॥ अगस्त्य उवाच ॥ ॥
जटाकुण्डत आग्नेयदिग्दल संश्रितं महत् ॥
गयाकूपमिति ख्यातं सर्वाभीष्टफलप्रदम् ॥ १ ॥
यत्र स्नात्वा च दत्त्वा च यथाशक्त्या जितेन्द्रियः ॥
सर्वकाममवाप्नोति श्राद्धं कृत्वा द्विजोत्तमः ॥ २ ॥
नरकस्थाश्च ये केचित्पितरश्च पितामहाः ॥
विष्णुलोके तु गच्छन्ति तस्मिञ्च्छ्राद्धे कृते तु वै ॥ ३ ॥
तस्मिञ्छ्राद्धे कृते विप्र पितॄणामनृणो भवेत् ॥
शक्तिभिः पिण्डदानं तु सयवैः पायसेन च ॥ ४ ॥
कर्त्तव्यमृषिनिर्दिष्टं पिण्याकेन गुडेन वा ॥
श्राद्धं तत्तीर्थके प्रोक्तं पितॄणां तुष्टिकारकम् ॥ ५ ॥
तत्र श्राद्धं प्रकर्त्तव्यं नरैः श्रद्धासमन्वितैः ॥
तुष्यन्ति पितरस्तेषां तुष्टाः स्युः सर्वदेवताः ॥ ६ ॥
तुष्टेषु पितृषु श्रीमाञ्जायतेपुत्रवाँस्तथा ॥
श्राद्धेन पितरस्तुष्टाः प्रयच्छन्ति सुतान्बहून् ॥ ७ ॥
श्रियं च विपुलान्भोगाञ्छ्राद्धकृद्भयो न संशयः ॥
तस्मादत्र विधानेन विधातव्यं प्रयत्नतः ॥ ८ ॥
श्राद्धं श्रद्धायुतैः सम्यगभीष्टफलकाङ्क्षिभिः ॥
गयाकूपे विशेषेण पितॄणां दत्तमक्षयम् ॥ ९ ॥
सोमवारेण संयुक्ता अमावास्या यदा भवेत् ॥
तत्रानन्तफलं श्राद्धं पितॄणां दत्तमक्षयम् ॥ 2.8.9.१० ॥
अन्यदा सोमवारेण तत्र श्राद्धं विधानतः ॥
पितृसन्तोषदं नित्यं तत्र दत्ताक्षयो भवेत् ॥ ११ ॥
तत्र पूर्वदिशाभागे तीर्थं सर्वोत्तमोत्तमम् ॥
पिशाचमोचनन्नाम विद्यते च फलप्रदम् ॥ १२ ॥
तत्र स्नात्वा च दत्त्वा च पिशाचो नैव जायते ॥
तत्र स्नानं तथा दानं श्राद्धं चैव विशेषतः ॥
कर्त्तव्यं च प्रयत्नेन नरैः श्रद्धासमन्वितैः ॥ १३ ॥
मार्गशीर्षे शुक्लपक्षे चतुर्दश्यां विशेषतः ॥
स्नानं तत्र प्रकर्त्तव्यं पिशाचत्वविमुक्तये ॥ १४ ॥
तत्सन्निधौ पूर्वभागे मानसन्नाम नामतः ॥
तीर्थं पुण्यनिवासाग्र्यं स्नातव्यं च विशेषतः ॥
तत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात् ॥ १५ ॥
नानाविधानि पापानि मेरुतुल्यानि वै पुनः ॥
तत्र स्नानात्क्षयं यान्ति नात्र कार्या विचारणा ॥ १६ ॥
यत्किञ्चिद्विद्यते पापं मानसं कायिकं तथा ॥
वाचिकं च तथा पापं स्नानतो विलयं व्रजेत् ॥ १७ ॥
प्रौष्ठपद्यां सदा कार्य्या पौर्णमास्यां विशेषतः ॥
यात्रा तस्य नृभिर्विप्र पुण्यवद्भिः क्रियापरैः ॥ १८ ॥
तस्माद्दक्षिणदिग्भागे वर्त्तते सुकृतैकभूः ॥
तमसानाम तटिनी महापातकनाशिनी ॥ १९ ॥
यत्र स्नानं तथा दानं सर्वपापहरं सदा ॥
यस्यास्तटे तथा रम्ये सर्वदा फलदायके ॥ 2.8.9.२० ॥
नानाविधानि स्थानानि मुनीनां भावितात्मनाम् ॥
माण्डव्यस्य मुनेः स्थानं वर्त्तते पापनाशनम् ॥ २१ ॥
यस्यास्तीरे मुनिश्रेष्ठ सर्वत्र सुमनोहरम् ॥
तस्याश्रमपदं रम्यं नानावृक्षमनोहरम् ॥ २२ ॥
यस्मात्स्थानात्समुद्भूता तमसा सुतरङ्गिणी ॥
तद्वनं पुण्यमधिकं पावनं पदमुत्तमम् ॥ २३ ॥
यस्य दर्शनतो नॄणां सर्वपापक्षयो भवेत् ॥ २४ ॥
प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानावनतं मनोहरम् ॥
विरूढपुष्पैः परितः प्रियङ्गुभिः सुषुष्पितैः कण्टकितैश्च केतकैः ॥ २५ ॥
तमालगुल्मैर्निचितं सुगन्धिभिः सकर्णिकारैर्बकुलैश्च सर्वतः ॥
अशोकपुन्नागवरैः सुपुष्पितैर्द्विरेफमालाकुल पुष्पसञ्चयैः ॥ २६ ॥
क्वचित्प्रफुल्लाम्बुजरेणुभूषितैर्विहङ्गमैश्चारुफलप्रचारिभिः ॥
विनादितं सारसमुत्कुलादिभिः प्रमत्तदात्यूहकुलैश्च वल्गुभिः ॥ ॥ २७ ॥
क्वचिच्च चक्राह्वरवोपनादितं क्वचिच्च कादम्बकदम्बकैर्युतम् ॥
क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम् ॥ २८ ॥
मदाकुलाभिर्भ्रमरीभिरारान्निषेवितं चारुसुगन्धिपुष्पवत् ॥
क्वचिच्च पुष्पैः सहकारवृक्षैर्लतोपगूढैस्तिलकद्रुमैश्च ॥ २९ ॥
प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम् ॥
समन्ततः सुन्दरदर्शनीयतां समुद्वहत्तद्वनमुल्लसन्महत् ॥ 2.8.9.३० ॥
निबिडनिचुलनीलं नीलकण्ठाभिरामं मदमुदितविहङ्गीवृन्दनादाभिरामम्॥
कुसुमिततरुशाखालीनमत्तद्विरेफन्नवकिसलयशोभाशोभितं सत्फलाढ्यम् ॥ ३१ ॥
इत्यादिबहुशोभाढ्यं सर्वदिक्षु मनोहरम् ॥
यत्र माण्डव्यमुनिना तपस्तप्तं महत्किल ॥
यत्प्रभावादभूत्तीर्थं पावनं तत्सदा महत् ॥ ३२ ॥
तत्पूर्वं गौतमस्यर्षेराश्रमं पावनं महत् ॥
तत्पूर्वं च्यवनस्यर्षेः पराशरमुनेरिदम् ॥
प्रथमं ते मुनिश्रेष्ठ पितुः किल तपोनिधेः ॥ ३३ ॥
नानाविधानि तीर्थानि चाश्रमाश्चैव सर्वशः ॥
वर्तन्ते तापसानां च यस्यास्तीरे समन्ततः ॥ ३४ ॥
तमसानाम सा ज्ञेया वर्तते तटिनी शुभा ॥
यज्ञयूपान्समुत्खाय शोभिता बहुशोऽभितः ॥ ३५ ॥
तत्र स्नानेन दानेन श्राद्धेन च विशेषतः ॥
सर्वकामार्थसिद्धिः स्यान्नात्र कार्या विचारणा ॥ ३६ ॥
मार्गशीर्षे शुक्लपक्षे पञ्चदश्यां विशेषतः ॥
स्नानं तस्य फलप्राप्तिदायकं सर्वदा नृणाम्॥ ३७ ॥
तस्मादत्र प्रकर्तव्यं स्नानं निर्मलमानसैः ॥
प्रयत्नतो मुनिश्रेष्ठ सर्वकामार्थसिद्धिदम् ॥ ३८ ॥
अतः परं प्रवक्ष्यामि तमसापरमं शुभम्॥
सीताकुण्डमितिख्यातं श्रीदुग्धेश्वरसन्निधौ ॥ ३९ ॥
भाद्रे शुक्लचतुर्थ्यां तु तस्य यात्रा शुभावहा ॥
सर्वकामार्थसिद्ध्यर्थं पूज्यो विप्रेश्वरस्तथा ॥
तस्य स्मरणमात्रेण सर्वविघ्नविनाशनम् ॥ 2.8.9.४० ॥
तस्माद्दक्षिणदिग्भागे भैरवो नाम नामतः ॥
यं दृष्ट्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ४१ ॥
रक्षितो वासुदेवेन क्षेत्ररक्षार्थमादरात् ॥
तस्य पूजा विधातव्या प्रयत्नेन यथाविधि ॥
मनोभीष्टफलप्राप्तिर्भैरवस्य सदाऽऽदरात् ॥ ४२ ॥
मार्गशीर्षस्य कृष्णायामष्टम्यां तस्य निर्मिता ॥
यात्रा सांवत्सरी तत्र सर्वकामार्थसिद्धये ॥ ४३ ॥
पशूपहारसम्भूति कर्तव्यं पूजनं जनैः ॥
सर्वकामफलप्राप्तिर्जायते नात्र संशयः ॥ ४४ ॥
निर्विघ्नं तीर्थवसतिर्भैरवस्य प्रसादतः ॥
जायते तेन कर्तव्या पूजा तस्य प्रयत्नतः ॥ ४५ ॥
एतस्मिन्नुत्तरे भागे रम्यं भरतकुण्डकम् ॥
यत्र स्नात्वा नरः पापैर्मुच्यते नात्र संशयः ॥ ४६ ॥
तत्र स्नानं तथा दानं सर्वमक्षयतां व्रजेत् ॥
अन्नं बहुविधं देयं वासांसि विविधान्यपि ॥ ४७ ॥
यत्नतो देवताः पूज्या वस्त्रादिभिरलङ्कृतैः ॥
नन्दिग्रामे वसन्पूर्वं भरतो रघुवंशजः ॥ ४८ ॥
रामचन्द्रं हृदि ध्यायन्निर्मलात्मा जितेन्द्रियः ॥
ततः स्थित्वा प्रजाः सर्वा ररक्ष क्षितिवल्लभः ॥ ४९ ॥
तत्र चक्रे महत्कुण्डं भरतो नाम भूपतिः ॥
राममूर्तिं च संस्थाप्य चचार विजितेन्द्रियः ॥ 2.8.9.५० ॥
तत्कुण्डे सुमहत्पुण्यं नानापुण्यसमन्वितम् ॥
कुमुदोत्पलकह्लारपुण्डरीकसमन्वितम् ॥ ५१ ॥
हंससारसचक्राह्व विहङ्गमविराजितम् ॥
उद्यानपादपच्छायासच्छायममलं सदा ॥ ५२ ॥
तत्र स्नानं महापुण्यं प्रमोदानन्दनिर्मलम् ॥
तत्र स्नानं तथा श्राद्धं पितॄनुद्दिश्य कुर्वतः ॥
पितरस्तस्य तुष्यन्ति तुष्टाः स्युः सर्वदेवताः ॥ ५३ ॥
स्वर्णं चान्नं विधानेन दातव्यं च द्विजन्मने ॥
श्रद्धापूर्वकमेतत्तु कर्तव्यं प्रयतैर्नरैः ॥ ५४ ॥
तत्पश्चिमदिशाभागे जटाकुण्डमनुत्तमम् ॥
यत्र रामादिभिः सर्वैर्जटाः परिहृता निजाः ॥ ५५ ॥
जटाकुण्डमिति ख्यातं सर्वतीर्थोत्तमोत्तमम्॥
यत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात् ॥ ५६॥
पूर्वकुण्डेषु सम्पूज्यो भरतः श्रीसमन्वितः ॥
जटाकुण्डेषु सम्पूज्यौ ससीतौ रामलक्ष्मणौ ॥
चैत्रकृष्णचतुर्दश्यां यात्रा सांवत्सरी भवेत् ॥ ५७ ॥
इति परमविधानैः पूजयेद्रामसीते तदनु भरतकुण्डे लक्ष्मणं च प्रपूज्य ॥
विधिवदमृतकुण्डे द्वन्द्वंसमज्जनेन वसति सुकृतिमूर्तिर्वैष्णवे तत्र लोके ॥ ५८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये गयाकूप पिशाचमोचन मानसतीर्थ तमसानदी माण्डव्याद्याश्रम सीताकुण्ड दुग्धेश्वर भैरवभारतकुण्ड जटाकुण्ड माहात्म्यवर्णनन्नाम नवमोऽध्यायः ॥ ९ ॥ ॥ छ ॥ ॥ ॥