००२ नारायणनारदसमागमः

॥ स्कन्द उवाच ॥
महान्तं प्रश्नवित्प्रश्नं पृच्छसि त्वमि हाऽनघ ॥
नास्योत्तरं वर्षशतैर्वक्तुं शक्यं स्वतर्कतः ॥
ऋते देवप्रसादाद्वै ब्रह्मञ्ज्ञानिवरैरपि ॥ १ ॥
वासुदेवप्रसादात्तु मया ज्ञातं वदामि ते ॥
अनाख्येयं न ते किञ्चिद्धर्मनिष्ठाय सन्मते ॥ २ ॥
एवमेव हि पप्रच्छ निवृत्ते भारते रणे ॥
अजातशत्रुर्नृपतिर्भीष्मं धर्म्मविदांवरम् ॥ ३ ॥
शयितं शरशय्यायां ध्यानप्राप्ताच्युतेन च ॥
प्राप्तमैकात्म्यमव्यग्रं निगमागमपारगम् ॥ ४ ॥
युधिष्ठिर उवाच ॥
चतुर्षु तात वर्णेषु चतुर्ष्वप्याश्रमेषु यः ॥
इच्छेच्चतुर्वर्गसिद्धिं देवतां कां यजेत सः॥५॥
निर्विघ्रेन च का सिद्धिः कथं स्यादल्पकालतः ॥
कथं चाप्यल्पसुकृती पदवीं महतीमियात्॥
एतं मे संशयं छिन्धि सर्वज्ञस्त्वं पितामह॥६॥
स्कन्द उवाच ॥
एवं धर्म्मात्मना तेन पृष्टः शान्तनवो मुने॥
किञ्चिज्जहास वीक्ष्यैव श्रीकृष्ण मुखपङ्कजम् ॥ ७ ॥
दृशा स प्रेरितस्तेन नरनारायणोदितम् ॥
श्रीवासुदेवमाहात्म्यं पितुः श्रुतमुवाच तम् ॥ ८ ॥
ततः श्रुत्वा नारदोपि कुरुक्षेत्रं गतः पुनः ॥
कैलास एत्य तत्प्राह पितरं मे स चापि माम् ॥ ९ ॥
तत्तेऽहं सम्प्रवक्ष्यामि निश्छद्म परिपृच्छते ॥
महासदसि निर्णीतं मुनिवर्याऽपसंशयम्॥2.9.2.१०॥
वासुदेवः परं ब्रह्म श्रीकृष्णः पुरुषोत्तमः ॥
देवोऽकामैः सकामैश्च पूज्यो मुक्तैर्नरैरपि ॥ ११ ॥
द्विजातीनां चाश्रमाणां स्त्रीशूद्रादेश्च सर्वथा ॥
स्वस्वधर्मैरेष एव तोषणीयोस्ति भक्तितः ॥ १२ ॥
तस्मात्कर्माखिलमपि दैवं पित्र्यं च सर्वदा ॥
तत्प्रीत्या एव कर्त्तव्यं वेदोक्तं च यथोचितम् ॥ १३ ॥
सुखाप्तये नृभियद्यत्कर्माऽत्र क्रियते शुभम् ॥
अपि स्वनुष्ठितं तच्चेत्कृष्णसम्बन्धवर्जितम् ॥
तदा क्षयिष्ण्वल्पफलं ज्ञेयं तच्च गुणात्मकम्॥ १४ ॥
फलवैगुण्यकृत्तच्चाऽशुभदेशादियोगतः ॥
बहुविघ्नं च तन्नॄणां नैव वाञ्छितसिद्धिदम् ॥ १५ ॥
कर्मैतदेव श्रीकृष्णप्रीणनाय क्रियेत चेत् ॥
तत्सम्बन्धेन तर्ह्येतद्भवेत्सर्वं हि निर्गुणम् ॥ १६ ॥
स्ववाञ्छितादप्यधिकं ददाति फलमक्षयम् ॥
असद्देशादिसम्बन्धात्तद्वैगुण्यभवेन्न च ॥१७॥
विघ्नस्तु कोपि ब्रह्मर्षे प्रतापाच्चक्रपाणिनः ॥
तस्मिन्न प्रभवेत्क्वापि तत्स्यादीप्सितसिद्धिदम् ॥१८॥
यद्यप्यल्पं स्वसुकृतं तथापि परमात्मनः ॥
साक्षात्सम्बन्धतो ब्रह्मन्भवत्येव महत्तरम् ॥ १९ ॥
यथा स्फुलिङ्गमात्रोपि वन्यकाष्ठौघयोगतः ॥
अनिवार्यो भवेद्दावस्तथैतद्धरियोगतः ॥ 2.9.2.२० ॥
प्रवृत्ते वा निवृत्ते वा तस्माद्धर्मे स्थितैर्न्नरैः ॥
उपास्तव्यो वासुदेवस्तत्सम्यक्सिद्धिमीप्सुभिः ॥ २१ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्॥
नारदस्य च संवादमृषेर्नारायणस्य च ॥ २२ ॥
यो वासुदेवो भगवान्नित्यं ब्रह्मपुरे स्थितः ॥
दाक्षायण्यामाविरासीद्धर्माल्लोकहिताय सः ॥ २३ ॥
कृते युगे द्विजवर पुरा स्वायम्भुवान्तरे ॥
नरो नारायणश्चेति द्विरूपः प्रादुरास सः ॥ २४ ॥
धर्माश्रमात्तपस्तप्तुं क्षेमायैव नृणां भुवि ॥
नरनारायणौ तौ च बदर्याश्रममीयतुः ॥२५॥
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसन्ततौ ॥
तेपाते तेजसा स्वेन दुर्निरीक्ष्यौ सुरैरपि ॥ २६ ॥
यस्य प्रसादं कुर्वाते स वै तौ द्रष्टुमर्हति ॥
शक्यते नान्यथा द्रष्टुमपि तद्धामवासिभिः ॥ २७ ॥
एकदा नारदो योगी ताभ्यामेव दिदृक्षितः ॥
अन्तरात्मतया चान्तर्हृदयेपि प्रचोदितः ॥ २८ ॥
मेरोर्महागिरेः शृङ्गात्सद्यो गगनवर्त्मना ॥
तं देशमागमद्ब्रह्मन्बदर्याश्रमसञ्ज्ञितम् ॥ २९ ॥
तयोराह्निकवेलायामागतस्तत्र स द्रुतम् ॥
आद्याश्रमक्रियासक्तौ तौ ददर्श च दूरतः ॥ 2.9.2.३० ॥
दृष्ट्वैवेश्वरचर्यां ता तस्य कौतूहलं त्वभूत् ॥
अहो एतौ जगत्पूज्यावीश्वरौ सर्वदेहिनाम् ॥
एतौ हि परमं ब्रह्म काऽनयोराह्निकी क्रिया ॥ ३१ ॥
पितरौ सर्वभूतानां देवतानां च दैवतम् ॥
कां देवतां तु यजतः पितॄन्वैतौ महामती ॥ ३२ ॥
इति सञ्चिन्त्य मनसा भक्तो नारायणस्य सः ॥
तत्समीपमुपेत्याऽथ तस्थौ नत्वा कृताञ्जलिः ॥ ३३ ॥
कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः ॥
पूजितश्चैव विधिना शास्त्रदृष्टेन सोऽनघ ॥ ३४ ॥
तद्दृष्ट्वा महदाश्चर्य्यमपूर्वं विधिविस्तरम्॥
उपोपविष्टः सुप्रीतो नारदोभूच्च विस्मितः ॥ ३५ ॥
नारायणं सन्निरीक्ष्य प्रयतेनान्तरात्मना ॥
नमस्कृत्य च तं देवमिदं वचनमब्रवीत् ॥ ३६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्य आत्यन्तिकश्रेयःसाधननिरूपणे नारायणनारदसमागमो नाम द्वितीयोऽध्यायः ॥ २ ॥