००४ श्वेतद्वीपमुक्तवर्णनम्

॥ स्कन्द उवाच ॥
स एवमुक्तोत्मविदां वरिष्ठो नारायणेनोत्तमपूरुषेण ॥
जगाद वाक्यं जगतां गरिष्ठं तमच्युतं लोकहिताधिवासम् ॥ १ ॥
नारद उवाच ॥
श्रुतं मया देव समं त्वयोक्तमृष्याकृतिच्छादितभूरिधाम्ना ॥
तवैव लीला सकलेयमीश सर्वेश्वरस्येति विदामि चित्ते ॥ २ ॥
त्वद्दर्शनेनैव हि पूर्णकामो भवामि भूमन्स्वहृदीप्सितेन ॥
तथाप्यहं तत्तव पूर्वरूपं प्रभो दिदृक्षामि हि कौतुकं मे ॥ ३ ॥
श्रीनारायण उवाच ॥
न तत्स्वरूपं मम दानयज्ञयोगैश्च वैदेस्तपसापि दृश्यम् ॥
एकान्तिकैर्भक्तवरैस्तु भक्त्या ह्यनन्यया नारद दृश्यते तत् ॥ ४ ॥
भक्तिस्तव त्वस्ति मयि ह्यनन्या ज्ञानं च वैराग्ययुतं स्वधर्मः ॥
अतश्च तद्दर्शनमाप्स्यसि त्वं सुरेश्वराद्यैरपि यद्दुरापम् ॥ ५ ॥
त्वदीयभक्त्याऽतितरा प्रसन्नस्त्वाज्ञापयाम्यद्य तदीक्षणाय ॥
सितान्तरीपं व्रज तत्र तेऽयं मनोरथः सेत्स्यति विप्रवर्य ॥ ६ ॥
स्कन्द उवाच ॥
श्रुत्वेति वाचं परमेष्ठिपुत्रः सोप्यर्च्चयित्वा तमृषिं पुराणम् ॥
खमुत्पपातोत्तमयोगयुक्तस्ततोधिमेरौ सहसा निपेते ॥ ७ ॥
तस्यावतस्थे च मुनिर्मुहूर्त्तमेकान्तमासाद्य गिरेः स शृङ्गे ॥
आलोकयन्नुत्तरपश्चिमेन ददर्श चात्यद्भुतमन्तरीपम् ॥ ८ ॥
क्षीरोदधेरुत्तरतो हि द्वीपः श्वेतः स नाम्ना प्रथितो विशालः ॥
देदीप्यमानो विततेन सर्वतो ज्योतिश्चयेनातिसि तेन नित्यम् ॥ ९ ॥
आम्रैरनेकैरसनैरशोकैराम्रातकैर्निम्बकदम्बनीपैः ॥
बिल्वैर्मधूकैः सुरदारुभिश्च प्लक्षैर्वटैः किंशुकचन्दनैश्च ॥ 2.9.4.१० ॥
सर्ज्जैश्च शालैः पनसैस्तमालैर्मुनिद्रुमैः केतकचम्पकैश्च ॥
कुन्दैश्च जातीसुरमल्लिकाभिद्रुमैर्वृतः पुष्पफलावनम्रैः ॥ ११ ॥
कल्पद्रुमाणां बहुभिश्च वृन्दैः सुवर्णरम्भाक्रमुकालिभिश्च ॥
महद्भिरुद्यानवरैरनेकैः सरित्सरोभिर्विकचाम्बुजैश्च ॥
हंसादिभिः पक्षिवरैः सुशब्दैर्गणैर्मृगाणां रुचिरैश्चलद्भिः ॥ १२ ॥
सर्वेपि जीवाः किल यत्र मुक्ता वसन्ति च स्थावरजङ्गमाश्च ॥
तं वीक्षमाणेन च तेन दृष्टा भक्तोत्तमाः श्रीपुरुषोत्तमस्य ॥ १३ ॥
अतीन्द्रिया निर्गतसर्वपापा निष्यन्दहीनाश्च सुगन्धिनश्च ॥
द्विबाहवः केपि चतुर्भुजाश्च श्वेताश्च केचिन्नवनीरदाभाः॥ ॥ १४ ॥
पद्मच्छदाक्षाः सममानगात्राः सुरूपदिव्यावयवाः सुसाराः ॥
विकीर्णकेशाश्च सदा किशोरा सद्भिश्च चिह्नैर्न्निखिलैरुपेताः ॥ १५ ॥
सरोजरेखाङ्कितपाणिपादाः षडूर्मिहीना मिहिरातितेजसः ॥
सितांशुका ध्यानपराश्च सौम्याः कालोपि येभ्यो भयमेति नित्यम्॥ १६ ॥
सावर्णिरुवाच ॥
अतीन्द्रिया निरातङ्का अनिष्यन्दाः सुगन्धिनः ॥ के ते नराः कथं जातास्तादृशाः का च तद्गतिः ॥ १७ ॥
श्वेतद्वीपः पयोम्भोधौ वर्त्तते हि धरातले ॥ तद्वासिनामपि कथं प्रोक्ताऽतीन्द्रियता त्वया ॥१८॥
ये ब्रह्मण्यक्षरे धाम्नि सच्चिदानन्दरूपिणि॥ स्थिताः स्युश्चिन्मया मुक्तास्ते तथा स्युर्न्नहीतरे ॥ १९ ॥
एतं मे संशयं छिन्धि परं कौतूहलं हि मे ॥ त्वं हि सर्वकथाभिज्ञस्ततस्त्वामाश्रितोस्मयहम् ॥ 2.9.4.२० ॥
स्कन्द उवाच ॥
एकान्तोपासनेनैव प्राक्कल्पेषु रमापतेः ॥ ये ब्रह्मभावं सम्प्राप्ता अजरामरतां गताः ॥ २१ ॥
अक्षराख्याः पुमांसस्ते श्वेतद्वीपेऽत्र धामनि ॥ सेवितुं वासुदेवं तं स्थिता देवर्षिणेक्षिताः ॥२२ ॥
प्राप्ते प्रलयकाले तु पुनश्चाक्षरधामनि ॥ स्थास्यन्ति ते स्वतन्त्राश्च कालमायाभयोज्झिताः ॥ २३ ॥
अत्रापि पुरुषा ये तु मायाजाता अतः क्षराः ॥ तेपि सद्भिः साधनैर्वै जायन्ते तादृशाः किल ॥ २४ ॥
अहिंसया च तपसा स्वधर्मेण विरागतः ॥ वासुदेवस्य माहात्म्यज्ञानेनैवात्मनिष्ठया ॥ २५॥
भक्त्या परमया नित्यं प्रसङ्गेन महात्मनाम् ॥ हरिसेवाविहीनानां मुक्तीनामप्यनिच्छया ॥ २६ ॥
सिद्धीनामणिमादीनां सर्वासां चाप्यकाङ्क्षया ॥ अन्योन्यं श्रुतिकीर्तिभ्यां श्रीहरेर्जन्मकर्मणाम् ॥
भवन्ति तादृशा नूनं पुरुषा मुनिसत्तम ॥ २७ ॥
जगत्सर्गे जायमानेप्येते कालवशात्क्वचित् ॥ न जायन्ते स्वतन्त्रत्वान्न नश्यन्ति लयेऽन्यवत् ॥ २८ ॥
अत्र ते कथयिष्यामि कथां पौराणिकीं मुने ॥ यथात्रत्योपि मनुजस्तथा भावमुपेयिवान्॥ २९ ॥
विस्तीर्णैषा कथा ब्रह्मञ्छ्रुता मे पितृसन्निधौ ॥ सैषाद्य तव वक्तव्या कथासारो हि स स्मृतः ॥ 2.9.4.३० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्वेतद्वीपमुक्तवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥