॥ स्कन्द उवाच ॥
मेरुशृङ्गं समारूढो नारदो दिव्यया दृशा ॥
श्वेतद्वीपं च तत्रस्थान्पश्यन्मुक्तान्सहस्रशः ॥ १ ॥
वासुदेवे भगवति दृष्टिमाबध्य तत्क्षणम् ॥
उत्पपात महायोगी सद्यः प्राप च धाम तत् ॥ २ ॥
प्राप्य श्वेतं महाद्वीपं नारदो हृष्टमानसः ॥
ददर्श भक्तांस्तानेव श्वेतांश्चन्द्रप्रभाञ्छुभान् ॥ ३ ॥
पूजयामास शिरसा मनसा तैश्च पूजितः ॥
दिदृक्षुर्ब्रह्म परमं स च कृच्छ्रपरः स्थितः ॥ ४ ॥
भक्तमेकान्तिकं विष्णोर्बुद्ध्वा भागवतास्तु ते ॥
तमूचुस्तुष्टमनसो जपन्तं द्वादशाक्षरम् ॥ ५ ॥
श्वेतमुक्ता ऊचुः ॥
मुनिवर्य भवान्भक्तः कृष्णस्याऽस्ति यतोऽत्र नः ॥
दृष्टवान्देवदुर्दृश्यान्किमिच्छन्नथ तप्यति ॥ ६ ॥
नारद उवाच ॥
भगवन्तं परं ब्रह्म साक्षात्कृष्णमहं प्रभुम् ॥
द्रष्टुमुत्कोऽस्मि भक्तेन्द्रास्तं दर्शयत तत्प्रियाः ॥७॥
स्कन्द उवाच ॥
तदैकः श्वेतमुक्तस्तु कृष्णेन प्रेरितो हृदि ॥
एहि ते दर्शये कृष्णमित्युक्त्वा पुरतोभवत् ॥८॥
प्रहृष्टो नारदस्तेन साकमाकाशवर्त्मना ॥
पश्यन्धामानि देवानां तत ऊर्द्ध्वं ययौ मुनिः ॥ ९ ॥
सप्तर्षींश्च ध्रुवं दृष्ट्वाऽनासक्तः कुत्रचित्स च ॥
महर्जनतपोलोकान्व्यतीयाय द्विजोत्तम॥2.9.16.१०॥
ब्रह्मलोकं ततो दृष्ट्वा श्वेतमुक्तानुगो मुनिः ॥
कृष्णस्यैवेच्छयाऽध्वानं प्रापाष्टावरणेष्वपि॥११॥
भूम्यप्तेजोनिलाकाशाहम्महत्प्रकृतीः क्रमात् ॥
क्रान्त्वा दशोत्तरगुणाः प्राप गोलोकमद्भुतम् ॥१२॥
धाम तेजोमयं तद्धि प्राप्यमेकान्तिकैर्हरेः॥
गच्छन्ददर्श विततामगाधां विरजां नदीम्॥१३॥
गोपीगोपगणस्नानधौतचन्दनसौरभाम्॥
पुण्डरीकैः कोकनदै रम्यामिन्दीवरैरपि॥१४॥
तस्यास्तटं मनोहारि स्फटिकाश्ममयं महत्॥
प्राप श्वेतहरिद्रक्तपीतसन्मणिराजितम्॥१५॥
कल्पवृक्षालिभिर्ज्जुष्टं प्रवालाङ्कुरशोभितम्॥
स्यमन्तकेन्द्रनीलादिमणीनां खनिमण्डितम् ॥ १६ ॥
नानामणीन्द्रनिचितसोपानततिशोभनम् ॥
कूजद्भिर्मधुरं जुष्टं हंसकारण्डवादिभिः ॥ १७ ॥
वृन्दैः कामदुघानां च गजेन्द्राणां च वाजिनाम् ॥
पिबद्भिर्न्निर्मलं तोयं राजितं स व्यतिक्रमत् ॥ १८ ॥
उत्तीर्याऽथ धुनी दिव्यां तत्क्षणादीश्वरेच्छया ॥
तद्धामपरिखाभूतां शतशृङ्गागमाप सः ॥ १९ ॥
हिरण्मयं दर्शनीयं कोटियोजनमुच्छ्रितम् ॥
विस्तारे दशकोट्यस्तु योजनानां मनोहरम् ॥ 2.9.16.२० ॥
सहस्रशः कल्पवृक्षैः पारिजातादिभिर्द्रुमैः ॥
मल्लिकायूथिकाभिश्च लवङ्गैलालतादिभिः ॥ २१ ॥
स्वर्णरम्भादिभिश्चान्यैः शोभमानं महीरुहैः ॥
दिव्यैर्मृगगणैर्न्नागैः पक्षिभिश्च सुकूजितैः ॥ २२ ॥
दुर्गायितस्य तद्धाम्नस्तस्य रम्येषु सानुषु ॥
मनोज्ञान्विततानैक्षद्भगवद्रासमण्डपान् ॥ २३ ॥
वृतानुद्यानततिभिः फुल्लपुष्पसुगन्धिभिः ॥
कपाटै रत्ननिचितैश्चतुर्द्वारसुशोभनान् ॥ २४ ॥
चित्रतोरणसम्पन्नै रत्नस्तम्भैः सहस्रशः ॥
जुष्टांश्च कदलीस्तम्भैर्मुक्तालम्बैर्वितानकैः ॥ २५ ॥
दूर्वालाजाक्षतफलैर्युक्तान्माङ्गलिकैरपि ॥
चन्दनागुरुकस्तूरीकेशरोक्षित चत्वरान् ॥ २६ ॥
सुश्राव्यवाद्यनिनदैर्हृद्यान्बहुविधैरपि ॥
तेषु यूथानि गोपीनां कोटिशः स ददर्श ह ॥ २७ ॥
अनर्घ्यवासोभूषाभिः सद्रत्नमणिकङ्कणैः ॥
काञ्चीनूपुरकेयूरैः शोभितान्यङ्गुलीयकैः ॥ २८ ॥
तारुण्यरूपलावण्यैः स्वरैश्चाऽप्रतिमानि हि ॥
राधालक्ष्मीसवर्णानि शृङ्गारिककराणि च ॥ २९ ॥
भोगद्रव्यैर्बहुविधैर्मण्डपेषु युतेषु च ॥
विलसन्ति च गायन्ति मनोज्ञाः कृष्णगीतिकाः ॥ 2.9.16.३० ॥
उपत्यकासु तस्याद्रेरथ वृन्दावनाभिधम् ॥
वनं महत्तदद्राक्षीत्सावर्णे नारदो मुनिः ॥ ३१ ॥
कृष्णस्य राधिकायाश्च प्रियं तत्क्रीडनस्थलम्॥
कल्पद्रुमालिभी रम्यं सरोभिश्च सपङ्कजैः ॥ ३२ ॥
आम्रैराम्रातकैर्नीपैर्बदरीभिश्च दाडिमैः ॥
खर्जूरीपूगनारङ्गैर्न्नालिकेरैश्च चन्दनैः ॥ ३३ ॥
जम्बूजम्बीरपनसैरक्षोदैः सुरदारुभिः ॥
कदलीभिश्चम्पकैश्च द्राक्षाभिः स्वर्णकेतकैः ॥ ३४ ॥
फलपुष्पभरानम्रैर्न्नानावृक्षैर्विराजितम् ॥
मल्लिका माधवीकुन्दैर्ल्लवङ्गैर्यूथिकादिभिः ॥ ३५ ॥
मन्दशीतसुगन्धेन सेवितं मातरिश्वना ॥
शतशृङ्गस्नुतैरार्द्रं निर्झरैश्च समन्ततः ॥ ३६ ॥
सदा वसन्त शोभाढ्यं रत्नदीपालिमण्डितैः ॥
शृङ्गारिकद्रव्ययुतैः कुञ्जैर्जुष्टमनेकशः ॥ ३७ ॥
गोपानां गोपिकानां च कृष्णसङ्कीर्त्तनैर्मुहुः ॥
गोवत्स पक्षिनिनदैर्न्नानाभूषणनिस्वनैः ॥
दधिमन्थनशब्दैश्च सर्वतो नादितं मुने ॥ ३८ ॥
फुल्लपुष्पफलानम्रनानाद्रुमसुशोभनैः ॥
द्वात्रिंशतवनैरन्यैर्युक्तं पश्यमनोहरैः ॥ ३९ ॥
तद्वीक्ष्य हृष्टः स प्राप गोलोकपुरमुज्वलम् ॥
वर्तुलं रत्नदुर्गं च राजमार्गोपशोभितम् ॥ 2.9.16.४० ॥
राजितं कृष्णभक्तानां विमानैः कोटिभिस्तथा ॥
रथै रत्नेन्द्रखचितैः किङ्किणीजालशोभितैः ॥ ४१ ॥
महामणीन्द्रनिकरै रत्नस्तम्भालिमण्डितैः ॥
अद्भुतैः कोटिशः सौधैः पङ्क्तिसंस्थैर्मनोहरम् ॥ ४२ ॥
विलासमण्डपै रम्यै रत्नसारविनिर्मितः ॥
रत्नेन्द्रदीपततिभिः शोभनं रत्नवेदिभिः ॥ ४३ ॥
केसरागुरुकस्तूरीकुङ्कुमद्रवचर्चितम् ॥
दधिदूर्वालाजपूगै रम्भाभिः शोभिताङ्गणम् ॥ ४४ ॥
वारिपूर्णैर्हेमघटैस्तोरणैः कृतमङ्गलम् ॥
मणिकुट्टिमराजाध्वचलद्भूरिगजाश्वकम् ॥ ४५ ॥
श्रीकृष्णदर्शनायातैर्न्नैकब्रह्माण्डनायकैः ॥
विरिञ्चिशङ्कराद्यैश्च बलिहस्तैः सुसङ्कुलम् ॥४६॥
व्रजद्भिः कृष्णवीक्षाथ गोपगोपीकदम्बकैः ॥
सुसङ्कुलमहामार्गं मुमोदालोक्य तन्मुनिः ॥४७॥
कृष्णमन्दिरमापाऽथ सर्वाश्चर्यं मनोहरम् ॥
नन्दादिवृषभान्वादिगोपसौधालिभिर्वृतम् ॥ ४८ ॥
चतुर्द्वारैः षोडशभिर्दुर्गैः सपरिखैर्युतम्॥
कोटिगोपवृतैकैकद्वारपालसुरक्षितैः ॥ ४९ ॥
रत्नस्तम्भकपाटेषु द्वार्षु स्वाग्रस्थितेषु सः ॥
उपविष्टान्क्रमेणैव द्वारपालान्ददर्श ह ॥2.9.16.५०॥
वीरभानुं चन्द्रभानुं सूर्यभानुं तृतीयकम् ॥
वसुभानुं देवभानुं शक्रभानुं ततः परम् ॥ ५१ ॥
रत्नभानुं सुपार्श्वं च विशालमृषभं ततः ॥
अंशुं बलं च सुबलं देवप्रस्थं वरूथपम् ॥ ५२ ॥
श्रीदामानं च नत्वाऽसौ प्रविष्टोन्तस्तदाज्ञया ॥
महाचतुष्के वितते तेजोऽपश्यन्महोच्चयम् ॥ ५३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये गोलोकवर्णनं नाम षोडशोऽध्यायः ॥१६॥