॥ स्कन्द उवाच ॥
श्रुत्वैतत्सकलं धर्म्यं यथावद्भगवद्वचः ॥
निःसंशयो मुनिः प्राह तं प्रणम्य कृताञ्जलिः ॥ १ ॥
नारद उवाच ॥
नष्टा मे संशयाः सर्वे प्रसादाद्भगवंस्तव ॥
वासुदेवस्य माहात्म्यं मयाधिगतमञ्जसा ॥ २ ॥
कञ्चित्कालमिहैवाहं तपः कुर्वंस्त्वया सह ॥
शृण्वंश्च नित्यं ज्ञानादि करिष्ये पक्वमात्मनः ॥ ३ ॥
स्कन्द उवाच ॥
इत्युक्त्वा नारदस्तत्र तेन चाप्यनुमोदितः ॥
उवास दिव्यवर्षाणां सहस्रं स तपश्चरन् ॥ ४ ॥
शुश्राव चानुदिवसं यथाकालं हरेर्मुखात् ॥
धर्मज्ञानाद्यथ प्राप पक्वतां तत्र योगिराट् ॥ ५ ॥
स्नेहं च परमं प्राप स श्रीकृष्णेऽखिलात्मनि ॥
गुणगानपरो नित्यमास भागवताग्रणीः ॥ ६ ॥
भक्तिनिष्ठां परां प्राप्तमथ तं सिद्धयोगिनम् ॥
उवाच भगवत्प्रीतः श्रेयस्कृत्सर्वदेहिनाम् ॥ ७ ॥
श्रीनारायण उवाच ॥
सिद्धोसि त्वं महर्षेऽद्य गच्छ लोकहितं कुरु ॥
एकान्तधर्मं सर्वत्र प्रवर्त्तयितुमर्हसि ॥ ८ ॥
स्कन्द उवाच ॥
इत्याज्ञां शिरसा तस्य स आदाय जगद्गुरोः ॥
गच्छंस्ततस्तमस्तौषीत्प्रणम्य प्राञ्जलिः स्थितः ॥ ९ ॥
नारद उवाच ॥
नमोनमस्ते भगवञ्जगद्गुरो नारायणाऽप्राकृत दिव्यमूर्ते ॥
अनन्तकल्याणगुणाकरस्त्वं दासे मयि प्रीततरः मदा स्याः ॥ 2.9.31.१० ॥
त्वं वासुदेवोसि जगन्निवासः क्षेमाय लोकस्य तपः करोषि ॥
योगेश्वरेशोपशमस्थ आत्मारामाधिपस्त्वं परहंससद्गुरुः ॥ ११ ॥
विभुर्ऋषीणामृषभोऽक्षरात्मा जीवेश्वराणां च नियामकोसि ॥
साक्षी महापूरुष आत्मतन्त्रः कालोऽभवद्यद्भ्रुकुटेर्महांश्च ॥ १२ ॥
सर्गादिलीला जगतां त्वमीश करोषि मायापुरुषात्मनैव ॥
तथाप्यकर्त्ता ननु निर्गुणोसि भूमा परब्रह्म परात्परश्च॥ १३ ॥
सत्यः स्वयञ्ज्योतिरतर्क्यशक्तिस्त्वं ब्रह्मभूतात्मविचिन्त्यमूर्त्तिः ॥
बृहद्व्रताचार्य महामुनीन्द्र कन्दर्पदर्पापहरप्रताप ॥१४॥
तपस्विनां ये रिपवः प्रसिद्धाः क्रोधो रसो मत्सरलोभमुख्याः ॥
अप्याश्रमं तेपि कदापि वेष्टुं नेमं क्षमा ह्येष तव प्रतापः ॥ १५ ॥
छन्दोमयो ज्ञानमयोऽमृताध्वा धर्मात्मको धर्मसर्गाभिपोष्टा॥
उन्मूलिताधर्मसर्गो महात्मा त्वमव्ययश्चाक्षयोऽव्यक्तबन्धुः॥१६॥
निर्दोषरूपस्य तवाऽखिलाः क्रिया भवन्ति वै निर्गुणा निर्गुणस्य॥
धर्मार्थकामेप्सुभिरर्चनीयस्त्वमीश्वरो नाथ मुमुक्षुभिश्च ॥
त्वं कालमायायमसंसृतिभ्यो महाभयात्पातुमेकः समर्थः ॥
भक्तापराधाननवेक्षमाणो महादयालुः किल भक्तवत्सलः ॥१८॥
धृतावतारस्य हि नाममात्रं रूपं च वा यः स्मरेदन्तकाले ॥
सोपि प्रभो घोरमहाघसङ्घात्सद्यो विमुक्तो दिवमाशु याति ॥ १९ ॥
तं त्वां विहायाऽत्र तु यो मनुष्यो देहे त्रिधातावपि देहिकेषु ॥
जायात्मजज्ञातिधनेषु सज्जते स मायया वञ्चित एव मूढः ॥ 2.9.31.२० ॥
त्वद्भक्तियोग्यो नरदेह एव यं कामयन्तेऽपि च नाकसंस्थाः ॥
त्वद्भक्तिहीनं हि दिवोपि सौख्यमहं तु जाने नरकेण तुल्यम् ॥ २१ ॥
तपस्त्रिलोक्याः कुरुषे सुखाय तत्रापि ते भारतवासिपुंसु ॥
अनुग्रहो भूरितरो यदत्र कृतावतारो विचरन्विराजसे ॥ ॥ २२ ॥
तस्याश्रयं ये तव नात्र कुर्वते त एव शास्त्रेषु मताः कृतघ्नाः ॥
अतस्तवैकाश्रयमेव बाढं कुर्वत्यजस्रं मयि तेऽस्तु तुष्टिः॥२३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्रीनरनारायणस्तुतिनिरूपणन्नामैकत्रिंशोऽध्यायः ॥३१॥