष्यामि शृणुध्वं श्रद्धया सह ॥ 3.1.4.२० ॥
षोडशाब्दावधिः शापो भर्तुर्वो भविता ध्रुवम् ॥
षोडशाब्दावधौ चैष दुर्दमो राक्षसाकृतिः ॥ २१ ॥
यदृच्छयाचक्र तीर्थं गमिष्यति सुराङ्गनाः ॥
आस्ते तत्र महायोगी गालवो विष्णुतत्परः ॥२२॥
भक्ष्यार्थं तं मुनिं सोऽयं राक्षसोभिगमिष्यति ॥
ततो गालवरक्षार्थं प्रेरितं चक्रमुत्तमम्॥२३॥
विष्णुनास्य शिरो रामा हरिष्यति न संशयः॥
ततः स्वरूपमासाद्य शापान्मुक्तः सुदुर्दमः ॥२४॥
पतिर्वस्त्रिदिवं भूयो गन्तास्त्यत्र न संशयः ॥
ततस्त्रिदिवमासाद्य दुर्द्दमोऽयं पतिर्हि वः ॥ २५ ॥
रमयिष्यति सुन्दर्यो युष्मान्सुन्दरवेषभृत् ॥
॥ श्रीसूत उवाच ॥ ॥
इत्युक्त्वा तु वसिष्ठस्ता दुर्दमस्य वराङ्गनाः ॥ २६ ॥
स्वाश्रमं प्रययौ तूर्णं हालास्येश्वरभक्तिमान् ॥
अथ रामास्तमालिङ्ग्य दुर्द्दमं पतिमातुराः ॥ २७ ॥
रुरुदुः शोकसंविग्ना दुःखसागरमध्यगाः ॥ प्र
पश्यन्तीषु तास्वेव दुर्दमो राक्षसोऽभवत् ॥ २८ ॥
महादंष्ट्रो महाकायो रक्तश्मश्रुशिरोरुहः ॥
तं दृष्ट्वा भयसंविग्ना जग्मू रामास्त्रिविष्टपम् ॥ २९ ॥
ततो राक्षसवेषोऽयं दुर्दमो भैरवाकृतिः ॥
भक्षयन्प्राणिनः सर्वान्देशाद्देशं वनाद्वनम्॥ 3.1.4.३० ॥
भ्रमन्न निलवेगोऽसौ धर्मतीर्थं ततो ययौ ॥
एवं षोडशवर्षाणि भ्रमतोऽस्य ययुस्तदा ॥ ३१ ॥
ततस्तु षोडशाब्दान्ते राक्षसोयं मुनीश्वराः ॥
भक्षितुं गालवमुनिं धर्मतीर्थनिवासिनम् ॥ ३२ ॥
उपाद्रवद्वायुवेगः सचास्तौषीज्जनार्दनम् ॥
गालवेन स्तुतो विष्णुस्तदा चक्रमचोदयत् ॥ ३३ ॥
रक्षितुं गाल वमुनिं राक्षसेन प्रपीडितम् ॥
अथागत्य हरेश्चक्रं राक्षसस्य शिरोऽहरत् ॥ ३४ ॥
ततोऽयं राक्षसं देहं त्यक्त्वा दिव्यकलेवरः ॥
विमानवरमारुह्य दुर्दमः पुष्पवर्षितः ॥ ३५ ॥
प्राञ्जलिः प्रणतो भूत्वा ववन्दे तं सुदर्शनम् ॥
तुष्टाव श्रुतिरम्याभिर्वाग्भिरग्र्याभिरादरात् ॥ ३६ ॥
॥ दुर्दम उवाच ॥।
सुदर्शन नमस्तेऽस्तु विष्णुहस्तैकभूषण ॥
नमस्तेऽसुरसंहर्त्रे सहस्रादित्यतेजसे ॥ ३७ ॥
कृपालेशेन भवतस्त्यक्त्वाहं राक्षसीं तनुम् ॥
स्वरूपमभजं विष्णोश्चक्रायुध नमोऽस्तु ते ॥ ३८ ॥
अनुजानीहि मां गन्तुं त्रिदिवं विष्णुवल्लभ ॥
भार्या मे परिशोचन्ति विरहातुरचेतसः ॥ ३९ ॥
त्वन्मनस्को भविष्यामि यावज्जीवं यथाह्यहम् ॥
तथा कृपां कुरुष्व त्वं मयि चक्र नमोऽस्तु ते ॥ 3.1.4.४० ॥
एवं स्तुतं विष्णुचक्रं दुर्दमेन सभक्तिकम् ॥
अनुजग्राह सहसा तथास्त्विति मुनीश्वराः ॥ ४१ ॥
चक्रायुधाभ्यनुज्ञातो दुर्दमो गालवं मुनिम् ॥
प्रणम्य तेनानुज्ञातो गन्धर्वस्त्रिदिवं ययौ ॥ ४२ ॥।
दुर्दमे तु गते स्वर्गं गालवो मुनिपुङ्गवः ॥
स चक्रं प्रार्थयामास विष्ण्वायुधमनुत्तमम् ॥ ४३ ॥
चक्रायुध नमामि त्वां महासुरविमर्द्दन ॥
देवीपट्टण पर्यन्ते धर्मतीर्थे ह्यनुत्तमे ॥ ४४ ॥
सन्निधानं कुरुष्व त्वं सर्वपापविनाशनम् ॥
त्वत्सन्निधानात्सर्वेषां स्नातानां पापिनामिह ॥ ४५ ॥
पापनाशं कुरुष्व त्वं मोक्षं च कुरु शाश्वतम् ॥
चक्रतीर्थमिति ख्यातिं लोकस्य परिकल्पय ॥ ४६ ॥
त्वत्सन्निधानादत्रत्यमुनीनां भयनाशनम् ॥
इतः परं भवत्वार्य चक्रायुध नमोऽस्तु ते ॥ ४७ ॥
भूतप्रेतपिशाचेभ्यो भयं मा भवतु प्रभो ॥
इति सम्प्रार्थितं चक्रं गालवेन मुनीश्वराः ॥ ४८ ॥
तथैवा स्त्विति सम्भाष्य तस्मिंस्तीर्थे तिरोहितम् ॥
॥ श्रीसूत उवाच ॥ ॥
एवं वः कथितो विप्रा राक्षसस्स भवो मया ॥ ४९ ॥
माहात्म्यं चक्र तीर्थस्य कथितं च मलापहम्॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ॥ 3.1.4.५० ॥
॥ ऋषय ऊचुः ॥ ॥
व्यासशिष्य महाप्राज्ञ सूत पौराणिकोत्तम ॥
आरभ्य दर्भशयनमादेवीपत्तनावधि ॥ ५१ ॥
बहुव्यायामसंयुक्तं चक्रतीर्थमनुत्तमम् ॥
ययौ विच्छिन्नतां मध्ये कथं कथय साम्प्रतम् ॥ ॥ ५२ ॥
एनं मनसि तिष्ठन्तं संशयं छेत्तुमर्हसि ॥
॥ श्रीसूत उवाच ॥ ॥
पुरा हि पर्वताः सर्वे जातपक्षा मनोजवाः ॥ ५३ ॥
पर्यन्तपर्वतै सार्द्धं चेरुराकाशमार्गगाः ॥
नगरेषु च राष्ट्रेषु ग्रामेषु च वनेषु च ॥ ५४ ॥
आप्लुत्याप्लुत्य तिष्ठन्ति पर्वताः सर्वतो भुवि ॥
आक्रम्याक्रम्य तिष्ठन्ति यत्रयत्र महीधराः ॥ ५५ ॥
तत्रतत्र नरा गावस्तथान्ये प्राणिसञ्चयाः ॥
मरणं सहसा प्रापुः पीड्यमाना महीधरैः ॥ ५६ ॥
ब्राह्मणादिषु वर्णेषु नष्टेषु समनन्तरम् ॥
यज्ञाद्यभावात्सहसा देवता व्यसनं ययुः ॥ ५७ ॥
तत इन्द्रो महाक्रुद्धो वज्रमादाय वेगवान् ॥
चिच्छेद सहसा पक्षान्पर्वतानां तरस्विनाम् ॥ ५८ ॥
छिद्यमानच्छदाः सर्वे वासवेन महीधराः ॥
अनन्यशरणा भूत्वा समुद्रं प्राविशन्भयात् ॥ ५९ ॥
अचलेषु च सर्वेषु पतत्सु लवणार्णवे ॥
निपेतुरर्णवभ्रान्त्या चक्रतीर्थेपि केचन ॥ 3.1.4.६० ॥
पतितैः पर्वतैस्तैस्तु मध्यतः पूरितोदरम् ॥
चक्रतीर्थं महापुण्यं मध्ये विच्छेदमाययौ ॥ ६१ ॥
यदृच्छया महाशैलाः पार्श्वयोस्तत्र नापतन् ॥
अतो वै दर्भशयने तथा देवीपुरेऽपि च ॥ ६२ ॥
विच्छिन्नमध्यं तद्द्वेधा विभक्तमिव दृश्यते ॥
मध्यतः पतितैः शैलैश्चक्रतीर्थं स्थलीकृतम् ॥६३॥
॥ श्रीसूत उवाच ॥ ॥
युष्माकमेवं कथितं मुनीन्द्रा यन्मध्यतस्तीर्थमिदं स्थली कृतम् ॥
यथा महीध्राः सहसा बिडौजसा विच्छिन्नपक्षा इह पेतुरुन्नताः ॥ ६४ ॥ ॥
इति श्रीस्कान्देमहापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये दुर्दमगन्धर्वशापमोचनन्नाम चतुर्थोऽध्यायः ॥ ४ ॥