००९ हिंस्रयज्ञप्रवृत्तिहेतुनिरूपणम्

स्कन्द उवाच ॥
भाविधर्मविपर्यासकालवेगवशोऽथ सः ॥
नाहं क्षमिष्य इत्युक्त्वा कैलासं प्रययौ मुने ॥ १ ॥
त्रैलोक्याच्छ्रीरपि तदा समुद्रेन्तर्द्धिमाययौ ॥
इन्द्रं विहायाप्सरसः सर्वशः श्रियमन्वयुः ॥ २ ॥
तपः शौचं दया सत्यं पादः सद्धर्मऋद्धयः ॥
सिद्धयश्च बलं सत्त्वं सर्वतः श्रियमन्वयुः ॥ ३ ॥
गजादीनि च यानानि स्वर्णाद्याभूषणानि च ॥
चिक्षिपुर्मणिरत्नानि धातूपकरणानि च ॥ ४ ॥
अन्नान्यौषधयः स्नेहाः कालेनाल्पेन चिक्षियुः ॥
न क्षीरं धेनुमहिषीप्रमुखानां स्तनेष्वऽभूत् ॥ ५ ॥
नवापि निधयो नष्टाः कुबेरस्यापि मन्दिरात ॥
इन्द्रः सहामरगणैरासीत्तापससन्निभः ॥ ६ ॥
सर्वाणि भोगद्रव्याणि नाशमीयुस्त्रिलोकतः ॥
देवा दैत्या मनुष्याश्च सर्वे दारिद्यपीडिताः ॥ ७ ॥
कान्त्या हीनस्ततश्चन्द्रः प्रापाम्बुत्वं महोदधौ॥
अनावृष्टिर्महत्यासीद्धान्यबीजक्षयङ्करी ॥ ८ ॥
क्वान्नं क्वान्नेति जल्पन्तः क्षुत्क्षामाश्च निरोजसः ॥
त्यक्त्वा ग्रामान्पुरश्चोषुर्वनेषु च नगेषु च ॥९॥
क्षुधार्त्तास्ते पशून्हत्वा ग्राम्यानारण्यकांस्तथा ॥
पक्त्वाऽपक्त्वापि वा केचित्तेषां मांसान्यभुञ्जत ॥ 2.9.9.१० ॥
विद्वांसो मुनयश्चाऽथ ये वै सद्धर्मचारिणः ॥
म्रियमाणाः क्षुधाऽथापि नाश्नन्त पललानि तु ॥ ११ ॥
तदा तु वृद्धा ऋषयस्तान्दृष्ट्वाऽनशनादृतान् ॥
मनुभिः सह वेदोक्तमापद्धर्ममबोधयन् ॥ १२ ॥
मुनयः प्रायशस्तत्र क्षुधा व्याकुलितेन्द्रियाः ॥
परोक्षवादवेदार्थान्विपरीतान्प्रपेदिरे ॥ १३ ॥
अर्थं चाजादिशब्दानां मुख्यं छागादिमेव ते ॥
बुबुधुश्चाऽथ ते प्राहुर्यज्ञान् कुरुत भो द्विजाः ॥ १४ ॥
या वेदविहिता हिंसा न सा हिंसास्ति दोषदा ॥
उद्दिश्य देवान्पितॄंश्च ततो घ्नत पशूञ्छुभान्॥ १५ ॥
प्रोक्षितं देवताभ्यश्च पितृभ्यश्च निवेदितम् ॥
भुञ्जत स्वेप्सितं मांसं स्वार्थं तु घ्नत मा पशून् ॥१६॥
ततो देवर्षिभूपाला नराश्च स्वस्वशक्तितः ॥
चक्रुस्तैर्बोधिता यज्ञानृते ह्येकान्तिकान्हरेः॥१७॥
गोमेधमश्वमेधं च नरमेधमुखान्मखान् ॥
चक्रुर्यज्ञावशिष्टानि मांसानि बुभुजुश्च ते॥१८॥
विनष्टायाः श्रियः प्राप्त्यै केचिद्यज्ञांश्च चक्रिरे ॥
स्त्रीपुत्रमन्दिराद्यर्थं केचिच्च स्वीयवृत्तये ॥ १९॥
महायज्ञेष्वशक्तास्तु पितॄनुदिश्य भूरिशः ॥
निहत्य श्राद्धेषु पशून्मांसान्यादंस्तथाऽऽदयन् ॥ 2.9.9.२० ॥
केचित्सरित्समुद्राणां तीरेष्वेवावसञ्जनाः ॥
मत्स्याञ्जालैरुपादाय तदाहारा बभूविरे ॥२१॥
स्वगृहागतशिष्टेभ्यः पशूनेव निहत्य च ॥
निवेदयामासुरेते गोछागप्रमुखान्मुने ॥ २२ ॥
सजातीयविवाहानां नियमश्च तदा क्वचित् ॥
नाभवद्धर्मसाङ्कर्याद्वित्तवेश्माद्यभावतः ॥२३॥॥
ब्राह्मणाः क्षत्रियादीनां क्षत्राद्या ब्रह्मणां सुताः ॥
उपयेमिरे कालगत्या स्वस्ववंशविवृद्धये ॥ २४ ॥
इत्थं हिंसामया यज्ञाः सम्प्रवृत्ता महापदि ॥
धर्मस्त्वाभासमात्रोऽस्थात्स्वयं तु श्रियमन्वगात् ॥ २५ ॥
अधर्मः सान्वयो लोकांस्त्रीनपि व्याप्य सर्वतः ॥
अवर्द्धताऽल्पकालेन दुर्निवार्यो बुधैरपि ॥ २६ ॥
दरिद्राणामथैतेषामपत्यानि तु भूरिशः ॥
तेषां च वंशविस्तारो महाल्ँलोकेष्ववर्द्धत ॥ २७ ॥
विद्वांसस्तत्र ये जातास्ते तु धर्मं तमेव हि ॥
मेनिरे मुख्यमेवाऽथ ग्रन्थांश्चक्रुश्च तादृशान् ॥ २८ ॥
ते परम्परया ग्रन्थाः प्रामाण्यं प्रतिपेदिरे ॥
आद्ये त्रेतायुगे हीत्थमासीद्धर्मस्य विप्लवः ॥ २९ ॥
ततःप्रभृति लोकेषु यज्ञादौ पशुहिंसनम् ॥
बभूव सत्ये तु युगे धर्म आसीत्सनातनः ॥ 2.9.9.३० ॥
कालेन महता सोपि सह देवैः सुराधिपः ॥
आराध्य सम्पदं प्राप वासुदेवं प्रभुं मुने ॥ ३१ ॥
ततो धर्मनिकेतस्य श्रीपतेः कृपया हरेः ॥
यथापूर्वं च सद्धर्मस्त्रिलोक्यां सम्प्रवर्त्तत ॥ ३२ ॥
तत्रापि केचिन्मुनयो नृपा देवाश्च मानुषाः ॥
कामक्रोधरसास्वादलोभोपहतसद्धियः ॥
तमापद्धर्ममद्यापि प्राधान्येनैव मन्वते ॥ ३३ ॥
एकान्तिनो भागवता जितकामादयस्तु ये ॥
आपद्यपि न तेऽगृह्णंस्तं तदा किमुताऽन्यदा ॥ ३४ ॥
इत्थं ब्रह्मन्नादिकल्पे हिंस्रयज्ञप्रवर्त्तनम् ॥
यथासीत्तन्मयाख्यातमापत्कालवशाद्भुवि ॥ ३५ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये हिंस्रयज्ञप्रवृत्तिहेतुनिरूपणं नाम नवमोऽध्यायः ॥ ९ ॥