॥ स्कन्द उवाच ॥
ततः स ददृशे देवौ पुराणावृषिसत्तमौ ॥
तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ ॥१॥
तेजसाप्यधिकौ सूर्यात्सर्वलोकविरोचनात् ॥
श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ ॥२॥
पद्मचिह्नभुजौ तौ च पादयोश्चक्रलक्षणौ॥
व्यूढोरस्कौ दीर्घभुजौ सितसूक्ष्मघनांशुकौ ॥ ३ ॥
स्वास्यौ पृथुललाटौ च सुभ्रुवौ शुभनासिकौ ॥
शुभलक्षणसम्पन्नौ दिव्यमूर्त्ती घनप्रभौ ॥ ४ ॥
विनयेनान्तिकं प्राप्य तयोः कृत्वा प्रदक्षिणाम् ॥
भक्त्या प्रणम्य साष्टाङ्गं तस्थौ प्राञ्जलिरग्रतः ॥ ५ ॥
ततस्तौ तपसां वासौ यशसां तेजसामपि ॥
ऋषी पौर्वाह्णिकस्यान्ते विधेर्मौनं विहाय च ॥ ६ ॥
प्रीत्या नारदमव्यग्रौ पाद्यार्घ्याभ्यां समार्चताम् ॥
पीठयोरुपविष्टौ तौ कौशयोर्नारदश्च सः॥ ॥७॥
तेषु तत्रोपविष्टेषु स देशोभिव्यराजत ॥
आज्याहुतिमहाज्वालैर्यज्ञवाटोग्निभिर्यथा ॥ ८ ॥
अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् ॥
सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुसत्कृतम् ॥ ९ ॥
श्रीनारायण उवाच ॥
अपि ब्रह्मन्स भगवान्परमात्मा सनातनः ॥
ब्रह्मधाम्नि त्वया दृष्ट आवयो कारणं परम् ॥ 2.9.19.१० ॥
नारद उवाच ॥
भगवंस्त्वत्प्रसादेन तमहं परमेश्वरम् ॥
वासुदेवं समालोके स्थितमक्षरधामनि ॥ ११ ॥
इह चैवागतस्तेन विसृष्टो वां निषेवितुम् ॥
आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः ॥ १२ ॥
श्रीनारायण उवाच ॥
धन्योस्यनुगृहीतोसि यत्ते दृष्टः स्वयं प्रभुः ॥
नहि तं दृष्टवान्ब्रह्मन्कश्चिद्देवोपि वा ऋषिः ॥१३॥
भक्त्यैकान्तिकया तस्य प्राप्ता अक्षरसाम्यताम्॥
ये हि भक्तास्त एवैनं पश्यन्त्यखिलकारणम्॥१४॥
स दिव्यमूर्त्तिर्भगवान्दुर्द्दर्शः पुरुषोत्तमः ॥
नारदैतद्धि मे सत्यं वचनं समुदाहृतम् ॥ १५॥
नान्यो भक्तात्प्रियतरो लोके तस्यास्ति कश्चन ॥
ततः स्वयं दर्शितवांस्तवात्मानं द्विजोत्तम ॥ १६ ॥
तेजःपुञ्जाभिरुद्धाङ्गो गुणातीताद्भुताकृतिः ॥
अखण्डानन्दरूपश्च सदा शुद्धोऽच्युतोस्ति सः ॥ १७ ॥
रूपवर्णवयोवस्थाः प्राकृता नैव तस्य हि ॥
सर्वं तस्यास्ति तद्दिव्यं सर्वोपकरणानि च ॥
एकान्तिकानां भक्तानां स एव परमा गतिः ॥ १८ ॥
आत्मब्रह्मैक्यसम्पन्नैर्विनिवृत्तगुणैरपि ॥
क्रियते वासुदेवस्य भक्तिरित्थङ्गुणो हि सः ॥ १९॥
माहात्म्यमस्य को वक्तुं शक्नुयात्परमात्मनः ॥
अचिन्त्यानन्तशक्तीनामधिपस्य महामुने ॥ 2.9.19.२० ॥
आत्मात्मा चाक्षरात्मा च ह्येष आकाशनिर्मलः ॥
दिव्यदृगीक्ष्यः सन्मात्रः पुरुषो वसुदेवजः ॥ २१ ॥
समस्तकल्याणगुणो निर्गुणश्चेश्वरेश्वरः ॥
परया विद्यया वेद्य उपास्यो ब्रह्मवित्प्रभुः ॥ २२ ॥
दिव्यमूर्त्तिं तमीशानं तपसैकान्तिकेन च ॥
यः प्रीणयति धर्मेण स धन्यतम उच्यते ॥ २३ ॥
तस्मात्त्वमपि देवर्षे धर्मेणैकान्तिकेन तम् ॥
आराधयन्निहैवाङ्ग कञ्चित्कालं तपः कुरु ॥ २४ ॥
तपसैवाऽतिशुद्धात्मा माहात्म्यं तस्य सत्पतेः ॥
यथावज्ज्ञास्यति भवान्प्रोच्यमानं मयाऽखिलम् ॥ २५ ॥
सर्वार्थसाधनं विद्धि तपस्तद्धृदयं मुने ॥
नातप्तभूरितपसा स वशीक्रियते प्रभुः ॥ २६ ॥
॥ स्कन्द उवाच ॥
एवमुक्तो भगवता नरनारायणेन सः ॥
प्रीतस्तपः कर्त्तुमिच्छँस्तमुवाच महामतिः ॥२७॥
इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुऽदेवमाहात्म्ये नारदनरनारायणसमागमो नामैकोनविंशोऽध्यायः ॥१९॥