०२६ क्रियायोगाधिकारादिनिरूपणम्

॥ स्कन्द उवाच ॥
एकान्तधर्मविवृतिं श्रुत्वा भगवतोदिताम् ॥
प्रहृष्टमानसो भूयस्तं पप्रच्छ स नारदः ॥ १ ॥
नारद उवाच ॥
धर्म एकान्तिकः स्वामिंस्त्वया सम्यगुदीरितः ॥
तमाश्रुत्य महान्हर्षो जातोस्ति मम मानसे ॥ २ ॥
सिद्धये तस्य भवता क्रियायोगो य उच्यते ॥
तमहं बोद्धुमिच्छामि भगवंस्तव सम्मतम् ॥ ३ ॥
॥ श्रीनारायण उवाच ॥
पूजाविधिः क्रियायोगो वासुदेवस्य कीर्त्त्यते ॥
स तु वेदेषु तन्त्रेषु बहुधैवास्ति वर्णितः ॥ ४ ॥
भक्तानां रुचिवैचित्र्यात्तथा बहुविधत्वतः ॥
वासुदेवस्य मूर्तीनां बहुधा सोऽस्ति विस्तृतः ॥ ५ ॥
साकल्येनोच्यमानस्य पारो नायाति तस्य वै ॥
अतः सङ्क्षेपतस्तुभ्यं वच्मि भक्तिविवर्द्धनम् ॥ ६ ॥
प्राप्ता ये वैष्णवीं दीक्षां वर्णाश्चत्वार आश्रमाः ॥
चातुर्वर्ण्यस्त्रियश्चैते प्रोक्ता अत्राधिकारिणः ॥ ७ ॥
वेदतन्त्रपुराणोक्तैर्मन्त्रैर्मूलेन च द्विजाः ॥
पूजेयुर्दीक्षिता योषाः सच्छूद्रा मूलमन्त्रतः ॥
मूलमन्त्रस्तु विज्ञेयः श्रीकृष्णस्य षडक्षरः ॥८॥
स्वस्वधर्मं पालयद्भिः सर्वेरेतैर्यथाविधि ॥
पूजनीयो वासुदेवो भक्त्या निष्कपटान्तरैः ॥ ९ ॥
आदौ तु वैष्णवीं दीक्षां गृह्णीयात्सद्वरोः पुमान् ॥
सदैकान्तिकधर्मस्थाद्ब्रह्मजातेर्दयानिधेः ॥ 2.9.26.१० ॥
सम्पन्नो ज्ञानभक्तिभ्यां स्वधर्मरहितस्तु यः ॥
स गुरुन्नैव कर्तव्यः स्त्रीहृतात्मा च कर्हिचित् ॥ ११ ॥
प्राप्ता स्त्रैणाद्गुरोर्दीक्षा ज्ञानं भक्तिं च कर्हिचित् ॥
फलेन्नैव यथाऽपत्यं युवतिः षण्ढसङ्गिनी ॥ १२ ॥
प्राप्यातः सद्गुरोर्दीक्षां तुलसीमालिकां गले ॥
ललाटादौ चोर्द्ध्वपुण्ड्रं गोपीचन्दनतो धरेत् ॥१३॥
विष्णुपूजारुचिर्भक्तो गुरोरेवागमोदितम् ॥
पूजाविधिं सुविज्ञाय ततः पूजनमारभेत् ॥१४॥
रात्र्यन्तयाम उत्थाय भक्तो ब्राह्मेक्षणेऽथ वा ॥
मुहूर्तार्धं हृदि ध्यायेत्केशवं क्लेशनाशनम् ॥१५॥
कीर्त्तयित्वाऽभिधास्तस्य तदीयानां च नाडिकाम्॥
ततः शौचविधिं कृत्वा दन्तधावनमाचरेत् ॥१६॥
अङ्गशुद्धिस्नानमादौ कृत्वा स्नायात्समन्त्रकम्॥
गृहीत्वा शुचिमृत्स्नादीन्कुर्यात्स्नानाङ्गतर्पणम्॥१७॥
परिधायांशुके धौते उपविश्यासने शुचौ ॥
कृत्वोर्द्ध्वपुण्ड्रं कुर्वीत सन्ध्यां होमं जपादि च ॥ १८ ॥
वस्त्रचन्दनपुष्पादीनुपहारांस्ततोऽखिलान् ॥
आहरेन्मांसमदिराद्यशुचिस्पर्श वर्जितान्॥१९॥
देवेभ्यो वा पितृभ्यश्चाप्यन्येभ्यो न निवेदितान् ॥
अनाघ्रातांश्च मनुजैः केशकीटादिवर्जितान्॥2.9.26.२०॥
संस्थाप्य तान्दक्षपार्श्वे पूजोपकरणानि च ॥
उद्वर्त्य दीपमाज्येन कुर्यात्तैलेन वा ततः ॥२१ ॥
कौशे वौर्णे च वस्त्रादौ विकाष्ठे शुद्ध आसने ॥
उपाविशेद्वासुदेवप्रतिमासन्निधौ ततः ॥ २२ ॥
शैली धातुमयी दार्वी लेख्या मणिमयी च वा ॥
प्रतिमा स्यात्सिता रक्ता पीता कृष्णाऽथ वा मुने ॥ २३ ॥
कृष्णस्य सा तु कर्तव्या द्विभुजा वा चतुर्भुजा ॥
मुरलीं धारयेत्तत्र द्विभुजायाः करद्वये ॥ २४ ॥
अथ वा दक्षहस्तेऽस्याश्चक्रं शङ्खं तथेतरे ॥
पद्मं वा धारयेद्दक्षे पाणावभयमुत्तरे ॥ २५ ॥
द्वितीयायास्तु हस्तेषु दक्षिणाधःकरक्रमात् ॥
गदाब्जदरचक्राणि धारयेन्मुनिसत्तम ॥ २६ ॥
द्विविधाया अपि हरेर्मूर्तेर्वामे श्रियं न्यसेत् ॥
मुरलीधरवामे तु राधां रासेश्वरीं न्यसेत् ॥ २७ ॥
अप्येषा द्विविधा मूर्त्तिरखण्डा शुभलक्षणा ॥
सर्वावयवसम्पन्ना भवेदर्च्चकसिद्धिदा ॥ २८ ॥
लक्ष्मीस्तु द्विभुजा कार्या वासुदेवस्य सन्निधौ ॥
दधती पङ्कजं हस्ते वस्त्रालङ्कारशोभना ॥ २९ ॥
लक्ष्मीवद्राधिकापि स्याद्द्विभुजा चारुहासिनी ॥
पङ्कजं पुष्पमालां वा दधती पाणिपङ्कजे ॥ 2.9.26.३० ॥
अचला च चला चेति द्विविधा प्रतिमा हरेः ॥
तत्राद्यायां न कर्तव्यमावाहनविसर्जनम्॥३१॥
तदङ्गदेवतानां च कार्यं नावाहनाद्यपि ॥
न च दिङ्नियमोऽर्चायां तस्याः स्थेयं तु सम्मुखे ॥३२॥
शालग्रामेप्येवमेव कार्यं नावाहनादि च ॥
अन्यत्र चलमूलौ तु कर्तव्यं तत्तदर्चकैः ॥ ३३ ॥
तत्रापि दार्व्या लेख्यायां जलस्पर्शोनुलेपनम् ॥
नैव कार्यं पूजकेन कर्तव्यं परिमार्जनम् ॥ ३४ ॥
उदङ्मुखः प्राङ्मुखो वा चलायां सम्मुखोऽथ वा ॥
यथाशक्ति यथालब्धैरुपहारैर्यजेद्धरिम् ॥ ॥ ३५ ॥
श्रद्धानिश्छद्मभक्तिभ्यामर्पितेनाम्बुनापि सः ॥
प्रीतस्तुष्यति विश्वात्मा किमुताऽखिलपूजया ॥ ३६ ॥
पुंसा श्रद्धादिहीनेन रत्नहेमाद्यलङ्क्रियाः ॥
चतुर्विधं चाप्यन्नाद्यं दत्तं गृह्णाति नो मुदा ॥ ३७ ॥
तस्माद्भक्तिमता कार्यं पुंसा स्वश्रेयसे मुने ॥
श्रीकृष्णस्यार्च्चनं नित्यं सर्वाभीष्टाशुदायिनः ॥ ३८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये क्रियायोगाधिकारादिनिरूपणं नाम षड्विंशोऽध्यायः ॥ २६ ॥