॥ स्कन्द उवाच ॥
तत्त्वेककालसम्भूतकोटिकोट्यर्कसन्निभम् ॥
स व्यचष्ट महत्तेजो दिव्यं सिततरं मुने ॥१॥
दिशश्च विदिशः सर्वा ऊर्द्ध्वाधो व्याप्नुवच्च यत्॥
अक्षरं ब्रह्म कथितं सच्चिदानन्दलक्षणम् ॥ २ ॥
प्रकृतिं पुरुषं चोभौ तत्कार्याण्यपि सर्वशः ॥
व्याप्तं यद्योगसंसिद्धाः षट्चक्राणि निजान्तरे ॥
व्यतीत्य मूर्ध्नि पश्यन्ति वासुदेवप्रसादतः ॥ ३ ॥
यद्भासा भासितः सूर्यो वह्निरिन्दुश्च तारकाः ॥
भासयन्ति जगत्सर्वं स्वप्रकाशं तथामृतम् ॥ ४ ॥
यद्ब्रह्मपुरमित्याहुर्भगवद्धाम सात्वताः ॥
यस्यान्तिकेषु परितस्तिष्ठन्त्यर्चककोटयः ॥ ५ ॥
ब्रह्मशङ्कर वृन्दानि ह्युपर्युपरि सम्भ्रमात् ॥
पतन्ति बलिहस्तानि गोपगोपीव्रजाश्च यत् ॥ ६ ॥
कृष्णस्यानुग्रहो यस्मिन्स तेजसि तमीक्षते ॥
केवलं तेज एवान्ये पश्यन्ति न तु तं मुने ॥ ७ ॥
तस्मिन्ददर्शाद्भुतदिव्यमन्दिरं विचित्ररत्नेन्द्रमयं मनोज्ञम् ॥
रत्नोज्ज्वलस्तम्भसहस्रकान्तं महासभा मण्डपदर्शनीयम् ॥ ८ ॥
सौधालिभिर्भूरिभिरुज्ज्वलाभिः स्वोपासकानां परितो विराजितम् ॥
विचित्रसूक्ष्माम्बररत्नभूषाविभूषितानां हि नृणां च योषिताम् ॥ ९ ॥
सिंहासनं तत्र मणीन्द्रसारै रत्नेन्द्रसारैश्च विनिर्मितं सः ॥
आश्चर्यकृन्प्रेक्षकमानसानां दिव्य मुनिः प्रैक्षत भूरिहर्षः ॥2.9.17.१०॥
तत्राऽथ कृष्णं भगवन्तमैक्षन्नारायणं निर्गुणमास्थितं सः ॥
सर्वज्ञमीशं पुरुषोत्तमं च यं वासुदेवं च वदन्ति सात्वताः ॥ ११ ॥
यं केचिदाहुः परमात्मसञ्ज्ञं केचित्परं ब्रह्म परात्परं च ॥
ब्रह्मेति केचिद्भगवन्तमेके विष्णुं च भक्ताः परमेश्वरं च॥१२॥
कन्दर्पसाहस्रमनोहराङ्गं सदा किशोरं करुणानिधानम् ॥
अतिप्रशान्ताकृतिदर्शनीयं क्षराक्षरेभ्यश्च परं स्वतन्त्रम् ॥ १३ ॥
नैकाण्डसर्गस्थितिनाशलीलाविधायकापाङ्गनिरीक्षणं च ॥
अनेककोट्यण्डमहाधिराजं विश्वैकवन्द्यं नटवर्यवेषम् ॥ १४ ॥
अनर्घ्यदिव्योत्तमपीतवाससमनेकसद्रत्नविभूषणाढ्यम् ॥
नवीनजीमूतसमानवर्णं कर्णोल्लसत्सन्मकराभकुण्डलम् ॥ १५ ॥
निजाङ्गनिर्यत्सितभूरितेजश्चयावृतत्वात्सितवर्णमुक्तम् ॥
सद्रत्नसारोज्ज्वलसत्किरीटं शरत्सरोजच्छदचारुनेत्रम् ॥ १६ ॥
सुगन्धिसच्चन्दनचर्चिताङ्गं श्रीवत्सलक्ष्माङ्कितहृत्कपाटम् ॥
निनादयन्तं मधुरं च वेणुं कृत्वा मुखाग्रेम्बुजचारुदोर्भ्याम् ॥ १७॥
जयासुशीलाललितामुखानां वृन्दैः सखीनां सह राधया च ॥
समर्च्यमानं रमया च भामा कलिन्दजा जाम्बवतीमुखानाम् ॥१८॥
धर्मेण वेदैरखिलैर्भगैश्च ज्ञानादिभिः संयतपाणियुग्मैः ॥
निषेव्यमाणं च सुदर्शनाद्यैर्निजायुधैर्मूर्तिधरैरनेकैः ॥ १९ ॥
मसारमाणिक्यसुवर्णवर्णैः सितैश्च कैश्चिन्निजपार्षदाग्र्यैः ॥
उपासितं चक्रगदाब्जशङ्खलसद्भुजैर्नन्दसुनन्दमुख्यैः ॥ 2.9.17.२० ॥
श्रीदाममुख्यैरथ गोपवेषैर्भक्त्यावनम्रैर्द्विभुजैरनेकैः ॥
उपास्यमानं गरुडेन चाग्रतो विभूतिभिश्चाष्टभिरानताभिः ॥ २१ ॥
मूर्त्या च शान्त्या दयया च सेवितं पुष्ट्या च तुष्ट्या ह्यथ मेधया च ॥
श्रद्धाक्रिया ह्युन्नतिभिश्च मैत्र्या तथा तितिक्षास्मृतिबुद्धिभिश्च ॥ २२ ॥
दृष्ट्वा तमत्यद्भुतदिव्यमूर्त्ति तद्रूपसौरभ्यहृताखिलेन्द्रियः ॥
आनन्दवारिप्रतिरुद्धदृष्टिः प्रेम्णोर्द्ध्वरोमा सुखसम्भृतोऽभूत् ॥ २३ ॥
दण्डवत्तं नमस्कृत्य नारदः प्रेमविह्वलः ॥
बद्धाञ्जलिपुटस्तस्थौ वीक्षमाणस्तदाननम् ॥ २४ ॥
तं मानयामास हरिः पृष्ट्वा स्वागतमादरात् ॥
भक्तमेकान्तिकं स्वस्य स्वेनैव च दिदृक्षितम् ॥ २५ ॥
भगवद्वाक्यपीयूषास्वादप्राप्तात्मसंस्मृतिः ॥
तद्दर्शनमहानन्दो भक्त्या तुष्टाव तं मुनिः ॥ २६ ॥
नारद उवाच ॥
जय श्रीकृष्ण भगवन्नारायण जगत्प्रभो ॥
वासुदेवाऽखिलावास सदैकान्तिकवल्लभ ॥ २७ ॥
अप्याश्चर्यार्चनीयाङ्घ्रे राधिकाकमलादिभिः ॥
त्वमेवात्यन्तिकं श्रेयोऽभीप्सतां परमा गतिः ॥ २८ ॥
नित्यानामात्मनां नित्य आत्मा चेतनचेतनः ॥
क्षराक्षरेभ्यश्च परस्त्वं ब्रह्म परमं हरे ॥ २९ ॥
यथा विशुद्धिः सिद्धिश्च भक्त्या परमया तव ॥
तथा न स्यान्नृणामन्यैः साधनैस्तप आदिभिः ॥ 2.9.17.३० ॥
त्वदङ्घ्रिदिव्यज्योत्स्नैका मुमुक्षूणां हृदि स्थितम् ॥
महत्सन्तमसंहर्तुं सद्यः शक्तास्ति सत्पते ॥ ३१ ॥
सर्वैर्वेदैस्त्वमेवेज्य उपास्यो ज्ञेय एव च ॥
निरूपितोसि भगवन्सर्वकारणकारणम् ॥ ३२ ॥
एकैकस्मिन्रोमकूपे यत्तवास्ति सितं महः ॥
शान्तमानन्दरूपं च तत्कोटीन्दुप्रभाधिकम् ॥ ३३ ॥
अस्मिंस्त्वमक्षरे धाम्नि निर्गुणेऽमृतसञ्ज्ञके ॥
महःपुञ्जे सदैवास्से निर्गुणः पुरुषोत्तमः ॥ ३४ ॥
ब्रह्माण्डभयदात्कालान्मायायाश्च महाभयात् ॥
मुक्ता भक्ता भवन्त्येव त्वदीयोपासनाबलात् ॥ ३५ ॥
तं त्वामहमुपेतोस्मि शरणं जगदीश्वरम् ॥
सर्वात्मानं विभुं ब्रह्म महापुरुषमच्युतम् ॥ ३६ ॥
यथा त्वच्चरणाम्भोजे भक्तिर्मे निश्चला सदा ॥
भवेत्तथैव देवेश कर्त्तुमर्हस्यनुग्रहम् ॥ ३७ ॥
॥ स्कन्द उवाच ॥
इत्थं देवर्षिणा भक्त्या संस्तुतः परमेश्वरः ॥
तमाहानन्दयन्वाचा सुधासम्मितया मुनिम् ॥ ३८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्रीवासुदेवदर्शनं नाम सप्तदशोऽध्यायः ॥ १७ ॥