००१ सेतुगमनफलादिवर्णनम्

अथ ब्राह्मखण्डे प्रथमं सेतुमाहात्म्यम् ॥ ( ३-१) ॥

॥श्रीगणेशाय नमः ॥
श्रीवेदव्यासायनमः ॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ॥
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये॥१ ॥
नैमिषारण्यनिलया ऋषयः शौनकादयः ॥
अष्टाङ्गयोगनिरता ब्रह्मज्ञानैकतत्पराः ॥ १ ॥
मुमुक्षवो महात्मानो निर्ममा ब्रह्मवादिनः ॥
धर्मज्ञा अनसूयाश्च सत्यवतपरायणाः ॥ २ ॥
जितेन्द्रिया जितक्रोधाः सर्वभूतदयालवः ॥
भक्त्या परमया विष्णुमर्चयन्तः सनातनम् ॥३ ॥
तपस्तेपुर्महापुण्ये नैमिषे मुक्तिदायिनि ॥
एकदा ते महात्मानः समाजं चक्रुरुत्तमम्॥ ४ ॥
कथयन्तो महापुण्याः कथाः पापप्रणाशिनी ॥
भुक्तिमुक्त्योरुपायं च जिज्ञासन्तः परस्परम् ॥ ५ ॥
षड्विंशतिसहस्राणामृषीणां भावितात्मनाम् ॥
तेषां शिष्यप्रशिष्याणां सङ्ख्या कर्तुं न शक्यते॥ ६ ॥
अत्रान्तरे महाविद्वान्व्यासशिष्यो महामुनिः ॥
आगमन्नैमिषारण्यं सूतः पौराणिकोत्तमः ॥ ७ ॥
तमागतं मुनिं दृष्ट्वा ज्वलन्तमिव पावकम् ॥
अर्घ्याद्यैः पूजयामासुर्मुनयः। शौनकादयः ॥ ८ ॥
सुखोपविष्टं तं सूतमासने परमे शुभे ॥
पप्रच्छुः परमं गुह्यं लोकानुग्रहकाङ्क्षया ॥ ९ ॥
सूत धर्मार्थतत्त्वज्ञ स्वागतं मुनिपुङ्गव ॥
श्रुतवांस्त्वं पुराणानि व्यासात्सत्यवतीसुतात् ॥ 3.1.1.१० ॥
अतः सर्वपुराणानामर्थज्ञोऽसि महामुने ॥
कानि क्षेत्राणि पुण्यानि कानि तीर्थानि भूतले ॥ ११ ॥
कथं वा लप्स्यते मुक्तिर्जीवानां भवसागरात् ॥
कथं हरे हरौ वापि नृणां भक्तिः प्रजायते ॥ १२ ॥
केन सिध्येत च फलं कर्मणास्त्रिविधा त्मनः ॥
एतच्चान्यच्च तत्सर्वं कृपया वद सूतज ॥ १३ ॥
ब्रूयुः स्निग्धाय शिष्याय गुरवो गुह्यमप्युत ॥
इति पृष्टस्तदा सूतो नैमिषारण्यवासिभिः ॥ ॥ १४ ॥
वक्तुं प्रचक्रमे नत्वा व्यासं स्वगुरुमादितः ॥
श्रीसूत उवाच ॥ ॥
सम्यक्पृष्टमिदं विप्रा युष्माभिर्जगतो हितम् ॥ १५ ॥
रहस्यमे तद्युष्माकं वक्ष्यामि शृणुतादरात् ॥
मया नोक्तमिदं पूर्वं कस्यापि मुनिपुङ्गवाः ॥ १६ ॥
मनो नियम्य विप्रेन्द्राः शृणुध्वं भक्तिपूर्वकम् ॥
अस्ति रामेश्वरं नाम रामसेतौ पवित्रितम् ॥ १७ ॥
क्षेत्राणामपि सर्वेषां तीर्थानामपि चोत्तमम् ॥
दृष्टमात्रे रामसेतौ मुक्तिः संसारसागरात् ॥ १८ ॥
हरे हरौ च भक्तिः स्यात्तथा पुण्यसमृद्धिता ॥
कर्मणस्त्रिविधस्यापि सिद्धिः स्यान्नात्र संशयः ॥ १९ ॥
यो नरो जन्ममध्ये तु सेतुं भक्त्यावलोकयेत् ॥
तस्य पुण्यफलं वक्ष्ये शृणुध्वं मुनिपुङ्गवाः ॥3.1.1.२० ॥
मातृतः पितृतश्चैव द्विकोटिकुलसंयुतः ॥
निर्विश्य शम्भुना कल्पं ततो मोक्षं समश्नुते॥ २१ ॥
गण्यन्ते पांसवो भूमेर्गण्यन्ते दिवि तारकाः ॥
सेतुदर्शनजं पुण्यं शेषेणापि न गण्यते ॥ २२ ॥
समस्तदेवतारूपः सेतुवन्धः प्रकीर्तितः ॥
तद्दर्शनवतः पुंसः कः पुण्यं गणितुं क्षमः ॥ २३ ॥
सेतुं दृष्ट्वा नरो विप्राः सर्वयागकरः स्मृतः ॥
स्नातश्च सर्वतीर्थेषु तपोऽतप्यत चाखिलम् ॥२४॥ Esoteric aspect of setu
सेतुं गच्छेति यो ब्रूयाद्यं कं वापि नरं द्विजाः ॥
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषणः ॥ २५ ॥
सेतुस्नानकरो मर्त्यः सप्तकोटिकुलान्वितः ॥
सम्प्राप्य विष्णुभवनं तत्रैव परिमुच्यते ॥ २६ ॥
सेतुं रामेश्वरं लिङ्गं गन्धमादनपर्वतम् ॥
चिन्तयन्मनुजः सत्यं सर्वपापैः प्रमुच्यते ॥ २७ ॥
मातृतः पितृतश्चैव लक्षकोटिकुलान्वितः ॥
सम्प्राप्य विष्णुभवनं तत्रैव परिमुच्यते ॥
कल्पत्रयं शम्भुपदे स्थित्वा तत्रैव मुच्यते ॥ २८ ॥
मूषावस्थां वसाकूपं तथा वैतरणी नदीम् ॥
श्वभक्षं मूत्रपानं च सेतुस्नायी न पश्यति ॥ २९ ॥
तप्तशूलं तप्तशिलां पुरी षह्रदमेव च ॥
तथा शोणितकूपं च सेतुस्नायी न पश्यति ॥ 3.1.1.३० ॥
शाल्मल्यारोहणं रक्तभोजनं कृमिभोजनम् ॥
स्वमांसभोजनं चैव वह्निज्वालाप्रवेशनम् ॥ ३१ ॥
शिलावृष्टिं वह्निवृष्टिं नरकं कालसूत्रकम् ॥
क्षारोदकं चोष्णतोयं नेयात्सेत्ववलोककः ॥ ३२ ॥
सेतुस्नायी नरो विप्राः पञ्चपातकवानपि ॥
मातृतः पितृतश्चैव शतकोटिकुलान्वितः ॥ ३३ ॥
कल्पत्रयं विष्णुपदे स्थित्वा तत्रैव मुच्यते ॥
अधःशिरःशोषणं च नरकं क्षारसेवनम् ॥ ३४ ॥
पाषाणयन्त्रपीडां च मरुत्प्रपतनं तथा ॥
पुरीषलेपनं चैव तथा क्रकचदारणम् ॥ ३५ ॥
पुरीषभोजनं रेतःपानं सन्धिषु दाहनम् ॥
अङ्गारशय्याभ्रमणं तथा मुसलमर्द्दनम् ॥ ३६ ॥
एतानि नरकाण्यद्धा सेतुस्नायी न पश्यति ॥
सेतु स्नानं करिष्येऽहमिति बुद्ध्या विचिन्तयन् ॥ ३७ ॥
गच्छेच्छतपदं यस्तु स महापातकोऽपि सन् ॥
बहूनां काष्ठयन्त्राणां कर्षणं शस्त्रभेदनम्॥ ३८ ॥
पतनोत्पतनं चैव गदादण्डनिपीडनम् ॥
गजदन्तैश्च हननं नानाभुजगदंशनम् ॥ ३९ ॥
धूमपानं पाशबन्धं नानाशूलनिपीडनम् ॥
मुखे च नासिकायां च क्षारोदकनिषेचनम् ॥ 3.1.1.४० ॥
क्षाराम्बुपानं नरकं तप्तायः सूचिभक्षणम् ॥
एतानि नरकान्यद्धा न याति गतपातकः ॥ ४१ ॥
क्षाराम्बुपूर्णरन्ध्राणां प्रवेशं मलभोजनम् ॥
स्नायुच्छेदं स्नायुदाहमस्थिभेदनमेव च ॥ ४२ ॥
श्लेष्मादनं पित्तपानं महातिक्तनिषेवणम् ॥
अत्युष्ण तैलपानं च पानं क्षारोदकस्य च ॥ ४३ ॥
कषायोदकपानं च तप्तपाषाणभोजनम् ॥
अत्युष्णसिकतास्नानं तथा दशनमर्दनम् ॥ ४४ ॥
तप्तायःशयनं चैव सन्तप्ताम्बुनिषेचनम् ॥
सूचिप्रक्षेपणं चैव नेत्रयोर्मुखसन्धिषु ॥ ४५ ॥
शिश्ने सवृषणे चैव ह्ययोभारस्य बन्धनम् ॥
वृक्षाग्रात्पतनं चैव दुर्गन्धपरिपूरिते ॥ ४६ ॥
तीक्ष्णधारास्त्रशय्यां च रेतःपानादिकं तथा ॥
इत्यादि नरकान्घोरासेतुस्नायी न पश्यति ॥ ४७ ॥
सेतुसैकतमध्ये यः शेते तत्पांसुकुण्ठितः ॥
यावन्तः पांसवो लग्नास्तस्याङ्गे विप्रसत्तमाः ॥ ४८ ॥
तावतां ब्रह्महत्यानां नाशः स्यान्नात्र संशयः ॥
सेतुमध्यस्थ वातेन यस्याङ्गं स्पृश्यतेऽखिलम् ॥ ४९ ॥
सुरापानायुतं तस्य तत्क्षणादेव नश्यति ॥
वर्तन्ते यस्य केशास्तु वपनात्सेतुमध्यतः ॥ 3.1.1.५० ॥
गुरुतल्पा युतं तस्य तत्क्षणादेव नश्यति ॥
यस्यास्थि सेतुमध्ये तु स्थापितं पुत्रपौत्रकैः ॥
स्वर्णस्तेयायुतं तस्य तत्क्षणादेव नश्यति ॥ ५१ ॥
स्मृत्वा यं सेतुमध्ये तु स्नानं कुर्याद्द्विजोत्तमाः ॥
महापातकिसंसर्गदोषस्तस्य लयं व्रजेत् ॥ ५२ ॥
मार्गभेदी स्वार्थपाकी यतिब्राह्मणदूषकः ॥
अत्याशी वेदविक्रेता पञ्चैते ब्रह्मघातकाः ॥ ५३ ॥
ब्राह्मणान्यः समाहूय दास्यामीति धनादिकम् ॥
पश्चान्नास्तीति यो ब्रूते ब्रह्महा सोपि कीर्तितः ॥ ५४ ॥
परिज्ञाय यतो धर्मांस्तस्मै यो द्वेषमाचरेत् ॥
अवजानाति वा विप्रान्ब्रह्महा सोपि कीर्तितः ॥ ५५ ॥
जलपानार्थमायातं गोवृन्दं तु जलाशये ॥
निवारयति यो विप्रा ब्रह्महा सोपि कीर्तितः ॥ ५६ ॥
सेतुमेत्य तु ते सर्वे मुच्यन्ते दोषसञ्चयैः ॥
ब्रह्मघातकतुल्या ये सन्ति चान्ये द्विजोत्तमाः ॥ ॥ ५७ ॥
ते सर्वे सेतुमागत्य मुच्यन्ते नात्र संशयः ॥
औपासनपरित्यागी देवतान्नस्य भोजकः ॥५८॥
सुरापयोषित्संसर्गी गणिकान्नाशनस्तथा ॥
गणान्नभोजकश्चैव पतितान्नरतश्च यः ॥ ५९ ॥
एते सुरापिनः प्रोक्ताः सर्वकर्मबहिष्कृताः ॥
सेतुस्नानेन मुच्यन्ते ते सर्वे हतकिल्बिषाः ॥ 3.1.1.६० ॥
सुरापतुल्या ये चान्ये मुच्यन्ते सेतुमज्जनात् ॥
कन्दमूलफलानां च कस्तूरीपट्टवाससाम् ॥ ६१ ॥
पयश्चन्दनकर्पूरक्रमुकाणां तथैव च ॥
मध्वाज्यता म्रकांस्यानां रुद्राक्षाणां तथैव च ॥ ६२ ॥
चोरकास्तु परिज्ञेया सुवर्णस्तेयिनः समाः ॥
ते सेतुक्षेत्रमागत्य मुच्यन्ते नात्र संशयः ॥ ६९ ॥
अन्ये च स्तेयिनः सर्वे सेतुस्नानेन वै द्विजाः ॥
मुच्यन्ते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ ६४ ॥
भगिनीं पुत्रभार्यां च तथैव च रजस्वलाम् ॥
भ्रातृभार्यां मित्रभार्यां मद्यपां च परस्त्रियम् ॥६५॥
हीनस्त्रियं च विश्वस्तां योऽभिगच्छति रागतः ॥
गुरुतल्पी स विज्ञेयः सर्वकर्मबहिष्कृतः ॥६६॥
एते चान्ये च ये सन्ति गुरुतल्पगतुल्यकाः ॥
ते सर्वे प्रविमुच्यन्ते सेतुस्नानेन वै द्विजाः ॥ ६७ ॥
एतैः संसर्गिणो विप्रा ये चान्ये सन्ति पापिनः ॥
सेतुस्नानेन महता तेऽपि मोक्षमवाप्नुयुः॥६९॥
यागं विना देवलोके घृताचीमेनकादिभिः॥
सम्भोगकामिनो विप्राः स्नातुं सन्तावघापहे ॥ ६९ ॥
अनिषेव्य रविं वह्निमनुपास्य परान्सुरान् ॥
शुभकामी जनः सेतौकुर्यात्स्नानं सभक्तिकम् ॥3.1.1.७॥।
तिलान्भूमिं सुवर्णं च धान्यं तन्दुलमेव च ॥
अदत्त्वेच्छन्ति ते स्वर्गं स्नातुं सेतौ तु ते द्विजाः ॥७१॥
उपवासैर्व्रतैः कृत्स्नैरसन्ताप्य निजां तनुम् ॥
स्वर्गाभिलाषिणः पुंसः स्नान्तु सेतौ विमुक्तिदे॥७२॥
सेतुस्नानं मोक्षदं हि मनःशुद्धिप्रदं तथा ॥
जपाद्धोमात्तथा दानाद्यागाच्च तपसोऽपि च ॥ ७३ ॥
सेतुस्नानं विशिष्टं हि पुराणे परिपठ्यते ॥
अकामनाकृतं स्नानं सेतौ पापविनाशने ॥ ७४ ॥
अपुनर्भवदं प्रोक्तं सत्यमुक्तं द्विजोत्तमाः ॥
यः सम्पदं समुद्दिश्य स्नाति सेतौ नरो मुदा ॥ ७५ ॥
स सम्पदमवाप्नोति विपुलां द्विजपुङ्गवाः ॥
शुद्ध्यर्थं स्नाति चेत्सेतौ तदा शुद्धिमवाप्नुयात् ॥ ७६ ॥
रत्यर्थं यदि च स्नायादप्सरोभिर्नरो दिवि ॥
तदा रतिमवाप्नोति स्वर्गलोकेऽमरीजनैः ॥ ७७ ॥
मुक्त्यर्थं यदि च स्नायात्सेतौ मुक्तिप्रदायिनि ॥
तदा मुक्तिमवाप्नोति पुनरावृत्तिवर्जिताम् ॥७८॥
सेतुस्नानेन धर्मः स्यात्सेतुस्नानादघक्षयः ॥
सेतुस्नानं द्विजश्रेष्ठाः सर्वकामफलप्रदम् ॥ ७९ ॥
सर्वव्रताधिकं पुण्यं सर्वयज्ञोत्तरं स्मृतम् ॥
सर्वयोगाधिकं प्रोक्तं सर्व तीर्थाधिकं स्मृतम् ॥ 3.1.1.८० ॥
इन्द्रादिलोकभोगेषु रागो येषां प्रवर्तते ॥
स्नातव्यं तैर्द्विजश्रेष्ठाः सेतौ रामकृते सकृत् ॥ ८१ ॥
ब्रह्मलोके च वैकुण्ठे कैलासेऽपि शिवालये ॥
रन्तुमिच्छा भवेद्येषां ते सेतौ स्नान्तु सादरम् ॥ ८२ ॥
आयुरारोग्यसम्पत्तिमतिरूपगुणाढ्यताम् ॥
चतुर्णामपि वेदानां साङ्गानां पारगामिनाम् ॥ ८३ ॥
सर्वशास्त्राधिगन्तृत्वं सर्वमन्त्रेष्वभिज्ञताम् ॥
समुद्दिश्य तु यः स्नायात्सेतौ सर्वार्थसिद्धिदे ॥ ८४ ॥
तत्तत्सिद्धिम वाप्नोति सत्यं स्यान्नात्र संशयः ॥
दारिद्र्यान्नरकाद्ये च मनुजा भुवि बिभ्यति ॥ ८५ ॥
स्नानं कुर्वन्तु ते सर्वे रामसेतौ विमुक्तिदे ॥
श्रद्धया सहितो मर्त्यः श्रद्धया रहितोऽपि वा ॥ ८६ ॥
इहलोके परत्रापि सेतुस्नायी न दुःखभाक् ॥
सेतुस्नानेन सर्वेषां नश्यते पापसञ्चयः ॥ ८७ ॥
वर्द्धते धर्मराशिश्च शुक्लपक्षे यथा शशी ॥
यथा रत्नानि वर्द्धन्ते समुद्रे विविधान्यपि ॥ ८८ ॥
तथा पुण्यानि वर्द्धन्ते सेतुस्नानेन वै द्विजाः ॥
काम धेनुर्यथा लोके सर्वाकामान्प्रयच्छति ॥ ८९ ॥
चिन्तामणिर्यथा दद्यात्पुरुषाणां मनोरथान् ॥
यथाऽमरतरुर्दद्यात्पुरुषाणामभीप्सितम् ॥ 3.1.1.९० ॥
सेतुस्नानं तथा नृणां सर्वाभीष्टान्प्रदास्यति ॥
अशक्तः सेतुयात्रायां दारिद्र्येण च मानवः ॥ ९१ ॥
याचित्वा स धनं शिष्टात्सेतौ स्नानं समाच रेत् ॥
सेतुस्नानसमं पुण्यं तत्र दाता समश्नुते ॥ ९२ ॥
तथा प्रतिगृहीतापि प्राप्नोत्यविकलं फलम् ॥
सेतुयात्रां समुद्दिश्य गृह्णीयाद्ब्राह्मणाद्ध नम् ॥ ९३ ॥
क्षत्रियादपि गृह्णीयान्न दद्युर्ब्राह्मणा यदि ॥
वैश्याद्वा प्रतिगृह्णीयान्न प्रयच्छन्ति चेन्नृपाः ॥ ९४ ॥
शूद्रान्न प्रतिगृह्णीयात्कथञ्चिदपि मानवः ॥
यः सेतुं गच्छतः पुंसो धनं वा धान्यमेव वा ॥ ९५ ॥
दत्त्वा वस्त्रादिकं वापि प्रवर्तयति मानवः ॥
सोऽश्वमेधादियज्ञानां फलमाप्तो त्यनुत्तमम् ॥ ९६ ॥
चतुर्णामपि वेदानां पारायणफलं लभेत् ॥
तुलापुरुषमुख्यानां दानानां फलमश्नुते ॥ ९७ ॥
ब्रह्महत्यादिपापानां नाशः स्या न्नात्र संशयः ॥
बहुना किं प्रलापेन सर्वान्कामान्समश्नुते ॥ ९८ ॥
एवं प्रतिगृहीतापि तत्तुल्यफलमश्नुते ॥
याचतः सेतुयात्रार्थं न प्रतिग्रहकल्मषम् ॥ ९९ ॥
सेतुं गच्छ धनं तेऽहं दास्यामीति प्रलोभ्य यः ॥
पश्चान्नास्तीति च ब्रूयात्तमाहुर्ब्रह्मघातकम् ॥ 3.1.1.१०० ॥
लोभेन सेतुयात्रार्थं सम्पन्नोऽपि दरिद्रवत् ॥
मानवो यदि याचेत तमाहुस्तेयिनं बुधाः ॥ १०१ ॥
गमिष्ये सेतुमिति वै यो गृहीत्वा धनं नरः ॥
न याति सेतुं लोभेन तमाहुर्ब्रह्मघा तकम् ॥ १०२ ॥
येन केनाप्युपायेन सेतुं गच्छेन्नरो मुदा ॥
अशक्तो दक्षिणां दत्त्वा गमयेद्वा द्विजोत्तमम् ॥१०३॥
याचित्वा यज्ञकरणे यथा दोषो न विद्यते ॥
याचित्वा सेतुयात्रायां तथा दोषो न विद्यते ॥ १०४ ॥
याचित्वाप्यन्यतो द्रव्यं सेतुस्नाने प्रवर्तयेत् ॥
सोऽपि तत्फलमाप्नोति सेतु स्नायी नरो यथा ॥ १०५ ॥
ज्ञानेन मोक्षमभियान्ति कृते युगे तु त्रेतायुगे यजनमेव विमुक्तिदायि ॥
श्रेष्ठं तथान्ययुगयोरपि दानमाहुः सर्वत्र सेत्व भिषवो हि वरो नराणाम् ॥१०६॥
इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सेतुगमनफलादिवर्णनं नाम प्रथमोऽध्यायः॥१॥