॥ ऋषय ऊचुः ॥ ॥
कथं सूत महाभाग रामेणाक्लिष्टकर्मणा ॥
सेतुर्बद्धो नदीनाथे ह्यगाधे वरुणालये ॥१॥
सेतौ च कति तीर्थानि गन्धमादनपर्वते ॥
एतन्नः श्रद्दधानानां ब्रूहि पौराणिकोत्तम ॥ २ ॥
॥ श्रीसूत उवाच ॥ ॥
रामेण हि यथासेतुर्निबद्धो वरुणालये ॥
तदहं सम्प्रवक्ष्यामि युष्माकं मुनिपुङ्गवाः ॥ ३ ॥
आज्ञया हि पितू रामो न्यवसद्दण्डकानने॥
सीतालक्ष्मणसंयुक्तः पञ्चवट्यां समाहितः॥ ४ ॥
तस्मिन्निव सतस्तस्य राघवस्य महात्मनः ॥
रावणेन हृता भार्या मारीचच्छद्मना द्विजाः ॥५ ॥
मार्गमाणो वने भार्यां रामो दशरथात्मजः॥
पम्पातीरे जगा मासौ शोकमोहसमन्वितः ॥६॥
दृष्टवान्वानरं तत्र कञ्चिद्दशरथात्मजः ॥
वानरेणाथ पृष्टोऽयं को भवानिति राघवः ॥ ७ ॥
आदितः स्वस्य वृत्तान्त्तं तस्मै प्रोवाच तत्त्वतः ॥
अथ राघवसम्पृष्टो वानरः को भवानिति ॥ ८ ॥
सोपि विज्ञापयामास राघवाय महात्मने ॥
अहं सुग्रीवसचिवो हनूमा न्नाम वानरः ॥ ९ ॥
तेन च प्रेरितोऽभ्यागां युवाभ्यां सख्यमिच्छता ॥
आगच्छतं तद्भद्रं वां सुग्रीवान्तिकमाशु वै ॥ 3.1.2.१० ॥
तथास्त्विति स रामो पि तेन साकं मुनीश्वराः ॥
सुग्रीवान्तिकमागप्य सख्यं चक्रेऽग्निसाक्षिकम् ॥ ११ ॥
प्रतिजज्ञेऽथ रामोऽपि तस्मै वालिवधं प्रति ॥
सुग्रीवश्चापि वै देह्याः पुनरानयनं द्विजाः ॥ १२ ॥
इत्येवं समयं कृत्वा विश्वास्य च परस्परम् ॥
मुदा परमया युक्तौ नरेश्वरकपीश्वरौ ॥१३॥
आसाते ब्राह्मणश्रेष्ठा ऋष्यमूकगिरौ तथा ॥
सुग्रीवप्रत्ययार्थं च दुन्दुभेः कायमाशु वै॥ १४ ॥
पादाङ्गुष्ठेन चिक्षेप राघवो बहुयोजनम् ॥
सप्तताला विनिर्भिन्ना राघवेण महात्मना ॥ १५ ॥
ततः प्रीतमना वीरः सुग्रीवो राममब्रवीत् ॥
इन्द्रादिदेवताभ्योऽपि नास्ति राघव मे भयम्॥ १६ ॥
भवान्मित्रं मया लब्धो यस्मादति पराक्रमः ॥
अहं लङ्केश्वरं हत्वा भार्यामानयितास्मि ते ॥ १७ ॥
ततः सुग्रीवसहितो रामचन्द्रो महाबलः ॥
सलक्ष्मणो ययौ तूर्णं किष्किन्धां वालिपालिताम् ॥ १८ ॥
ततो जगर्ज सुग्रीवो वाल्यागमनकाङ्क्षया ॥
अमृष्यमाणो वाली च गर्जितं स्वानुजस्य वै॥ ॥ १९ ॥
अन्तःपुराद्विनिष्क्रम्य युयुधेऽवरजेन सः ॥
वालिमुष्टिप्रहारेण ताडितो भृशविह्वलः ॥ 3.1.2.२० ॥
सुग्रीवो निर्गतस्तूर्णं यत्र रामो महाबलः ॥
ततो रामो महाबाहुस्सुग्रीवस्य शिरोधरे ॥ २१ ॥
लतामाबध्य चिह्नं तु युद्धायाचोदयत्तदा ॥
गर्जितेन समाहूय सुग्रीवो वालिनं पुनः ॥ २२ ॥
रामप्रेरणया तेन बाहुयुद्धमथाकरोत् ॥
ततो वालिनमाजघ्ने शरेणैकेन राघवः ॥ २३ ॥
हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत ॥
ततो वर्षास्वतीतासु सुग्रीवो वानराधिपः ॥ २४ ॥
सीतामानयितुं तूर्णं वानराणां महाचमूम् ॥
समादाय समागच्छदन्तिकं नृपपुत्रयोः ॥ २५ ॥
प्रस्थापयामास कपीन्सीतान्वेषणकाङ्क्षया ॥
विदितायां तु वैदेह्या लङ्कायां वायुसूनुना ॥ २६ ॥
दत्ते चूडामणौ चापि राघवो हर्षशोकवान्॥
सुग्रीवेणानुजेनापि वायुपुत्रेण धीमता ॥ २७ ॥
तथान्यैः कपिभिश्चैव जाम्बवन्नलमुख्यकैः ॥
अन्वीयमानो रामोऽसौ मुहूर्तेऽभिजिति द्विजाः ॥२८॥
विलङ्घ्य विविधा न्देशान्महेन्द्रं पर्वतं ययौ ॥
चक्रतीर्थं ततो गत्वा निवासमकरोत्तदा ॥ २९ ॥
तत्रैव तु स धर्मात्मा समागच्छद्विभीषणः ॥
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ॥ 3.1.2.३० ॥
प्रतिजग्राह रामस्तं स्वागतेन महात्मना ॥
सुग्रीवस्य तु शङ्काऽभूत्प्रणिधिः स्यादयं त्विति ॥ ३१ ॥
राघवस्तस्य चेष्टाभिः सम्यक्स्वचरितैर्हितैः ॥
अदुष्टमेनं दृष्ट्वैव तत एनमपूजयत् ॥ ३२ ॥
सर्वराक्षसराज्ये तमभ्यषिञ्चद्विभीषणम् ॥
चक्रे च मन्त्रिप्रवरं सदृशं रविसूनुना ॥ ३३ ॥
चक्रतीर्थं समासाद्य निवसद्रघुनन्दनः ॥
चिन्तयन्राघवः श्रीमान्सुग्रीवादीनभाषत ॥ ३४ ॥
मध्ये वानरमु ख्यानां प्राप्तकालमिदं वचः ॥
उपायः को नु भवतामेतत्सागरलङ्घने ॥ ३५ ॥
इयं च महती सेना सागरश्चापि दुस्तरः ॥
अम्भोराशिरयं नीलश्चञ्चलोर्म्मिसमाकुलः ॥ ३६ ॥
उद्यन्मत्स्यो महानक्रशङ्खशुक्तिसमाकुलः ॥
क्वचिदौर्वानलाक्रान्तः फेनवानतिभीषणः ॥ ॥ ३७ ॥
प्रकृष्टपवनाकृष्टनीलमेघसमन्वितः ॥
प्रलयाम्भोधरारावः सारवाननिलोद्धतः ॥ ३८ ॥
कथं सागरमक्षोभ्यं तरामो वरुणा लयम् ॥
सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ॥ ३९ ॥
उपायैरधिगच्छामो यथा नदनदीपतिम् ॥
कथं तरामः सहसा ससैन्या वरुणालयम् ॥ 3.1.2.४० ॥
शतयोजनमायातं मनसापि दुरासदम् ॥
अतो नु विघ्ना बहवः कथं प्राप्या च मैथिली ॥ ४१ ॥
कष्टात्कष्टतरं प्राप्ता वयमद्य निराश्रयाः ॥
महाजले महावाते समुद्रे हि निराश्रये ॥ ४२ ॥
उपायं कं विधास्यामस्तरणार्थं वनौकसाम् ॥
राज्याद्भ्रष्टो वनं प्राप्तो हृता सीता मृतः पिता ॥ ४३ ॥
इतोऽपि दुःसहं दुःखं यत्सागरविलङ्घनम् ॥
धिग्धिग्गर्जितमम्भोधे धिगेतां वारिराशिताम् ॥ ४४ ॥
कथं तद्वचनं मिथ्या महर्षेः कुम्भजन्मनः ॥
हत्वा त्वं रावणं पापं पवित्रे गन्धमादने ॥
पापोपशमनायाशु गच्छस्वेति यदीरितम् ॥४५॥
॥ श्रीसूत उवाच ॥ ॥
इति रामवचः श्रुत्वा सुग्रीवप्रमुखास्तदा ॥ ४६ ॥
ऊचुः प्राञ्जलयः संर्मे राघवं तं महाबलम् ॥
नौभिरेनं तरिष्यामः प्लवैश्च विविधैरिति ॥ ४७ ॥
मध्ये वानरकोटीनां तदोवाच विभीषणः ॥
समुद्रं राघवो राजा शरणं गन्तुमर्हति ॥ ४८ ॥
खनितः सागरैरेष समुद्रो वरुणालयः ॥
कर्तुमर्हति रामस्य तज्ज्ञातेः कार्यमम्बुधिः ॥ ४९ ॥
विभीषणेनैवमुक्तो राक्षसेन विपश्चिता ॥
सान्त्वयन्राघवः सर्वान्वानरानिदमब्रवीत् ॥ 3.1.2.५० ॥
शतयोजन विस्तारमशक्ताः सर्ववानराः ॥
तर्तुं प्लवोडुपैरेनं समुद्रमतिभीषणम् ॥ ५१ ॥
नावो न सन्ति सेनाया बह्व्या वानरपुङ्गवाः ॥
वणिजामुपघातं च कथमस्मद्विधश्चरेत् ॥ ५२ ॥
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वा परः ॥
प्लवोडुपप्रतारोऽतो नैवात्र मम रोचते ॥ ५३ ॥
विभीषेणोक्तमे वेदं मोदते मम वानराः ॥
अहं त्विमं जलनिधिमुपास्ये मार्गसिद्धये ॥ ५४ ॥
नो चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं तदा ॥
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ॥ ५५ ॥
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः ॥
प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे ॥ ५६ ॥
तदा रामः कुशा स्तीर्णे तीरे नदनदीपतेः ॥
संविवेश महाबाहुर्वेद्यामिव हुताशनः ॥ ५७ ॥
शेषभोगनिभं बाहुमुपधाय रघूद्वहः ॥
दक्षिणो दक्षिणं बाहुमुपास्ते मकरालयम् ॥ ५८ ॥
तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले ॥
नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः ॥ ५९ ॥
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मतत्परः ॥
उपास्तेस्म तदा रामः सागरं मार्गसिद्धये ॥ 3.1.2.६० ॥
न च दर्शयते मन्दस्तदा रामस्य सागरः ॥
प्रयतेनापि रामेण यथार्हमपि पूजितः ॥ ६१ ॥
तथापि सागरो रामं न दर्शयति चात्मनः ॥
समुद्राय ततः क्रुद्धो रामो रक्तान्तलोचनः ॥ ६२ ॥
समीपवर्तिनं चेदं लक्ष्मणं प्रत्यभाषत ॥
अद्य मद्बाणनिर्भिन्नैर्मकरैर्वरुणालयम् ॥ ६३ ॥
निरुद्धतोयं सौमित्रे करिष्यामि क्षणादहम् ॥
सशङ्खशुक्ताजालं हि समीनमकरं शनैः ॥ ६४ ॥
अद्य बाणैरमोघास्त्रैर्वारिधिं परिशोषये ॥
क्षमया हि समायुक्तं मामयं मकरालयः ॥ ६९ ॥
असमर्थं विजानाति धिक्क्षमामीदृशे जने ॥
न दर्शयति साम्ना मे सागरो रूपमात्मनः ॥ ६६ ॥
चापमानय सौमित्रे शरांश्चाशीविषोपमान्॥
सागरं शोषयिष्यामि पद्भ्यां यान्तु प्लवङ्गमाः ॥ ६७ ॥
एनं लङ्घितमर्यादं सहस्रोर्मिसमाकुलम् ॥
निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् ॥ ६८ ॥
महार्णवं शोषयिष्ये महादानवसङ्कुलम् ॥
महामकरनक्राढ्यं महावीचिसमाकुलम् ॥ ६९ ॥
एवमुक्त्वा धनुष्पाणिः क्रोधपर्याकुलेक्षणः ॥
रामो बभूव दुर्धर्षस्त्रिपुरघ्नो यथा शिवः ॥ 3.1.2.७० ॥
आकृष्य चापं कोपेन कम्पयित्वा शरैर्जगत् ॥
मुमोच विशिखानुग्रांस्त्रिपुरेषु यथा भवः ॥ ७१ ॥
दीप्ता बाणाश्च ये घोरा भासयन्तो दिशो दश ॥
प्राविशन्वारिधेस्तोयं दृप्तदानवसङ्कुलम् ॥७२॥
समुद्रस्तु ततो भीतो वेपमानः कृताञ्जलिः ॥
अनन्यशरणो विप्राः पाता लात्स्वयमुत्थितः॥७३॥
शरणं राघवं भेजे कैवल्यपदकारणम् ॥
तुष्टाव राघवं विप्रा भूत्वा शब्दैर्मनोरमैः ॥ ७४ ॥
॥ समुद्र उवाच॥ ॥
नमामि ते राघव पादपङ्कजं सीतापते सौख्यद पादसेवनात् ॥
नमामि ते गौतमदारमोक्षजं श्रीपादरेणुं सुरवृन्दसेव्यम्॥७६॥
सुन्दप्रियादेहविदारिणे नमो नमोस्तु ते कौशिकयागरक्षिणे ॥
नमो महादेवशरासभेदिने नमो नमो राक्षससङ्घनाशिने ॥ ७६ ॥
रामराम नमस्यामि भक्तानामिष्टदायिनम् ॥
अवतीर्णो रघुकुले देवकार्यचिकीर्षया ॥ ७७ ॥
नारायणमनाद्यन्तं मोक्षदं शिवमच्युतम् ॥
रामराम महाबाहो रक्ष मां शरणागतम् ॥ ७८ ॥
कोपं संहर राजेन्द्र क्षमस्व करुणालय ॥
भूमिर्वातो वियच्चापो ज्योतींषि च रघूद्वह ॥ ७९ ॥
यत्स्वभावानि सृष्टानि ब्रह्मणा परमेष्ठिना ॥
वर्तन्ते तत्स्वभा वानि स्वभावो मे ह्यगाधता ॥ 3.1.2.८० ॥
विकारस्तु भवेद्गाध एतत्सत्यं वदाम्यहम् ॥
लोभात्कामाद्भयाद्वापि रागाद्वापि रघूद्वह ॥ ८१ ॥
न वंशजं गुणं हातुमुत्सहेयं कथञ्चन ॥
तत्करिष्ये च साहाय्यं सेनायास्तरणे तव ॥ ८२ ॥
इत्युक्तवन्तं जलधिं रामोऽवादीन्नदीपतिम् ॥
ससैन्योऽहं गमि ष्यामि लङ्कां रावणपालिताम् ॥ ८३ ॥
तच्छोषमुपयाहि त्वं तरणार्थं ममाधुना ॥
इत्युक्तस्तं पुनः प्राह राघवं वरुणालयः ॥ ८४ ॥
शृणुष्वाव हितो राम श्रुत्वा कर्तव्यमाचर ॥
यद्याज्ञया ते शुष्यामि ससैन्यस्य यियासतः ॥८५॥
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात् ॥
उपायमन्यं वक्ष्यामि तरणार्थं बलस्य ते ॥ ८१६ ॥
अस्ति ह्यत्र नलोनाम वानरः शिल्पिसम्मतः ॥
त्वष्टुः काकुत्स्थ तनयो बलवान्विश्वकर्मणः ॥ ८७ ॥
स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि ॥
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ॥ ८८ ॥
सेतुना तेन गच्छ त्वं लङ्कां रावणपालि ताम् ॥
उक्त्वेत्यन्तर्हिते तस्मिन्रामो नलमुवाच ह ॥ ८९ ॥
कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि महामते ॥
तदाऽब्रवीन्नलो वाक्यं रामं धर्मभृतां वरम् ॥ 3.1.2.९० ॥
अहं सेतुं विधास्यामि ह्यगाधे वरुणालये ॥
पित्रा दत्तवरश्चाहं सामर्थ्ये चापि तत्समः ॥ ९१ ॥
मातुर्मम वरो दत्तो मन्दरे विश्वक र्मणा ॥
शिल्पकर्मणि मत्तुल्यो भविता ते सुतस्त्विति ॥ ९२ ॥
पुत्रोऽहमौरसस्तस्य तुल्यो वै विश्वकर्मणा ॥
अद्यैव कामं बध्नन्तु सेतुं वानरपुं गवाः ॥ ९३ ॥
ततो रामनिसृष्टास्ते वानरा बलवत्तराः ॥
पर्वतान्गिरिशृङ्गाणि लतातृणमहीरुहान् ॥ ९४ ॥
समाजह्रुर्महाकाया गरुडानिलरंहसः ॥
नलश्चक्रे महासेर्तुमध्ये नदनदीपतेः ॥ ९५ ॥
दशयोजनविस्तीर्णं शतयोजनमायतम् ॥
जानकीरमणो रामः सेतुमेवमकारयत् ॥ ९६ ॥।
नलेन वानरेन्द्रेण विश्वकर्मसुतेन वै ॥
तमेवं सेतुमासाद्य रामचन्द्रेण कारितम् ॥ ९७ ॥
सर्वे पातकिनो मर्त्या मुच्यन्ते सर्वपातकैः ॥
व्रतदान तपोहोमैर्न तथा तुष्यते शिवः ॥ ९८ ॥
सेतुमज्जनमात्रेण यथा तुष्यति शङ्करः ॥
न तुल्यं विद्यते तेजोयथा सौरेण तेजसा ॥ ९९ ॥
सेतुस्नानेन च तथा न तुल्यं विद्यते क्वचित् ॥
तत्सेतुमूलं लङ्कायां यत्ररामो यियासया ॥ 3.1.2.१०० ॥
वानरैः सेतुमारेभे पुण्यं पाप प्रणाशनम् ॥
तद्दर्भशयनं नाम्ना पश्चाल्लोकेषु विश्रुतम् ॥ १०१॥
एवमुक्तं मया विप्राः समुद्रे सेतुबन्धनम् ॥
अत्र तीर्थान्यनेकानि सन्ति पुण्यान्यनेकशः ॥ १०२ ॥
न सङ्ख्यां नामधेयं वा शेषो गणयितुं क्षमः ॥
किं त्वहं प्रब्रवीम्यद्य तत्र तीर्थानि कानिचित् ॥ १०३ ॥
चतुर्विंशति तीर्थानि सन्ति सेतौ प्रधानतः॥
प्रथमं चकतीर्थं स्याद्वेतालवरदं ततः ॥ १०४ ॥
ततः पापविनाशार्थं तीर्थं लोकेषु विश्रुतम् ॥
ततः सीतासरः पुण्यं ततो मङ्गलतीर्थकम्॥ ॥ १०५ ॥
ततः सकलपापघ्नी नाम्ना चामृतवापिका ॥
ब्रह्मकुण्डं ततस्तीर्थं ततः कुण्डं हनूमतः ॥ १०६ ॥
आगस्त्यं हि ततस्तीर्थं रामतीर्थ मतः परम् ॥
ततो लक्ष्मणतीर्थं स्याज्जटातीर्थमतः परम् ॥ १०७ ॥
ततो लक्ष्म्याः परं तीर्थमग्नितीर्थमतः परम् ॥
चक्रतीर्थं ततः पुण्यं शिवतीर्थमतः परम् ॥ १०८ ॥
ततः शङ्खाभिधं तीर्थं ततो यामुनतीर्थकम् ॥
गङ्गातीर्थं ततः पश्चाद्गयातीर्थमनन्तरम् ॥ १०९ ॥
ततः स्यात्कोटितीर्थाख्यं साध्यानाममृतं ततः ॥
मानसाख्यं ततस्तीर्थं धनुष्कोटिस्ततः परम् ॥ 3.1.2.११० ॥
प्रधानतीर्थान्येतानि महापापहराणि च ॥
कथितानि द्विजश्रेष्ठास्सेतुमध्यगतानि वै ॥ १११ ॥
यथा सेतुश्च बद्धोऽभूद्रामेण जलधौ महान् ॥
कथितं तच्च विप्रेन्द्राः पुण्यं पापहारं तथा ॥ ११२ ॥
यच्छ्रुत्वा च पठित्वा च मुच्यते मानवो भुवि ॥ ११३ ॥
अध्यायमेनं पठते मनुष्यः शृणोति वा भक्तियुतो द्विजेन्द्राः ॥
सो नन्तमाप्नोति जयं परत्र पुनर्भवक्लेशमसौ न गच्छेत् ॥ ११४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सेतुनिर्माणादिवर्णनन्नाम द्वितीयोऽध्यायः ॥ २ ॥ ॥