०२० चातुर्वर्ण्यधर्मनिरूपणम्

॥ नारद उवाच ॥
भगवन्ब्रूहि मे धर्ममेकान्तं तव सम्मतम् ॥
प्रीयते येन विश्वात्मा वासुदेवः स सर्वदा ॥ १ ॥
श्रीनारायण उवाच ॥
साधु पृष्टं त्वया ब्रह्मन्मतिस्ते विमला किल ॥
मयि स्निग्धाय भक्ताय तुभ्यं गुह्यमपि ब्रुवे ॥ ॥ २ ॥
धर्म एष मया प्रोक्तः कल्पस्यादौ विवस्वते ॥
तमेव कथये तुभ्यं सनातनमहं मुने ॥३॥
स्वधर्मज्ञानवैराग्यैः सह लक्ष्मीवदीश्वरे ॥
तस्मिन्ननन्या भक्तिर्या धर्म एकान्तिकः स वै ॥ ४ ॥
तेनैवातिप्रसन्नः स्याद्गोलोकाधिपतिः स्वयम् ॥
जायते स च भक्तोपि परिपूर्णमनोरथः ॥ ५ ॥
॥ नारद उवाच ॥
लक्षणानि बुभुत्सामि स्वधर्मादेः पृथक्पृथक् ॥
शास्त्रयोनेरहं त्वत्तो वक्तुं तानि त्वमर्हसि ॥ ६ ॥
निगमागमशास्त्राणां सर्वेषामपि सत्पते ॥
मूलं त्वमेक एवासि येषु धर्मः सनातनः ॥ ७ ॥
त्वमेव साक्षाद्भगवान्वासुदेवोऽक्षरात्परः ॥
श्रेयसे सर्वभूतानां वर्तसेऽत्र दयानिधिः ॥ ८ ॥
त्वत्तोऽन्ये तु स्वस्वभावगुणतन्त्रा ह्यजादयः ॥
यथावन्न विजानीयुर्द्धर्मादींस्त्वमतो वद ॥ ९ ॥
स्कन्द उवाच ॥
इति देवर्षिणा पृष्टो भगवान्धर्मनन्दनः ॥
स्वधर्मादीन्क्रमेणैव कथयामास सर्ववित् ॥ 2.9.20.१० ॥
श्रीनारायण उवाच ॥
वर्णानामाश्रमाणां च सदाचारः पृथक्पृथक् ॥
सामान्यः सविशेषश्च स्वधर्मः स उदीर्यते ॥ ११ ॥
नृणां साधारणं धर्मं सर्वेषामादितः शृणु ॥
अहिंसा परमो धर्मस्तत्रादिम उदाहृतः ॥ १२ ॥
स्वमुख्यधर्मवृत्योरप्यद्रोहो मनसापि यः ॥
सति गत्यन्तरे प्राणिमात्रस्यापीति सा मता ॥ १३ ॥
सत्या वाग्भूतमात्रस्य द्रोहो न स्याद्यया तथा ॥
तपश्च शास्त्रविहितभोगसङ्कोचलक्षणम् ॥ १४ ॥
बाह्यमाभ्यन्तरं चेति द्विविधं शौचकर्म च ॥
अनादानं परस्वस्य परोक्षं वा छलेन च ॥ १५ ॥
यथोचितं ब्रह्मचर्यकामलोभक्रुधां जयः ॥
मुदा वित्तार्पणं पात्रे तुष्टिर्लब्धेन दैवतः ॥ १६ ॥
तीर्थे क्षेत्रे च यज्ञादौ चतुर्वर्गाप्तयेपि वा ॥
आत्मनो वा परस्यापि सर्वथा घातवर्जनम् ॥ १७॥
जातिभ्रंशकराणां च कर्मणां परिवर्जनम् ॥
पाणिपादोदरोपस्थवाचां संयमनं तथा ॥ १८ ॥
सर्वेषां व्यसनानां च वर्जनं मद्यमांसयोः ॥
व्यभिचारान्निवृत्तिश्च कुलसद्धर्मपालनम् ॥ १९ ॥
एकादशीनां सर्वासां यमैः साकमुपोषणम् ॥
हरेर्जन्मदिनानां च व्रताचरणमञ्जसा ॥ 2.9.20.२० ॥
आर्जवं साधुसेवा च विभज्याऽन्नादिभोजनम् ॥
भक्तिर्भगवतश्चेति धर्माः साधारणा नृणाम् ॥ २१ ॥
ब्रह्मक्षत्रविशः शूद्रा वर्णाश्चत्वार ईरिताः ॥
तेषां पृथक्पृथग्धर्मान्विशेषान्वच्मि ते मुने ॥२२॥
शमो दमः क्षमा शौचमास्तिक्यं भक्तिरीशितुः ॥
तपो ज्ञानं च विज्ञानं विप्रधर्मः स्वभावजः ॥ २३ ॥
शूरत्वं धैर्यमौदार्य बलं तेजः शरण्यता॥
गोविप्रसाधुरक्षेज्या धर्माः क्षत्रस्य कीर्त्तिताः ॥ २४ ॥
राज्ञस्त्वेतेऽथ नीत्यैव प्रजानां परिपालनम् ॥
धर्मसंस्थापनं भूमौ धर्मा दण्डार्हदण्डनम् ॥ २५ ॥
आस्तिक्यं दाननिष्ठा च साधुब्राह्मणसेवनम् ॥
अतुष्टिरर्थोपचये धर्मा वैश्यस्य चोद्यमः ॥ २६ ॥
द्विजातीनां च देवानां सेवा निष्कपटं गवाम् ॥
विशेषधर्मः कथितः शूद्रस्य मुनिसत्तम ॥ २७ ॥
अध्यापनं याजनं च विशुद्धाच्च प्रतिग्रहः ॥
विप्रस्य जीविका प्रोक्ता तत्रान्त्या त्वापदि स्मृता ॥ २८ ॥
याजनेऽध्यापने वापि दोषदर्शी द्विजोत्तमः ॥
यस्तस्याऽन्यापि विहिता वृत्तिरस्ति चतुर्विधा ॥ २९ ॥
शिलोञ्छ नित्ययाच्ञा च शालीनं चोचिता कृषिः ॥
श्रेयसी पूर्वपूर्वाऽत्र ज्ञातव्या द्विजसत्तमैः ॥ 2.9.20.३० ॥
विप्रो जीवेद्वैश्यवृत्त्या सत्यामापदि नारद ॥
अथ वा क्षत्रवृत्त्यापि श्ववृत्त्या न तु कर्हिचित् ॥ ३१ ॥
शस्त्रेण जीवेत्क्षत्रं तु सर्वतो धर्मरक्षया ॥
आपन्नो वैश्यवृत्त्यैव विप्ररूपेण वा चरेत् ॥ ३२ ॥
करादानादिनृपतेरविप्राद्वृत्तिरीरिता ॥
देशकालानुसारेण रञ्जयित्वाऽखिलाः प्रजाः ॥ ३३ ॥
आपत्कालेपि क्षत्रस्य ब्राह्मणस्येव सर्वथा ॥
विगर्हिता नीचसेवा स्वतेजःक्षयकारिणी ॥ ३४ ॥
कृषिवाणिज्यगोरक्षा तुरीया वृद्धिजीवनम् ॥
वैश्यस्य जीविका प्रोक्ता शूद्रवृत्तिस्तथापदि ॥ ३५ ॥
शूद्रो जीवेद्द्विजातीनां सेवालब्धधनेन च ॥
आपत्काले तु कार्वादेर्जीविकावृत्तिमाश्रयेत् ॥ ३६ ॥
आपन्मुक्तस्तु सर्वोपि प्रायश्चित्तं यथोचितम् ॥
विधाय स्वस्ववृत्त्यैव पुनर्वर्त्तेत मुख्यया ॥ ३७ ॥
चातुर्वर्ण्यं सतां सङ्गं कुर्यान्न त्वसतां क्वचित् ॥
मुक्तिप्रदोस्ति सत्सङ्गः कुसङ्गो निरयप्रदः ॥ ३८ ॥
कामं क्रोधं रसास्वादं जित्वा मानं च मत्सरम् ॥
निर्दम्भं विष्णुभक्ता ये ते सन्तः साधवो मताः ॥ ३९ ॥
स्त्रियां स्त्रैणे रसास्वादे सक्ताश्च धनगृध्नवः ॥
हिंस्रा दम्भकृताटोपा भक्ताभासा ह्यसाधवः ॥ 2.9.20.४० ॥
असाधुष्वासुरी सम्पद्दैवी सम्पत्तु साधुषु ॥
सहजास्तीति निश्चित्य सेव्या सन्तः सुखेप्सुभिः ॥ ४१ ॥
यादृशां यस्य सङ्गः स्याच्छास्त्राणां वा नृणामपि ॥
बुद्धिः स्यात्तादृशी तस्य कार्योऽतो नासतां हि सः ॥ ४२ ॥
ये साधुसेवारुचयः पुरुषा निजशक्तितः ॥
अप्राप्यं नास्ति तेषां वै किमप्यैश्वर्यमूर्जितम् ॥ ४३ ॥
स्वधर्मस्था अपि सतां द्रोहिणो ये तु मानवाः ॥
सद्गतिं नैव ते यान्ति क्वापि केनापि कर्मणा ॥ ४४ ॥
महापूजारता विष्णोर्भक्ता अपि सतां यदि ॥
द्रोहं कुर्युस्तदा तेषु न प्रसीदति स क्वचित् ॥ ४५ ॥
सद्द्रोहिणस्तु देहान्ते यांयां योनिं ब्रजन्ति च ॥
तत्रतत्र क्षुधारोगैः पीड्यन्ते जीवितावधि ॥ ४६ ॥
सतामतिक्रमादेव पुण्यानां महतामपि ॥
सद्यः क्षयः स्यात्सर्वेषामायुषः सम्पदामपि ॥ ४७ ॥
तस्मात्सेवा सतां कार्या सर्वैरपि सुखेप्सुभिः ॥
पुण्यतीर्थानि सेव्यानि पूज्या विप्राश्च धेनवः ॥ ४८ ॥
तीर्थानि देवप्रतिमा निन्देयुर्ये कुबुद्धयः ॥
तेषां तु जारजातानां वंशोच्छेदो भवेद्ध्रुवम् ॥ ४९ ॥
एकस्मिंस्तर्पिते विप्रे सद्भोज्यैर्दक्षिणादिभिः ॥
तर्पितं स्याज्जगत्सर्वं हरिस्तुष्यति च स्वयम् ॥ 2.9.20.५० ॥
एकस्मिन्ब्राह्मणे द्रुग्धे द्रुग्धं स्यात्सकलं जगत्॥
तस्माच्छक्त्या पूजनीया ब्राह्मणा विष्णुरूपिणः॥५१॥
गवामङ्गेषु तिष्ठन्ति सर्वे देवगणा अपि॥
तथा सर्वाणि तीर्थानि तासु तिष्ठन्ति सर्वदा ॥ ५२ ॥
गव्यर्च्चितायामेकस्यां सर्वे देवाः समर्च्चिताः ॥
कृतानि स्युश्च सर्वाणि तीर्थान्यपि च नारद ॥ ५३ ॥
एकस्या अपि गोर्द्रोहे कृते क्वापि प्रमादतः ॥
द्रुग्धाः स्युर्देवताः सर्वास्तीर्थान्यपि च कृत्स्नशः ॥ ५४ ॥
तस्माच्चातुर्वर्ण्य जनैर्यथोक्तविधिसंस्थितैः ॥
भवितव्यं प्रयत्नेन त्रेतव्यं च निषेधतः॥५५॥
चातुर्वर्ण्येतरे ये तु तेषां वृत्तिः कुलोचिता ॥
चौर्यहिंसाद्यधर्मेण रहितैव हितावहा ॥ ५६ ॥
वर्णधर्मा इति प्रोक्ताः सङ्क्षेपेण मया मुने ॥
चतुर्णामाश्रमाणां च धर्मानथ वदामि ते ॥ ५७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये चातुर्वर्ण्यधर्मनिरूपणं नाम विंशोऽध्यायः ॥२०॥