००३ श्रीवासुदेवसर्वोपास्यत्वनिरूपणम्

॥ नारद उवाच ॥
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे ॥
त्वमेव शाश्वतो धाता नियन्तामृतमच्युत ॥
त्वं विधाता च सततं त्वयि सर्वमिदं जगत् ॥ १ ॥
चत्वारो ह्याश्रमा देव सर्वे वर्णाश्च कर्मभिः ॥
यजन्ते त्वामहरहर्न्नानामूर्त्तिसमास्थितम् ॥ २ ॥
पिता माता च सर्वस्य दैवतं त्वं हि शाश्वतम् ॥
कं त्वं च यजसे देवं पितरं वा न विद्महे ॥ ३ ॥
श्रीनारायण उवाच ॥
नैतद्रहस्यं वक्तव्यमात्मगुह्यमथापि ते ॥
मयि भक्तिमते ब्रह्मन्प्रवक्ष्यामि यथातथम् ॥ ४ ॥
सत्यं ज्ञानमनन्तं यो ब्रह्मेति श्रुतिवर्णितः ॥
त्रिगुणव्यतिरिक्तश्च पुरुषो दिव्यविग्रहः ॥५॥
महापुरुष इत्युक्तो वासुदेवश्च यः प्रभुः ॥
नारायण ऋषिर्विष्णुः कृष्णश्च भगवानिति ॥६॥
एकः स एव देवो नौ पितरौ चेति विद्धि भोः ॥
आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते ॥७॥
नास्ति तस्मात्परतरः पिता देवोऽथ वा द्विज ॥ ]
आत्मा हि नौ स विज्ञेयः कृष्णो ब्रह्मपुरेश्वरः ॥८॥
तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभावनी॥
दैवं पित्र्यं च कर्तव्यमिति लोकहितैषिणा ॥ ९॥
प्रवृत्तं च निवृत्तं च द्वेधा कर्मास्ति वैदिकम् ॥
यथाधिकारं विहितं पुरुषार्थोपलब्धये ॥2.9.3.१०॥
तन्त्रवेदोक्तविधिना स्वोचितस्त्रीपरिग्रहः ॥
वित्तार्जनं च न्यायेन द्रव्ययज्ञाः सकामनाः ॥ ११ ॥
वासो ग्रामे च नगरे पूर्तमिष्टं च कर्म यत् ॥
प्रवृत्तं तत्तु सकलमशान्तिकृदुदीरितम् ॥ १२ ॥
स्त्रीद्रव्ययोः परित्यागः कामलोभक्रुधां तथा ॥
वनवासश्च वैराग्यं तपः क्षान्तिः शमो दमः ॥ १३ ॥
ब्रह्मयज्ञा योगयज्ञा ज्ञानयज्ञाश्च सर्वशः ॥
जपयज्ञाश्चेति मुने निवृत्तं कर्म कीर्तितम् ॥ १४ ॥
त्रिलोक्यां गतयो धर्मं प्रवृत्तमनुतिष्ठताम् ॥
स्वर्गलोकावधि मुने मनुष्याणां भवन्ति वै॥ १५ ॥
इन्द्रचन्द्राग्निलोकादौ स्वस्वपुण्यफलं च ते ॥
भोगैश्वर्यं वहुविधमभीष्टं भुञ्जते खलु ॥ १६ ॥
यावत्पुण्यं तावदेव भुक्त्वा तत्ते सुराऽस्ततः ॥
क्षीणे तु सुकृते भूयः पतन्ति विवशा भुवि ॥ १७ ॥
भोगैश्वर्यादिनाशो हि कालवेगेन जायते ॥
अनिच्छतामपि मुने तेषां पुण्यक्षये सति ॥ १८ ॥
आधिकारिकदेवानामपि ब्रह्मदिने मुहुः ॥
इष्टभोगैश्वर्यनाशो जायते कालरंहसा ॥१९॥
निवृत्तधर्मनिष्ठा ये योगिनश्च तपस्विनः ॥
जनादीन्यान्ति लोकांस्त्रींस्ते तु त्रैलोक्यतो बहिः ॥2.9.3.२०॥
तत्तल्लोकैश्वर्यभोगान्भुञ्जते ते निजेप्सितान् ॥
दैनन्दिनेपि प्रलये वर्त्तन्ते ते यथासुखम् ॥ २१ ॥
ब्रह्मणो द्विपरार्द्धान्ते तद्भोगैश्वर्यसम्पदः ॥
नश्यन्ति कालशक्त्यैव लोकास्तेषां च नारद ॥ २२ ॥
अथैतद्विविधं कर्म गुणात्मकमपि द्विज ॥
कृतं चेद्विष्णुसम्बद्धं निर्गुणं स्यात्तदा तु तत् ॥ २३ ॥
तत्फलं चाक्षयं स्याद्धि स्वेष्टादप्यधिकं नृणाम् ॥
भक्तास्ते भगवद्धाम यान्त्यष्टावृत्तितः परम् ॥ २४ ॥
अतो विवेकिनो नित्यं विष्णुभक्त्यन्विताः क्रियाः ॥
प्रवृत्ता वा निवृत्ता वा कुर्वते सकला अपि ॥ २५ ॥
ब्रह्मा स्थाणुर्मनुर्द्दक्षो भृगुर्द्धर्मस्तथा यमः ॥
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः ॥ २६ ॥
वैभ्राजश्च वसिष्ठश्च विवस्वान्सोम एव च ॥
कश्यपः कर्द्दमाद्याश्च प्रजानां पतयो मुने ॥ २७ ॥
देवाश्च ऋषयः सर्वे सर्वे वर्णास्तथाश्रमाः ॥
पूजयन्ति तमेवेशं प्रवृत्तं धर्ममास्थिताः ॥ २८ ॥
सनः सनत्सुजातश्च सनकः स सनन्दनः ॥
सनत्कुमारः कपिल आरुणिश्च सनातनः ॥ २९ ॥
ऋभुर्यतिश्च हंसाद्या मुनयो नैष्ठिकव्रताः ॥
तमेव पूजयन्तीशं निवृत्तं धर्ममास्थिताः ॥ 2.9.3.३० ॥
वासुदेवस्याङ्गतया भावयित्वा सुरान्पितॄन् ॥
अहिंसपूजाविधिना यजन्ते चान्वहं हि ते ॥ ३१ ॥
यथाधिकारमेते हि तेन यत्र नियोजिताः ॥
प्रवृत्ते वा निवृत्ते वा धर्मे ते पालयन्ति तम् ॥
तस्य देवस्य मर्यादां न क्रामन्त्युभयेपि ते ॥ ३२ ॥
चतुर्वर्गे तेषु यस्य यद्यदिष्टतमं भवेत् ॥
तत्तत्सम्पूरयत्येव सर्व शक्तिपतिः प्रभुः ॥ ३३ ॥
भक्त्या कृतस्याप्यल्पस्य भगवान्पुण्यकर्मणः ॥
प्रीतो ददात्येव फलं महदक्षयमीप्सितम् ॥ ३४ ॥
तेषु तद्भक्तितो लोके ये त्वेकान्तित्वमास्थिताः ॥
वासुदेवं विनान्यत्र सङ्क्षीणाशेषवासनाः ॥ ३५ ॥
देहान्ते ते तु सम्प्राप्य तस्य धाम तमःपरम् ॥
देहैरप्राकृतैरेव प्रेम्णा परिचरन्ति तम् ॥ ३६ ॥
अन्ये तु भक्ताः कालेन तदुपासनदार्ढ्यतः ॥
वासनानां क्षये जाते यान्त्येकान्तिकवद्धि तम् ॥ ३७ ॥
येन केनापि भावेन तेन सम्बध्यते तु यः ॥
संसृतिं न प्रयात्येव स तु क्वाप्यन्यजीववत् ॥ ३८ ॥
कर्मयोगस्य संसिद्धिर्ज्ञानयोगस्य चेप्सिता ॥
तस्याश्रयादेव नृणां निर्विघ्नं भवति द्रुतम्॥ ३९ ॥
तस्मात्स एव भगवान्सवर्रैपि जनैरिह ॥
स्वाभीष्टफलसिद्ध्यर्थं प्रीत्योपास्यो यथाविधि ॥ 2.9.3.४० ॥
ब्रह्मैक्यमाप्ता निर्विघ्ना अपि ब्रह्मशिवादयः ॥
श्रीविष्णोः कुर्वते भक्तिं सन्तीत्थं तन्महागुणाः ॥ ४१ ॥
इति गुह्यसमुद्देशस्तव नारद कीर्त्तितः ॥
अतिप्रेम्णा हि सततं मयि भक्तिमतोऽखिलः ॥ ४२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्रीवासुदेवसर्वोपास्यत्वनिरूपणं नाम तृतीयोऽध्यायः ॥ ३ ॥