॥ ब्रह्मोवाच ॥
विचार्य्याऽहं वेदान्मुहुरुपगतो निश्चयमिमं रमारामे भक्तिस्त्वयि दृढतरा यर्ह्यसुभृताम् ॥
भवेत्तर्ह्येवैषां क्षयविरहिता भोगनिकरास्तथा स्युर्लोका वै परमपुरुषात्यन्तिकगतिः ॥ ॥ १ ॥
अजानन्तस्त्वित्थं भृतरजतमस्कानपि हरे भजन्त्यस्मान्देवान्बहुविधतपोर्च्चासरणिभिः ॥
त एवोक्ता मूढाः क्षयरहितसौख्यं न कुहचिल्लभन्तेऽतस्त्वां वै निजहृदि दधे केशवमहम् ॥२॥
शङ्कर उवाच ॥
त्रयी साङ्ख्यवेदान्तयोगाः पुराणं तथा पञ्चरात्रं प्रभो धर्मशास्त्रम् ॥
तवैवातिमाहात्म्यमेकस्य नित्यं प्रकारैरनेकैर्हि गायन्ति भक्त्या ॥३॥
त्वदेवेश शास्त्राणि चैतानि भूम्नो बभूवुस्त्वदेकाश्रयाण्यादिकल्पे॥
रमासेव्यपादाम्बुजं शास्त्रयोनिं तमाद्यं भवन्तं भजे वासुदेवम् ॥ ४ ॥
धर्म उवाच ॥
कथा त्वदीया भवपाशमोचनी सुधैव तापत्रयतप्तदेहिनाम् ॥
अनेकजन्माघचयापहारिणी तनोति भक्तिं वयुनं तवाञ्जसा ॥ ५ ॥
सदैव सा कर्णपथेन हृद्दरी विशत्वनन्ताभिध सम्मुखोद्गता ॥
मम त्वदन्या हरताच्च वासना दयाब्धये ते प्रभविष्णवे नमः ॥ ६ ॥
प्रजापतय ऊचुः ॥
धन्या एते कल्पवृक्षा यदीयां छायामेतामाश्रितस्त्वं सहश्रीः ॥
धन्यः कर्ता मण्डपस्यास्य ते वै धन्यैषा भूर्यत्र पीठं तवेश ॥ ७ ॥
धन्यो लोके नूनमेषोम्बुराशिः साक्षात्तुभ्यं येन दत्ता स्वकन्या ॥
धन्याश्चैते त्वां वयं वीक्षमाणा धन्येशानं श्रीपतिं त्वां नताः स्मः ॥ ८ ॥
मनव ऊचुः ॥
धर्मः खलु स हि परमो धर्मेभ्यो माधव सकलेभ्योपि ॥
भक्तिर्भवति यतो वै धर्मभुवि त्वयि हि निरवद्या ॥ ९ ॥
धर्मात्मानं भगवन्धर्मधुरीणं च धर्मपातारम् ॥
सर्वातिप्रियधर्मं नुमस्त्वां धर्मसम्भूतिम् ॥ 2.9.15.१० ॥
ऋषय ऊचुः ॥
भक्त्या हीनस्त्वद्विमुखो वयुनार्थी श्राम्यन्भूयोप्यस्य न सिद्धिं समुपैति ॥
तर्ह्यासक्तः कर्मणि काम्ये तु कुतोसौ सौख्यं यायादक्षयमानन्दमहाब्धे ॥ ११ ॥
भक्त्या नित्यं त्वामत एव वयं वै श्रद्धायुक्ता धर्मतपोनिगमाद्यैः ॥
मायातीतं कालनियन्तारमुदारं ध्यायामः श्रीकान्तपरात्परमेकम् ॥ १२ ॥
इन्द्र उवाच ॥
भगवन्नुरुदुःखिता वयं ननु दुर्वासस एव हेलनात् ॥
न भवन्तमृतेऽवितुं हि नो विधिरुद्रप्रमुखा इमेऽशकन् ॥ १३ ॥
विगताखिलसम्पदो निरन्नाः समभावं भुवि पामरैरुपेताः ॥
भवतैव वयं हृतापदः स्मः सपदि श्रीहरये नमोस्तु तुभ्यम् ॥ १४ ॥
अग्निरुवाच ॥
गीर्वाणदानवनराद्युपजीवनान्नं यन्निर्मितं हि भवतैव ततो बुधास्तु ॥
यज्ञेषु तेन यजनं तव कुर्वतेऽथो त्वच्छेषमन्यदिविषद्भ्य उपानयन्ति ॥ १५ ॥
काम्येषु कर्मसु रता अपि याज्ञिकास्ते तत्कर्मबन्धनत आशु विमुच्य यान्ति ॥
ब्राह्मीं गतिं तदितरे तु भवन्ति चौराः श्रीयज्ञपूरुषमहं प्रणमामि तं त्वाम् ॥ १६ ॥
मरुत ऊचुः ॥
भक्ता एकान्तिकास्तेऽक्षरपरमपदे सेवया ते तु हीनं वासैश्वर्यादि नेच्छन्त्यतिशयितसुखं नापि कैवल्यमोक्षम् ॥
तद्युक्तं त्वात्मनोपि श्वपचकुलजनुर्मानयन्त्युत्तमं वै तं त्वामेकान्तधर्माश्रयणमुपगताः श्रीमहापूरुषं स्मः ॥ १७ ॥
सिद्धा ऊचुः ॥
नैकब्रह्माण्डसर्गादिकारणं त्वामकारणम् ॥
तत्स्थं तद्व्यतिरिक्तं च नियन्तारं नमामहे॥ ॥ १८ ॥
रुद्रा ऊचुः ॥ मायायाः सर्वमोहिन्या मोहनं मोहवर्जितम् ॥
महाकालस्यापि कालं त्वां नमः पुरुषोत्तमम् ॥ १९ ॥
आदित्या ऊचुः ॥
प्रकाशिता येन वयं जगन्ति प्रकाशयामो भवता रमेश ॥
स्वयम्प्रकाशं तमुरुप्रकाशं प्रकाशमूर्त्तिं प्रणता भवन्तम् ॥ 2.9.15.२० ॥
साध्या ऊचुः ॥
शास्ता नृपाणां च महोरगाणां दैत्याधिपानां च सुराधिपानाम् ॥
त्वं वै मनूनां च प्रजापतीनां राजाधिराजाय नमोस्तु तुभ्यम् ॥ ॥ २१ ॥
वसव ऊचुः ॥
भवति भुवि यदायदाऽसुरांशैः प्रथितसनातनधर्मधार्मिकाणाम् ॥
कदनमुरु तदातदा स्वयं ते ह्यवतरते प्रणमाम धर्मगोप्त्रे ॥ २२ ॥
चारणा ऊचुः ॥
चरित्रं शुभं ते धृतानेकमूर्त्तेः प्रबन्धैरनेकैर्हि गायन्ति भक्ताः ॥
यदु श्रोतृवक्तॄन्पुनात्येव सद्यो वयं तं नताः पुण्यकीर्त्तिं भवन्तम् ॥ २३ ॥
गन्धर्वाप्सरस ऊचुः ॥
ये कथास्ते विहायान्यगाथाः प्रभो कीर्त्तयन्तेऽथ शृण्वन्ति वा ते जनाः ॥
दुःखिताः स्युश्च संसारपाशैः सितास्तं नताः स्मः शरण्यं भवन्तं वयम् ॥ २४ ॥
समुद्र उवाच ॥
अजित तवाऽथ तावकजनस्य मुदाऽल्पमपि द्रविण जलान्नवस्त्रनमनान्यतमेन सकृत् ॥
चरति ह सेवनं स पदवीं महतीं महतां व्रजति जनोल्पकोपि तमहं प्रणतः करुणम् ॥ २५ ॥
पार्षदा ऊचुः ॥
पितरो त्वमसि स्वजनस्त्वमसि त्वमसीष्टगुरुः सुहृदात्मपतिः ॥
त्वमसीश्वर एव च नः परमस्त्वमसि द्रविणं सकलं त्वमसि ॥ ॥ २६ ॥
मूर्त्तिरुवाच ॥
यत्सम्बन्धत एव यान्ति पदवीमुच्चां महद्भिर्न्नुतां स्त्रीशूद्रासुरनीचपक्षिपशवः पापात्मजीवा अपि ॥
यद्धीना विबुधेश्वरा अपि भवन्त्यर्च्चोज्झितास्तत्क्षणं गोलोकाधिपतिं तमेव हृदये नित्यं भजे त्वामहम् ॥ २७ ॥
सावित्र्युवाच ॥
त्वं सर्गकाले प्रकृतिं च पूरुषं दृष्ट्या स्वयोत्थाप्य ततस्तदात्मना ॥
तत्त्वानि सृष्ट्वा महदादिमानितैर्न्नैकान्विराजो बहुधा ससर्जिथ ॥ २८ ॥
वैराजरूपेण जगद्विधातृतां स्वीकृत्य देवासुरमानुषोरगान् ॥
त्वं स्थावरं जङ्गममीश निर्ममे त्वामादिकर्तारमुपाश्रितास्म्यहम् ॥ ॥ २९ ॥
दुर्गोवाच ॥
प्रियतयाऽधिकया हृदि चिन्तनं विदधते तव ये भुवि ते विभो ॥
न परमेष्ठिसुखं न दिवः सुखं न कमयन्ति धरैकनरेशताम् ॥ 2.9.15.३० ॥
प्रसभमर्पितमप्यतुलं त्वया सुखमिदं समवाप्य च तत्र ते ॥
तदपहाय न शक्तिकृतः क्षणं तमु नमामि च सात्वतनायकम् ॥ ३१ ॥
नद्य ऊचुः ॥
वरद नमनमात्रं नामसङ्कीर्तनं वा विदधति तव ये वै ज्ञानतोऽज्ञानतो वा ॥
जनिमृतियमभीतेस्तानपि त्रायमाणं नरसखमुपयाताः स्मोऽद्य नारायणं त्वाम् ॥ ३२ ॥
देवपत्न्य ऊचुः ॥
भुवि धृताकृतेर्जन्म मङ्गलं चरितमद्भुतं लोकपावनम् ॥
भवति निर्गुणं सर्वमेव ते भवसि निर्गुणब्रह्म यत्परम् ॥ ३३ ॥
तव समाश्रयात्तामसा जना अपि च राजसाः सात्त्विकाश्च ये ॥
ननु भवन्ति ते निर्गुणास्ततो वयमुपास्महे त्वां हि निर्गुणम् ॥ ३४ ॥
ऋषिपत्न्य ऊचुः ॥
आर्तानामुरुवृजिनैस्त्रिधा च तापैः सर्वापत्प्रशमनमेकमेव विष्णोः ॥
पादाब्जं तव भवतीति तद्वयं वै प्राप्ताः स्मः शरणमनन्त देवदेव ॥ ३५ ॥
पृथिव्युवाच ॥
पूर्णशारदसुधाकराननं शारदाब्जदलदीर्घलोचनम् ॥
श्रीवियोगबहुधार्तिमोचनं वाऽसुदेवमहमेकमाश्रये ॥ ३६ ॥
सरस्वत्युवाच ॥
नयने ममाच्युत तवातिसुन्दरे मुखशीतरोचिषि चकोरतां गते ॥
न हि गच्छतोऽन्यत इतीयमेव मे हृदि मूर्तिरस्तु सततं नहीतरा ॥ ३७ ॥
स्कन्द उवाच ॥
इति स्तुतोऽखिलैर्देवैः सोभिनन्द्य दृशैव तान् ॥
प्राह श्रियं शुभे पश्य देवादींस्त्वमिमानिति ॥ ३८ ॥
ततः समीक्षिताः प्रीत्या तया मधुरया दृशा ॥
त्रिलोकीवासिनः सर्वे ऋद्धा आसन्यथा पुरा ॥ ३९ ॥
लेभिरे स्वस्वऋद्धिं ते गृहिणस्त्यागिनोपि च ॥
धर्मादयश्च सानन्दं प्रचरन्ति स्म पूर्ववत् ॥ 2.9.15.४० ॥
तस्याः श्रियश्च भगवान्ददौ स्थानमुरः स्वकम् ॥
तत्र स्थित्वैव सा व्यापत्त्रैलोक्यं सम्पदात्मना ॥ ४१ ॥
ततो रत्नाकरः स्वस्माच्छ्रीजनेरनुभावतः ॥
बभूवान्वर्थसञ्ज्ञो वै सम्पूर्णक्षयरत्नवान् ॥ ४२ ॥
चतुर्विधैर्बहुरसैः सदन्नैरमृतोपमैः ॥
सर्वान्समागतांस्तत्र तर्पयामास सादरम् ॥ ४३ ॥
अनर्घ्याणि च वस्त्राणि रत्नभूषाः परिच्छदान् ॥
देवादिभ्यो ददौ प्रीत्या सर्वेभ्योपि पृथक्पृथक् ॥ ४४ ॥
जामातुस्तुष्टये स्वस्य तदीयेभ्यस्तदाम्बुधेः ॥
नासीत्किमप्यदेयं वै घनवद्धनवर्षिणः ॥ ४५ ॥
भगवानपि तद्दत्तं यौतकं च धनं बहु ॥
ब्राह्मणेभ्यः प्रदायैव श्रिया सह तिरोदधे ॥ ४६ ॥
लक्ष्मीनारायणाभ्यां ते भृशमानन्दिताः सुराः ॥
इन्द्रादयो दिवं जग्मुः स्वंस्वं धामाऽपरे ययुः ॥ ४७ ॥
अधिकारं च सम्प्राप्य यथापूर्वं निजन्निजम् ॥
सर्वेपि सुखिनो जाताः प्रसादात्कमलापतेः ॥ ४८ ॥
मन्दरं च गिरिं तार्क्ष्यः पुनर्भगवदाज्ञया ॥
स्वस्थानं समुपानीय स्थापयामास लीलया ॥ ४९ ॥
एवमिन्द्रेण ब्रह्मर्षे नष्टा ब्राह्मणशापतः ॥
उपलब्धा पुनः सम्पन्नारायणप्रसादतः ॥ 2.9.15.५० ॥
य एतां शृणुयात्पुण्यां कथां भगवतो मुने ॥
कीर्तयेत्प्रयतो वापि सम्पदं प्राप्नुतो हि तौ ॥ ५१ ॥
गृहिणां धनसिद्धिः स्यात्त्यागिनां च यथेप्सिता ॥
भक्तिज्ञानविरागादेर्भवेत्सिद्धिरनेन वै ॥ ५२ ॥
इति ते कथितं ब्रह्मन्यथेन्द्रः प्राप सम्पदम् ॥
नारदोपि यथा श्वेतं द्वीपं स गतवानृषिः ॥
तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकेन चैतसा ॥ ५३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये लक्ष्मीनारायणस्तुतिनिरूपणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥