०१० श्रीवासुदेवप्रसादनिरूपणम्

सावर्णिरुवाच ॥
कथं प्राप्ता पुनः स्कन्द श्रीरिन्द्रेण गताम्बुधिम् ॥ एतां कथय मे सर्वां कथां नारायणाश्रयाम् ॥ १ ॥
स्कन्द उवाच ॥
श्रिया विहीनो देवेन्द्रः श्रीहीनैरपि दानवैः ॥
पराजितो हृतस्थानो नष्टाशेषपरिच्छदः ॥ २ ॥
गिरिगह्वरकुञ्जेषु काननेषु ततस्ततः ॥
परिबभ्राम सहितो दिगीशैर्वरुणादिभिः ॥ ३ ॥
वल्कलाजिन वस्त्राश्च पशुपक्ष्यामिषाशनाः ॥
देवा दैत्या नरा नागास्तुल्याचारपरिच्छदाः ॥४॥
पात्राणि मृन्मयान्येव सर्वेषामपि वेश्मसु ॥
आसन्वराकाः सर्वेपि पिशाच्य इव च स्त्रियः ॥ ५ ॥
आदावभूदनावृष्टिर्भुवि द्वादशवार्षिकी ॥
ततो वर्षे क्वचिद्वृष्टिरासीत्स्वल्पा क्वचिन्न च ॥ ६ ॥
इत्थं दारिद्र्यदुःखानां तेषां वर्षशतं गतम् ॥
बलिष्ठारब्धकर्माणस्तेऽतिदुःखेपि नो मृताः ॥ ७ ॥
अजीवन्त मृतप्राया नरकेष्विव नारकाः ॥
यतन्तोपि श्रियः प्राप्त्यै यज्ञाद्यैर्न्नाऽलभन्त ताम् ॥ ८ ॥
ततः सहस्रवर्षान्ते मेरौ शरणमाययुः ॥
शापाद्दुर्वाससो देवाः सर्वे दुर्वाससो विधिम् ॥ ९ ॥
प्रणम्य तस्मै दुःखं स्वं वासवाद्या न्यवेदयन् ॥
आदावेव हि सोऽज्ञासीत्सर्वज्ञत्वात्सुरापदम् ॥ 2.9.10.१० ॥
उपालभ्य ततश्चेन्द्रं विरिञ्चः सहशङ्करः ॥
तद्दुःखवारणा कल्पो विष्णुमैच्छत्प्रसादितुम् ॥ ११ ॥
आराधयिष्यंस्तपसा ततोऽसौ तं तपःप्रियम् ॥
सर्वदेवगणोपेत उपायात्क्षीरसागरम् ॥ १२ ॥
तस्योत्तरे तटे रम्ये सर्वे तेऽनशनव्रताः ॥
एकपादस्थिता ऊर्द्ध्वबाहवश्चक्रिरे तपः ॥ १३ ॥
केशवं हृदि ते दध्युः सर्वक्लेशविनाशनम् ॥
लक्ष्मीपतिं वासुदेवमेकाग्रकृतमानसाः ॥ १४ ॥
शताब्दान्ते ततो विष्णुः श्रीकृष्णो भगवान्स्वयम् ॥
अत्यापन्नेषु दीनेषु कृपां देवेषु सोऽकरोत्॥ ॥ १५ ॥
अदृश्यमूर्तिरात्मज्ञैरपि भूरितपस्विभिः ॥
तत्राविरासीत्कृपया नियुताहस्करद्युतिः ॥ १६ ॥
तेजोमण्डलमेवादौ सहसा स्फुरितं महत् ॥
ददृशुर्विबुधाः सर्वे सितं घनमनौपमम् ॥ १७ ॥
ब्रह्मा शिवश्च तन्मध्ये ददृशाते रमापतिम् ॥
घनश्यामं चतुर्बाहुं गदाब्जाब्जारिधारिणम् ॥ १८ ॥
किरीटकाञ्चीकटककुण्डलादिविभूषितम् ॥
पीतकौशेयवसनं दिव्यसुन्दरविग्रहम् ॥ १९ ॥
हर्षविह्वलितान्मानौ दण्डवत्तौ प्रणेमतुः ॥
तदिच्छयाऽथ देवाश्च दृष्ट्वा तं च मुदाऽऽनमन् ॥ 2.9.10.२० ॥
बभूवुरतिहृष्टास्ते निधिं प्राप्याऽधना इव ॥
बद्धाञ्जलिपुटाः सर्वे भक्त्या तं तुष्टुवुः सुराः ॥ २१ ॥
देवा ऊचुः ॥
ॐनमो भगवते तुभ्यं वासुदेवाय धीमहि ॥
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ २२ ॥
ॐकारब्रह्मरूपाय त्रेधाविष्कृतमूर्तये ॥
ब्रह्माण्डसर्गस्थित्यन्तहेतवे निर्गुणाय च ॥ २३ ॥
नयनानन्दरूपाय प्रणतक्लेशनाशिने ॥
केशवाय नमस्तुभ्यं स्वतन्त्रेश्वरमूर्तये ॥ २४ ॥
मोदिताशेषभक्ताय कालमायादिमोहिने ॥
सदानन्दाय कृष्णाय नमः सद्धर्मवर्त्तिने॥ ॥ २५ ॥
भवाम्बुधिनिमग्रानामुद्धृतिक्षमकीर्तये ॥
दर्शनीयस्वरूपाय घनश्यामाय ते नमः ॥ २६ ॥
गदाब्जदरचक्राणि बिभ्रते दीर्घबाहुभिः ॥
सुरगोविप्रधर्माणां गोप्त्रे तुभ्यं नमोनमः ॥ २७ ॥
वरेण्याय प्रपन्नानामभीष्टवरदायिने ॥
निगमागमवेद्याय वेदगर्भाय ते नमः ॥२८ ॥
तेजोमण्डलमध्यस्थ दिव्यसुन्दरमूर्तये ॥
नमामो विष्णवे तुभ्यं परात्परतराय च॥२९॥
वाणीमनोविप्रकृष्टमहिम्नेऽक्षररूपिणे॥
सर्वान्तर्यामिणे तुभ्यं बृहते च नमोनमः ॥ 2.9.10.३० ॥
सुखदोसि त्वमेवैकः स्वाश्रितानामतो वयम् ॥
महापदधिकक्लिष्टाः शरणं त्वामुपागताः ॥ ३१ ॥
देवाधिदेवभक्तस्य तव दुर्वाससो वयम् ॥
अतिक्रमाच्छ्रिया हीनाः प्राप्ताः स्मो दुर्दशामिमाम् ॥ ३२ ॥
वासोन्नपानस्थानादिहीनान्धर्मोपि नः प्रभो ॥
त्यक्त्वा सह श्रिया यातस्तान्पातुं त्वमसीश्वरः ॥ ३३ ॥
यतो वयं च धर्मश्च त्वदीया इति विश्रुताः ॥
यथापूर्वं सुखीकर्त्तुं त्वमेवार्हस्यतो हि नः ॥ ३४ ॥
स्कन्द उवाच ॥
इति सम्प्रार्थितो देवैर्भगवान्स दयानिधिः ॥
उवाचानन्दयन्वाचा मेघगम्भीरया सुरान् ॥ ३५ ॥
श्रीभगवानुवाच ॥
विदितं मे सुराः सर्वं कष्टं वः सदतिक्रमात् ॥
उपायं कुरुताद्यैव वच्मि यत्तन्निवृत्तये ॥ ३६ ॥
ओषधीरम्बुधौ सर्वाः क्षिप्त्वा मन्दरभूभृता ॥
नागराजवरत्रेण मन्थध्वमसुरैः सह ॥ ३७ ॥
आदौ सन्धाय दनुजैः कुरुताम्बुधिमन्थनम् ॥
साहायं वः करिष्यामि खेदः कार्यो न तत्र वः ॥ ३८ ॥
अमृतं च श्रियो दृष्टिं प्राप्य पूर्वाधिकौजसः ॥
भवितारो मद्विमुखा दैत्यास्तु क्लेशभागिनः ॥ ३९ ॥
स्कन्द उवाच ॥
इत्युक्त्वान्तर्दधे विष्णुर्भक्तसङ्कटनाशनः ॥
देवास्तस्मै नमस्कृत्य तदुक्तं कर्तुमारभन् ॥ 2.9.10.४० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णव खण्डे श्रीवासुदेवमाहात्म्ये श्रीवासुदेवप्रसादनिरूपणं नाम दशमोऽध्यायः ॥१०॥