॥ श्रीनारायण उवाच ॥
आचम्य प्राणानायम्य ततोसौ स्वस्थमानसः ॥
नमस्कृत्येष्टदेवादीन्देशकालौ च कीर्तयेत् ॥ १ ॥
एकान्तधर्मसिद्यर्थं वासुदेवस्य पूजनम् ॥
करिष्य इति सङ्कल्प्य कुर्यान्न्यासविधिं ततः ॥ २ ॥
न्यासे मन्त्रा द्वादशार्णो गायत्री वैष्णवी तथा॥
नारायणाष्टाक्षरश्च ज्ञेया विष्णुषडक्षरः ॥ ३ ॥
एते द्विजानां विहितास्तदन्येषां त्विह त्रयः ॥
वासुदेवाष्टाक्षरश्च हरिपञ्चाक्षरस्तथा ॥
षडर्णः केशवस्येति न्यासे होमे च सम्मताः ॥ ४ ॥
श्रीविष्णुप्रतिमाङ्गेषु स्वाङ्गेष्विव ततोऽखिलान् ॥
कुर्यान्यासांश्च तैर्मन्त्रैस्ततोर्चां वाससाऽऽमृजेत्॥५॥
कलशं वामभागे स्वे संस्थाप्यावाह्य तत्र च॥
तीर्थानि गन्धपुष्पाद्यैरुपचारैस्तमर्चयेत्॥६॥
पूजाद्रव्याणि चात्मानं प्रोक्षयित्वा तदम्बुना॥
शङ्खं घण्टां च सम्पूज्य भूतशुद्धिं समाचरेत्॥७॥
आभ्यन्तराग्निवायुभ्यां दग्ध्वा पापात्मकं वपुः ॥
शुद्धस्य स्वात्मनस्त्वैक्यं भावयेद्ब्रह्मणा स्थिरः॥८॥
ततोऽक्षरब्रह्मरूपो राधाकृष्णं हृदि प्रभुम् ॥
ध्यायेदव्यग्रमनसा प्राणायामं समाचरन्॥९॥
अधोमुखं नाभिपद्मं कदलीपुष्पवत्स्थितम्॥
विभाव्यापानपवनं प्राणेनैक्यमुपानयेत्॥2.9.28.१०॥
पद्मनाले तमानीय सह तेन तदम्बुजम्॥
आकर्षेदूर्ध्वमथ तन्नदत्तीव्रमुपैति हृत् ॥
प्रफुल्लति च तत्रैतद्धृदयाकाश उल्लसत् ॥ ११ ॥
तेजोराशिमये तत्र ततोप्यधिकतेजसा ॥
दर्शनीयतमं शान्तं ध्यायेच्छ्रीराधिकापतिम् ॥ १२ ॥
उपविष्टं स्थितं वा तं दिव्यचिन्मयविग्रहम् ॥
ध्यायेत्किशोरवयसं कोटिकन्दर्पसुन्दरम् ॥ १३ ॥
रूपानुरूपसम्पूर्णदिव्यावयवलक्षितम् ॥
शरच्चन्द्रावदाताङ्गं दीर्घचारुभुजद्वयम् ॥ १४ ॥
आरक्तकोमलतलरम्याङ्गुलिपदाम्बुजम् ॥
तुङ्गारुणस्निग्धनखद्युतिलज्जायितोडुपम् ॥ १५ ॥
शिञ्जत्किङ्किणिमञ्जीरहंसकाङ्घ्रियुगश्रियम् ॥
सुवृत्तजङ्घायुगलं समजानूरुशोभनम् ॥ १६ ॥
सद्रत्नरशनाबद्धपीताम्बरकटिश्रियम् ॥
उत्तुङ्गकुक्षिनाभ्यन्तर्निम्ननाभिवलित्रयम् ॥ १७॥
विततोत्तुङ्गहृदयं श्रीवत्सावर्त्तशोभितम् ॥
ललन्तीगुच्छगुच्छार्द्धदेवच्छन्दादिभूषितम् ॥ १८ ॥
नानासुगन्धिपुष्पस्रक्स्वर्णयज्ञोपवीतिनम् ॥
उन्निद्रशोणपद्माभकरकङ्कणभूषणम् ॥ १९ ॥
सूक्ष्मपर्वाङ्गुलिद्योतन्नैकसद्रत्नमुद्रिकम् ॥
निनादयन्तं मधुरं वेणुं सर्वमनोहरम् ॥ 2.9.28.२० ॥
विपुलांसं गूढजत्रुं महाबाह्वङ्गदद्युतिम् ॥
भ्रमत्सुगन्धलुब्धालिझङ्कारितवनस्रजम् ॥ २१ ॥
कम्बूपमगलभ्राजत्सद्ग्रैवेयककौस्तुभम् ॥
शोभमानहनुं बिम्बीफलशोणाधरद्युतिम् ॥ २२ ॥
सितस्मितकलाराजत्पूर्णचन्द्रनिभाननम् ॥
तिलपुष्पसमाकारदर्शनीयसुनासिकम् ॥ २३ ॥
समानकर्णविभ्राजन्मकराकृतिकुण्डलम् ॥
कर्णोपरिलसच्चित्रपुष्पगुच्छावतंसकम् ॥ २४ ॥
समसूक्ष्मरदज्योत्स्नोल्लसद्गण्डस्थलश्रियम् ॥
पद्मपत्रायतारक्तप्रान्तरम्यविलोचनम् ॥ २५ ॥
पृथुतुङ्गललाटं च कामचापायितभ्रुवम् ॥
वक्रसूक्ष्मासितस्निग्धमनोहरशिरोरुहम् ॥ २६ ॥
नानासद्रत्नखचितकिरीटधृतशेखरम् ॥
प्रेम्णा निजं वीक्षमाणं प्रसन्नं स्निग्धया दृशा ॥ २७ ॥
ध्यात्वेत्थं कृष्णमथ तद्वामे राधां विचिन्तयेत् ॥
द्विभुजां स्वर्णगौराङ्गीं कौसुम्भामलवाससम् ॥ २८ ॥
समकर्णोल्लसद्रत्नभूषणांशुकनासिकाम् ॥
किशोरीं मृगशावाक्षीं पीनोन्नतघनस्तनीम् ॥ २९ ॥
कृशमध्यां पृथुश्रोणिं रत्नकाञ्चीविभूषिताम् ॥
अनेकदिव्याभरणां विकचाब्जाननस्मिताम् ॥ 2.9.28.३० ॥
रत्नाङ्गुलीयकेयूरकङ्कणादिलसत्कराम् ॥
शिञ्जद्धंसकमञ्जीरशोभमानाङ्घ्रिपङ्कजाम् ॥ ३१ ॥
विशालभालविलसत्सत्काश्मीरललाटिकाम् ॥
बिम्बोष्ठीं सुकपोलां च वेणीग्रथितमालतीम् ॥ ३२ ॥
प्रेक्षमाणां प्रभुं प्रेम्णा दधानामम्बुजं करे ॥
ध्यात्वैवं राधिकां तत्र प्रभुमर्चेत्तया सह ॥ ३३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये क्रियायोगे श्रीराधाकृष्णस्वरूपध्याननिरूपणं नामाऽष्टाविंशोऽध्यायः ॥ २८ ॥