००५ उपरिचरवसुसद्गुणवर्णनम्

॥ स्कन्द उवाच ॥
आसीद्राजोपरिचरो वसुनामा पुरा मुने ॥
भूभर्त्तुरायोस्तनयः ख्यातश्चासावमावसुः ॥
आखण्डलसखो भक्तिं प्राप्तो नारायणे प्रभौ ॥ १ ॥
धार्मिकः पितृभक्तश्च पितॄन्देवांश्च तर्पयन् ॥
सदाचाररतो दक्षः क्षमावाननसूयकः ॥ २ ॥
सर्वोपकारकः शान्तो ब्रह्मचर्यरतः शुचिः ॥
अक्रोधनश्च मितभुङ्मृदुर्निर्व्यसनो मुनिः ॥ ३ ॥
निर्द्वन्द्वो निर्विकारश्च निर्मानो धीर आत्मवित् ॥
निर्द्दम्भो मानदो योगी तपस्वी विजितेन्द्रियः ॥ ४ ॥
धनपुत्रकलत्रेषु विरक्तः स्वजनादिषु ॥
नारायणमनुं भक्त्या स जजापान्वहं नृपः ॥ ५ ॥
तस्मै तुष्टोऽथ भगवान्वासुदेवः स्वयं ददौ ॥
साम्राज्यं सोऽथ नासक्तस्तत्र भेजे तमादरात् ॥ ६ ॥
तत्रोक्तेन विधानेन पञ्चकालसमाहितः ॥
पूजयामास देवेशं तच्छेषेण सुरान्पितॄन्॥७॥
तेषां शेषेण विप्राश्च संविभज्याश्रितांश्च सः ॥
शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः॥ ॥ ८ ॥
भक्षणे दोषमविदत्प्राणिमात्रामिषस्य तु ॥
महापातकवद्राजा स्वप्रजाश्च तथाऽवदत् ॥ ९॥
सर्वभावेन भेजेऽसौ देवदेवं जनार्दनम् ॥
अनादिमध्यनिधनं लोककर्त्तारमव्ययम्॥2.9.5.१०॥
श्रीवासुदेवपदयोः स चकार मनः स्थिरम् ॥
श्रोत्रे च नित्यं भगवत्कथायाः श्रवणे नृपः ॥११॥
नयने स्वे मुकुन्दस्य तद्भक्तानां च दर्शने॥
गुणगाने हरेर्वाणीं चक्रे भूमिपतिः स तु॥१२॥
नारायणाङ्घ्रिसंस्पृष्ट तुलसीपुष्पसौरभे॥
प्राणं चकार च नृपो नान्यगन्धेषु कर्हिचित्॥ १३ ॥
श्रीशोपभुक्तवस्त्रादि स्पर्शने च त्वचं निजाम्॥
चकार रसनामन्ने नारायणनिवेदिते॥ १४ ॥
भगवन्मन्दिरक्षेत्रसदन्तिकगतौतथा॥
चकार चरणौ राजा सेवायां च करौ हरेः॥१५॥
उत्तमाङ्गं च चक्रेऽसौ विष्णुपादाभिवन्दने॥
सख्यं चकार परमं महाभागवतेषु सः॥१६॥
एकोपि न क्षणस्तस्य विना भक्तिं रमापतेः ॥
जगाम किल राजर्षेस्तदीय व्रतचारिणः ॥१७ ॥
महद्भिरेव सम्भारैर्विष्णोर्ज्जन्मदिनोत्सवान् ॥
चक्रे तदर्थमुद्यानमन्दिरोपवनानि च ॥ १८ ॥
इत्थं नारायणे भक्तिं वहतो ब्राह्मणोत्तम ॥
एकशय्यासनं तस्य दत्तवान्देवराट् स्वयम् ॥ १९ ॥
वैजयन्तीं ददौ मालां तस्मा इन्द्रोऽतिशोभनाम् ॥
अम्लानपङ्कजमयीं तथा रत्नानि भूरिशः ॥ 2.9.5.२० ॥
आत्मा राज्यं धनं चैव कलत्रं वाहनादि च ॥
यत्तद्भगवतः सर्वमिति तत्प्रेक्षितं सदा ॥ २१ ॥
काम्या नैमित्तिकाजस्रं यज्ञियाः परमाः क्रियाः ॥
सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः ॥ २२ ॥
पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः ॥
प्रायणं भगवत्प्रत्तं भुञ्जतेस्माग्रतो द्विजाः ॥ २३ ॥
तस्य प्रशासतो राज्यं धर्मेणाऽमित्रघातिनः ॥
नानृता वाक्समभवन्मनो दुष्टं न चाऽभवत् ॥
न च कायेन कृतवान्स पापं परमण्वपि ॥ २४ ॥
पञ्चरात्रं महातन्त्रं भगवद्भक्तिपुष्टये ॥
शुश्रावानुदिनं राजा भगवद्भक्तवक्त्रतः ॥ २५ ॥
धर्मं संस्थापयञ्छुद्धं रञ्जयन्सकलाः प्रजाः ॥
पालयामास पृथिवीं दिवमाखण्डलो यथा ॥ २६ ॥
अपि सप्तविधस्तस्य राज्ये पललभक्षकः ॥
पुमान्कोप्यभवन्नैव न च पाषण्डवेषिणः ॥ २७ ॥
असाध्यो योषितश्चैव पुरुषाः पारदारिकाः ॥
न श्रुतास्तस्य राज्ये च धर्मसङ्करकारिणः ॥ २८ ॥
एकादशविधं मद्यं त्रिविधां च सुरामपि ॥
नाजिघ्रदपि कोपीह तस्मिन्राज्यं प्रशासति ॥ २९ ॥
एवङ्गुणः स तु क्वापि पक्षपाताद्दिवौकसाम् ॥
मिथ्यालापाद्दिवो भ्रष्टः प्रविवेश महीतलम् ॥ 2.9.5.३० ॥
अन्तर्भूमिगतश्चासौ सततं धर्मवत्सलः ॥
नारायणपरो भूत्वा तन्मन्त्रमजपत्स्थिरः ॥ ३१ ॥
तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः ॥
दिवं प्राप्य सुखं तत्र मनोभीष्टं समन्वभूत् ॥ ३२ ॥
पुनश्चेदिपतिर्भूत्वा भुव्यसौ पितृशापतः ॥
पञ्चरात्रोक्तविधिना भेजे हरिमतन्द्रितः ॥ ३३ ॥
स्वर्गलोकं ततः प्रापद्दिव्यदेहेन भूपतिः ॥
उपासनां च तत्रत्यैः परमर्षिगणैः सह ॥ ३४॥
दृढीकुर्वन्भगवतः कञ्चित्कालमुवास तत् ॥
परं पदमथ प्रापद्वासुदेवस्य निर्भयम्॥३५॥
॥ ॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्य उपरिचरवसुसद्गुणवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥