००३ चक्रतीर्थप्रथावर्णनम्

॥ ऋषय ऊचुः ॥ ॥
चतुर्विंशतितीर्थानि यान्युक्तानि त्वया मुने ॥
तेषां प्रधानतीर्थानां सेतौ पापविनाशने ॥ १ ॥
आदिमस्य तु तीर्थस्य चक्रतीर्थमिति प्रथा ॥
कथं समागता सूत वदास्माकं हि पृच्छताम् ॥ २ ॥
॥ श्रीसूत उवाच ॥ ॥
चतुर्विंशतितीर्थानां प्रधानानां द्विजोत्तमाः ॥
यदुक्तमादिमं तीर्थं सर्वलोकेषु विश्रुतम् ॥ ॥ ३ ॥
स्मरणात्तस्य तीर्थस्य गर्भवासो न विद्यते ॥
विलयं यान्ति पापानि लक्षजन्मकृतान्यपि ॥ ४ ॥
तस्मिंस्तीर्थे सकृत्स्नाना त्स्मरणात्कीर्तनादपि ॥
लोके ततोधिकं तीर्थं तत्तुल्यं वा द्विजोत्तमाः ॥ ५ ॥
न विद्यते मुनिश्रेष्ठाः सत्यमुक्तमिदं मया ॥
गङ्गा सरस्वती रेवा पम्पा गोदावरी नदी ॥ ६ ॥
कालिन्दी चैव कावेरी नर्मदा मणिकर्णिका ॥
अन्यानि यानि तीर्थानि नद्यः पुण्या महीतले ॥ ॥ ७ ॥
अस्य तीर्थस्य विप्रेन्द्राः कोट्यंशेनापि नो समाः ॥
धर्मतीर्थमिति प्राहुस्तत्तीर्थं हि पुराविदः ॥ ८ ॥
यथा समागता तस्य चक्रतीर्थमिति प्रथा ॥
तदिदानीं प्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः ॥ ९ ॥
सेतुमूलं हि तत्प्रोक्तं तद्दर्भशयनं मतम् ॥
तत्रैव चक्रतीर्थं तु महापातकमर्द्दनम् ॥ ॥3.1.3.१०॥।
पुरा हि गालवोनाम मुनिर्विष्णुपरायणः ॥
दक्षिणाम्भोनिधेस्तीरे हालास्यादविदूरतः ॥११॥
फुल्लग्रामसमीपे च तथा क्षीरसरोन्तिके ॥
धर्म पुष्करिणीतीरे सोऽतप्यत महत्तपः ॥ १२ ॥
युगानामयुतं ब्रह्म गृणन्विप्राः सनातनम्॥
दयायुक्तो निराहारः सत्यवान्विजितेन्द्रियः ॥१३॥
आत्मवत्सर्वभूतानि पश्यन्विषयनिःस्पृहः ॥
सर्वभूतहितो दान्तः सर्वद्वन्द्वविवर्जितः ॥ १४ ॥
वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोऽभवत ॥
किञ्चित्कालं जलाहारो वायुभक्षः कियत्समाः ॥ १५ ॥
एवं पञ्चसहस्राणि वर्षाणि स महामुनिः ॥
अतप्यत तपो घोरं देवैरपि सुदुष्करम् ॥ १६ ॥।
ततः पञ्चसहस्राणि वर्षाणि मुनिपुङ्गवः ॥
निराहारो निरालोको निरुच्छ्वासो निरास्पदः ॥ १७ ॥
वर्षास्वासारसहनं हेमन्तेषु जलेशयः॥
ग्रीष्मे पञ्चाग्निमध्यस्थो विष्णुध्यानपरायणः॥ १८ ॥
जपन्नष्टाक्षरं मन्त्रं ध्यायन्हृदि जनार्दनम्॥
तताप सुमहातेजा गालवो मुनिपुङ्गवः ॥ १९ ॥
एवं त्वयुतव वर्षाणि स समतीतानि वै मुनेः॥
अथ तत्तपसा तुष्टो भगवान्कमलापतिः॥3.1.3.२०॥।
प्रत्यक्षतामगात्तस्य शङ्खचक्रगदाधरः॥
विकचाम्बुजपत्राक्षः सूर्यकोटिसमप्रभः॥२१॥
विनतानन्दनारूढश्छत्रचामरशोभितः॥
हारकेयूरमुकुटकटकादिविभूषितः॥२२॥
विष्वक्सेनसुनन्दादिकिङ्करैः परिवारितः ॥
वीणावेणुमृदङ्गादिवादकैर्नारदादिभिः ॥ २३ ॥
उपगीयमानविजयः पीताम्बरविराजितः ॥
लक्ष्मीविराजितोरस्को नीलमेघसमच्छविः॥ ॥ २४ ॥
धुनानः पद्ममेकेन पाणिना मधुसूदनः ॥
सनकादिमहायोगिसेवितः पार्श्वयोर्द्वयोः ॥ २५ ॥
मन्दस्मितेन सकलं मोहयन्भुवनत्रयम् ॥
स्वभासा भासयन्सर्वान्दिशो दश च भूसुराः ॥ २६ ॥
कण्ठलग्रेन मणिना कौस्तुभेन च शोभितः ॥
सुवर्णवेत्रहस्तैश्च सौविदल्लैरनेकशः ॥ ॥ २७ ॥
अनन्यदुर्लभाचिन्त्यगीयमाननिजाद्भुतः ॥
सुभक्तसुलभो देवो लक्ष्मीकान्तो हरिः स्वयम् ॥ २८ ॥
सन्न्यधत्त पुरस्तस्य गालवस्य महामुनेः ॥
आविर्भूतं तदा दृष्ट्वा श्रीवत्साङ्कितवक्षसम् ॥ २९ ॥
पीताम्बरधरं देवं तुष्टिं प्राप महामुनिः ॥
भक्त्या परमया युक्तस्तुष्टाव जगदीश्वरम्॥ ॥3.1.3.३०।
॥ गालव उवाच ॥
नमो देवादिदेवाय शङ्खचक्रगदाभृते ॥
नमो नित्याय शुद्धाय सच्चिदानन्दरूपिणे ॥३१॥
नमो भक्तार्ति हन्त्रे ते हव्यकव्यस्वरूपिणे॥
नमस्त्रिमूर्तये तुभ्यं सृष्टिस्थित्यन्तकारिणे॥३२॥
नमः परेशाय नमो विभूम्ने नमोस्तु लक्ष्मीपतये विधात्रे॥
नमोस्तु सूर्येन्दुविलोचनाय नमो विरिञ्च्याद्यभिवन्दिताय ॥३३॥
यो नामजात्यादिविकल्पहीनः समस्तदोषैरपि वर्जितो यः ॥
स्रमस्तसंसारभयापहारिणे तस्मै नमो दैत्यविनाशनाय ॥ ३४ ॥
वेदान्तवेद्याय रमेश्वराय वैकुण्ठवासाय विधातृपित्रे ॥
नमोनमः सत्यजनार्तिहारिणे नारायणायामितविक्रमाय॥ ३५॥
नमस्तुभ्यं भग वते वासुदेवाय शार्ङ्गिणे ॥
भूयोभूयो नमस्तुभ्यं शेषपर्यङ्कशायिने ॥ ३६ ॥
इति स्तुत्वा हरिं विप्रास्तूष्णीमास्ते स गालवः ॥
श्रुत्वा स्तुतिं श्रुति सुखां हरिस्तस्यमहात्मनः ॥ ३७ ॥
अवाप परमं तोषं शङ्खचक्रगदाधरः ॥
अथालिङ्ग्य मुनिं शौरिश्चतुर्भिर्बाहुभिस्तदा ॥ ३८ ॥
बभाषे प्रीतिसं युक्तो वरो वै व्रियतामिति ॥
तुष्टोऽस्मि तपसा तेऽद्य स्तोत्रेणापि च गालव ॥ ३९ ॥
नमस्कारेण च प्रीतो वरदोऽहं तवागतः ॥
॥ गालव उवाच ॥ ॥
नारायण रमानाथ पीताम्बर जगन्मय ॥ 3.1.3.४० ॥
जनार्दन जगद्धामन्गोविन्द नरकान्तक ॥
त्वद्दर्शनात्कृतार्थोऽस्मि सर्वस्मादधिकस्तथा ॥ ४१ ॥
त्वां न पश्यन्त्यधर्मिष्ठा यतस्त्वं धर्मपालकः ॥
यन्न वेत्ति भवो ब्रह्मा यन्न वेत्ति त्रयी तथा ॥ ४२ ॥
तं वेद्मि परमात्मानं किमस्मा दधिकं वरम्॥
योगिनो यं न पश्यन्ति यं न पश्यन्ति कर्मठाः ॥ ४३ ॥
तं पश्यामि परात्मानं किमस्मादधिकं वरम् ॥
एतेन च कृतार्थोऽस्मि जनार्दन जगत्पते ॥ ४४ ॥
यन्नामस्मृतिमात्रेण महापातकिनोऽपिच॥
मुक्तिं प्रयान्ति मुनयस्तं पश्यामि जनार्दनम्॥ ४५ ॥
त्वत्पादपद्मयुगले निश्चला भक्तिरस्तुमे ॥
॥ हरिरुवाच ॥ ॥
मयि भक्तिर्दृढा तेऽस्तु निष्कामा गालवाधुना॥ ४६ ॥
शृणु चाप्यपरं वाक्यमुच्यमानं मया मुने ॥
मदर्थं कर्म कुर्वाणो मद्ध्यानो मत्परायणः ॥४७॥
एतत्प्रारब्धदेहान्ते मत्स्वरूपमवाप्स्यसि ॥
अस्मिन्नेवाश्रमे वासं कुरुष्व मुनिपुङ्गव ॥४८॥
धर्मपुष्करिणी चेयं पुण्या पापविनाशिनी ॥
अस्यास्तीरे तपः कुर्वंस्तपःसिद्धिमवाप्नुयात् ॥ ४९ ॥
धर्मः पुरा समागत्य दक्षिणस्योदधेस्तटे ॥
तपस्तेपे महादेवं चिन्तयन्मनसा तदा ॥ 3.1.3.५० ॥
स्नानार्थमेकं तीर्थं च चक्रे धर्मो महामुने ॥
धर्मपुष्करिणी तेन प्रसिद्धा तत्कृता यतः ॥ ५१ ॥
त्वया यथा तपस्तप्तमिदानीं मुनिसत्तम ॥
तथा तप्तं तपस्तेन धर्मेण हरसेविना ॥ ५२ ॥
तपसा तस्य तुष्टः सञ्छूलपाणिर्महेश्वरः ॥
प्रादुरासीस्त्वया दीप्त्या दिशोदशविभासयन् ॥ ५३ ॥
अथाश्रममनुप्राप्तं महादेवं कृपानिधिम् ॥
धर्मः परमसन्तुष्टस्तुष्टाव परमेश्वरम्॥ ५४ ॥
॥ धर्म उवाच ॥ ॥
प्रणमामि जगन्नाथमीशानं प्रणवात्मकम् ॥
समस्तदेवतारूपमादिमध्यान्तवर्जितम् ॥ ५५ ॥
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं नमाम्य हम् ॥
समस्तजगदाधारमनन्तमजमव्ययम् ॥५६॥
यमामनन्ति योगीन्द्रास्तं वन्दे पुष्टिवर्धनम् ॥
नमो लोकाधिनाथाय वञ्चते परिवञ्चते ॥५७ ॥
नमोऽस्तु नीलकण्ठाय पशूनां पतये नमः ॥
नमः कल्मषनाशाय नमो मीढुष्टमाय च ॥ ५८ ॥
नमो रुद्राय देवाय कद्रुद्राय प्रचेतसे ॥
नमः पिनाकहस्ताय शूलहस्ताय ते नमः ॥ ५९ ॥
नमश्चैतन्यरूपाय पुष्टीनां पतये नमः ॥
नमः पञ्चास्यदेवाय क्षेत्राणां पतये नमः ॥ 3.1.3.६० ॥
इति स्तुतो महादेवः शङ्करोलोकशङ्करः ॥
धर्मस्य परमां तुष्टिमापन्नस्तमुवाच वै ॥ ६१ ॥
॥ महेश्वर उवाच ॥ ॥
प्रीतोस्म्यनेन स्तोत्रेण तव धर्म महामते ॥
वरं मत्तो वृणीष्व त्वं मा विलम्बं कुरुष्व वै ॥ ६२ ॥
ईश्वरेणैवमुक्तस्तु धर्मो देवमथाब्रवीत् ॥
वाहनं ते भविष्यामि सदाहं पार्वतीपते ॥। ॥ ६३ ॥
अयमेव वरो मह्यं दातव्यस्त्रिपुरान्तक ॥
तवोद्वहनमात्रेण कृतार्थोऽहं भवामि भोः ॥ ६४ ॥
इत्थं धर्मेण कथितो देवो धर्ममथाब्रवीत् ॥
॥ ईश्वर उवाच ॥ ॥
वाहनं भव मे धर्म सर्वदा लोकपूजितः ॥ ६५ ॥
मम चोद्वहने शक्तिरमोघा ते भविष्यति ॥
त्वत्सेविनां सदा भक्तिर्मयि स्यान्नात्र संशयः ॥ ६६ ॥
इत्युक्ते शङ्करेणाथ धर्मोपि वृषरूपधृक् ॥
उवाह परमेशानं तदाप्रभृति गालव ॥ ६७ ॥
महादेवस्तमारुह्य धर्मं वै वृषरूपिणम् ॥
शोभमानो भृशं धर्ममुवाच परमामृतम् ॥६८ ॥
॥ ईश्वर उवाच ॥
त्वया कृतं हि यत्तीर्थं दक्षिणस्योदधेस्तटे ॥
धर्मपुष्करिणीत्येषा लोके ख्याता भविष्यति ॥६९॥
अस्यास्तीरे जपोहोमो दानं स्वाध्याय एव च ॥
अन्ये च धर्मनिवहाः क्रियमाणा नरैर्मुदा ॥ 3.1.3.७॥।
अनन्तफलदा ज्ञेया नात्र कार्या विचारणा ॥
इति दत्त्वा वरं तस्मै धर्मतीर्थाय शङ्करः ॥ ७१ ॥
आरुह्य वृषभं धर्मं कैलासं पर्वतं ययौ ॥
धर्मपुष्करिणीतीरे गालव त्वमतोधुना ॥ ७२ ॥
शरीरपातपर्यन्तं तपः कुर्वन्समाहितः ॥
वस त्वं मुनि शार्दूल पश्चान्मामाप्स्यसे ध्रुवम् ॥ ७३ ॥
यदा ते जायते भीतिस्तदा तां नाशयाम्यहम् ॥
ममायुधेन चक्रेण प्रेरितेन मया क्षणात् ॥७४॥
इत्युक्त्वा भगवान्विष्णुस्तत्रैवान्तरधीयत ॥
॥ श्रीसूत उवाच ॥ ॥
तस्मिन्नन्तर्हिते विष्णौ गालवो मुनिपुङ्गवः ॥७५॥
धर्मपुष्करिणीतीरे विष्णुध्यानपरायणः ॥
त्रिकालमर्चयन्विष्णुं शालग्रामे विमुक्तिदे ॥ ७६ ॥
उवास मतिमान्धीरो विरक्तो विजितेन्द्रियः ॥
कदाचिन्माघमासे तु शुक्लपक्षे हरेर्दिने ॥ ७७ ॥
उपोष्य जागरं कृत्वा रात्रौ विष्णुमपूजयत् ॥
स्नात्वा परेद्युर्द्वादश्यां धर्मपुष्करिणीजले ॥ ७८ ॥
सन्ध्यावन्दनपूर्वाणि नित्यकर्माणि चाकरोत् ॥।
ततः पूजां विधातुं स हरेः समुपचक्रमे ॥ ७९ ॥
तुलस्यादीनि पुष्पाणि समाहृत्य च गालवः ॥
विधाय पूजां कृष्णस्य स्तोत्रमेतदुदैरयत् ॥ 3.1.3.८० ॥
॥ गालव उवाच ॥ ॥
सहस्रशिरसं विष्णुं मत्स्यरूपधरं हरिम् ॥
नमस्यामि हृषीकेशं कूर्मवाराहरूपिणम् ॥ ८१ ॥
नारसिंहं वामनाख्यं जाम दग्न्यं च राघवम् ॥
बलभद्रं च कृष्णं च कल्किं विष्णुं नमाम्यहम् ॥ ८२ ॥
वासुदेवमनाधारं प्रणतार्तिविनाशनम् ॥
आधारं सर्वभूतानां प्रणमामि जनार्दनम् ॥ ८३ ॥
सर्वज्ञं सर्वकर्तारं सच्चिदानन्दविग्रहम् ॥
अप्रतर्क्यमनिर्देश्यं प्रणतोऽस्मि जनार्दनम् ॥ ८४ ॥
एवं स्तुवन्महा योगी गालवो मुनिपुङ्गवः ॥
धर्मपुष्करिणीतीरे तस्थौ ध्यानपरायणः ॥ ८५ ॥
एतस्मिन्नन्तरे कश्चिद्राक्षसो गालवं मुनिम् ॥
आययौ भक्षितुं घोरः क्षुधया पीडितो भृशम् ॥ ८६ ॥
गालवं तरसा सोऽयं राक्षसो जगृहे तदा ॥
गृहीतस्तरसा तेन गालवो नैऋतेन सः ॥ ८७ ॥
प्रचुक्रोश दयां भोधिमापन्नानां परायणम् ॥
नारायणं चक्रपाणिं रक्षरक्षेति वै मुहुः ॥ ८८ ॥
परेश परमानन्द शरणागतपालक ॥
त्राहि मां करुणासिन्धो रक्षोवशे मुपागतम् ॥ ८९ ॥
लक्ष्मीकान्त हरे विष्णो वैकुण्ठ गरुडध्वज ॥
मां रक्ष रक्षसाक्रान्तं ग्राहाक्रान्तं गजं यथा ॥ 3.1.3.९० ॥
दामोदर जगन्नाथ हिरण्यासुर मर्द्दन ॥
प्रह्रादमिव मां रक्ष राक्षसेनातिपीडितम् ॥ ९१ ॥
इत्येवं स्तुवतस्तस्य गालवस्य द्विजोत्तमाः ॥
स्वभक्तस्य भयं ज्ञात्वा चक्रपाणिवृषा कपिः ॥ ९२ ॥
स्वचक्रं प्रेषयामास भक्तरक्षणकारणात् ॥
प्रेरितं विष्णुचक्रं तद्विष्णुना प्रभविष्णुना ॥ ९३ ॥
आजगामाथ वेगेन धर्मपुष्करिणी तटम् ॥
अनन्तादित्यसङ्काशमनन्ताग्निसमप्रभम् ॥ ९४ ॥
महाज्वालं महानादं महासुरविमर्दनम् ॥
दृष्ट्वा सुदर्शनं विष्णो राक्षसोऽथ प्रदुद्रुवे ॥ ॥ ९५ ॥
द्रवमाणस्य तस्याशु राक्षसस्य सुदर्शनम्॥
शिरश्चकर्त सहसा ज्वालामालादुरासदम् ॥ ९६ ॥
ततस्तु गालवो दृष्ट्वा राक्षसं पतितं भुवि ॥
मुदा परमया युक्तस्तुष्टाव च सुदर्शनम् ॥ ९७ ॥
॥ गालव उवाच ॥ ॥
विष्णुचक्रं नमस्तेस्तु विश्वरक्षणदीक्षित ॥
नारायणकराम्भोजभूषणाय नमोऽस्तु ते ॥ ९८ ॥
युद्धेष्वसुरसंहारकुशलाय महारव ॥
सुदर्शन नमस्तुभ्यं भक्तानामार्तिनाशिने ॥ ९९ ॥
रक्ष मां भयसंविग्नं सर्वस्मादपि कल्मषात् ॥
स्वामिन्सुदर्शन विभो धर्मर्तीर्थे सदा भवान् ॥ 3.1.3.१०० ॥
सन्निधेहि हिताय त्वं जगतो मुक्तिकाङ्क्षिणः ॥
गालवेनैवमुक्तं तद्विष्णुचक्रं मुनीश्वराः ॥
तं प्राह गालवमुनिं प्रीणयन्निव सौहृदात् ॥ १०१ ॥
॥ सुदर्शन उवाच ॥ ॥
गालवैतन्महापुण्यं धर्मतोर्थमनुत्तमम् ॥ १०२ ॥
अस्मिन्वसामि सततं लोकानां हितकाम्यया॥
त्वत्पीडां परिचिन्त्याह राक्षसेन दुरात्मना ॥१०३॥
प्रेरितो विष्णुना विप्र त्वरया समुपागतः॥
त्वत्पीडकोथ निहतो मयायं राक्षसाधमः ॥१०४॥
मोचितस्त्वं भयादस्मात्त्वं हि भक्तो हरेः सदा ॥
पुष्करिण्यामहं त्वस्यां धर्मस्य मुनिपुङ्गव ॥१०५॥
सततं लोकरक्षार्थं सन्निधानं करोमि वै ॥
अस्यां मत्सन्निधानात्ते तथान्येषामपि द्विज ॥१०६॥
इतः परं न पीडा स्याद्भूतराक्षससम्भवा ॥
धर्मपुष्करिणी ह्येषा सर्वपापविनाशिनी ॥ १०७ ॥
देवीपट्टणपर्यन्ता कृता धर्मेण वै पुरा ॥
अत्र सर्वत्र वत्स्यामि सर्वदा मुनिपुङ्गव ॥ १०८ ॥
अस्या मत्सन्निधा नात्स्याच्चक्रतीर्थमिति प्रथा॥
स्नानं येऽत्र प्रकुर्वन्ति चक्रतीर्थे विमुक्तिदे ॥ १०९. ॥
तेषां पुत्राश्च पौत्राश्च वंशजाः सर्व एव हि ॥
विधूतपापा यास्यन्ति तद्विष्णोः परमं पदम् ॥ 3.1.3.११० ॥
पितॄनुद्दिश्य पिण्डानां दातारो येऽत्र गालव ॥
स्वर्गं प्रयान्ति ते सर्वे पितरश्चापि तर्प्पिताः ॥ १११ ॥
इत्युक्त्वा विष्णुचक्रं तद्गालवस्यापि पश्यतः॥
अन्येषामपि विप्राणां पश्यतां सहसा द्विजाः ॥ ११२ ॥
धर्मापुष्कारिणीं तां तु प्राविशत्पापनाशिनीम् ॥
श्रीसूत उवाच॥
धर्मतीर्थस्य विप्रन्द्राश्चक्रतीर्थमिति प्रथा॥११३॥
प्राप्ता यथा तत्कथितं युष्माकं हि मया मुदा॥
चक्रतीर्थसमं तीर्थं न भूतं न भविष्यति॥११४॥
अत्र स्नाता नरा विप्रा मोक्षभाजो न संशयः॥
कीर्तयेदिममध्यायं शृणुयाद्वा समाहितः॥
चक्र तीर्थाभिषेकस्य प्राप्नोति फलमुत्तमम् ॥
इह लोके सुखं प्राप्य परत्रापिसुखं लभेत् ॥ ११६ ॥
यो धर्मतीर्थं च तथैव गालवं कुर्वाणगत्युग्रसमाधियो गम् ॥
सुदर्शनं राक्षसनाशनं च स्मरेत्सकृद्वा न स पापभाग्जनः ॥ ११७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे. सेतुमाहात्म्ये गालवाख्याने धर्मतीर्थस्य चक्रतीर्थप्रथावर्णनन्नाम तृतीयो ऽध्यायः ॥ ३ ॥