००८ विभीषणसरस्तीर्थायोध्यायात्राविधिक्रमवर्णनम्

॥ अगस्त्य उवाच ॥ ॥
घोषार्कतीर्थाद्विप्रर्षे पश्चिमे दिक्तटे स्थितम् ॥
रतिकुण्डमिति ख्यातं सर्वपापहरं सदा ॥ १ ॥
यत्र स्नानेन दानेन परां कान्तिमवाप्नुयात् ॥
तत्पश्चिमदिशाभागे कुसुमायुधनामकम् ॥ २ ॥
कुण्डं प्रसिद्धमतुलं सर्वकामार्थसिद्धये ॥
यत्र स्नानेन दानेन कन्दर्पसदृशाकृतिम् ॥
लभते ना विधानेन मुने नास्त्यत्र संशयः ॥ ३ ॥
रतिकुण्डे तथा विप्र कुसुमायुधकुण्डके ॥
श्रद्धया कुरुते स्नानं स सौख्यपरमो भवेत् ॥ ४ ॥
कुण्डद्वयेऽत्र मिथुनं यत्स्नानं कुरुते किल ॥
रतिकामाविव ख्यातौ सदा तौ सुन्दरौ तदा ॥ ५ ॥
तस्मादत्र विधानेन स्नातव्यं धर्मकाङ्क्षिभिः ॥
दानं देयं यथाशक्त्या रतिकन्दर्पतुष्टये ॥ ६ ॥
भवेतां नियतं तस्य सन्तुष्टौ रतिमन्मथौ ॥
माघे विशदपञ्चम्यां यत्र स्नानं शुभप्रदम् ॥ ७ ॥
रतिकुण्डे पुरः स्नात्वा पश्चात्कन्दर्प्पकुण्डके ॥
स्नातव्यं तद्दिने विप्र मिथुनेन प्रयत्नतः ॥ ८ ॥
रतिकन्दर्प्पयोः पूजा विधातव्या विशेषतः ॥
वस्त्रादिभिरलङ्कारैः सम्पूज्यौ द्विजदम्पती ॥ ९ ॥
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ 2.8.8.१० ॥
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमादिभिः ॥
वासोभिर्विविधैः पुष्पैः पूजयेद्द्विजदम्पती ॥ ११ ॥
एवं कृते न सन्देहो रतिकन्दर्पतुष्टये ॥
तद्व्रजेन्मिश्रुनं विप्र रतिकन्दर्प्पतुल्यताम् ॥ १२ ॥
कुसुमायुधकुण्डात्तु प्रतीच्यां दिशि संस्थितम् ॥
मन्त्रेश्वर इति ख्यातं तत्स्थानं भुवि दुर्लभम् ॥ १३ ॥
तत्र तीर्थे नरः स्नात्वा दृष्ट्वा मन्त्रेश्वरं विभुम् ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ १४ ॥
पुरा रामो देवकार्यं विधायामलकर्मकृत् ॥
कालेन सह सङ्गम्य मन्त्रं चक्रे नरेश्वरः ॥ १५ ॥
स्वर्गं प्रति प्रयाणाय यत्र स्नातौ जितेन्द्रियः ॥
तत्रैव स्थापितं लिङ्गं मन्त्रेश्वर इति श्रुतम् ॥ १६ ॥
तदुत्तरे सरो रम्यं कुमुदोत्पलमण्डितम् ॥
तत्र स्नानं तथा दानं नानाफलदमुत्तमम् ॥ १७॥
चैत्रशुक्लचतुर्दश्यां यात्रा सांवत्सरी स्मृता ॥
तत्र स्नानेन दानेन ब्राह्मणानां च पूजनात् ॥
अक्षयं स्वर्गमाप्नोति तत्र कार्या विचारणा ॥ १६ ॥
मन्त्रेश्वरस्य महिमा नहि केनापि शक्यते ॥
सम्यग्वर्णयितुं विप्र य उत्तमफलप्रदः ॥
मन्त्रेश्वरसमं लिङ्गं न भूतं न भविष्यति ॥ १९ ॥
सुगन्धिपुष्पधूपादिकुसुमाद्यनुलेपनैः ॥
पूजनीयः प्रयत्नेन सर्वकामार्थसिद्धिदः ॥ 2.8.8.२० ॥
एवं कृते न सन्देहो मुक्तिस्तस्य करे स्थिता ॥
तत्रैवोत्तरभागे तु शीतला वर्ततेऽनघ ॥ २१ ॥
तां सम्पूज्य नरो विद्वान्सर्वपापैः प्रमुच्यते ॥
सर्वदा पूजनं तस्याः सोमवारे विशेषतः ॥
कर्त्तव्यं सुप्रयत्नेन नृभिः सर्वार्थसिद्धये ॥ २२ ॥
विस्फोटकादिकभये नरैश्च समुपस्थिते ॥
कर्तव्यं पूजनं सम्यग्रोगादिभयनाशनम् ॥ २३ ॥
तदुत्तरे तु तत्रैव देवी वन्दीति विश्रुता ॥
यस्याः स्मरणमात्रेण निगडादिभयं नहि ॥२४॥
राज्ञा क्रुद्धेन ये बद्धाः शृङ्खलानिगडादिभिः ॥
बन्दी संस्मृत्य देवीं तु मुक्ताः स्युस्तत्क्षणाद्धि ते ॥२५॥
यात्रा तस्याः प्रयत्नेन कर्तव्या यत्नतो नरैः ॥
मङ्गले हि विशेषेण सर्वकामार्थसिद्धिदा ॥२६॥
गन्धैः पुष्पैस्तथा धूपैर्दीपैरपि च सुव्रत ॥
नैवेद्यैर्विविधैर्वापि पूजनीया प्रयत्नतः ॥ २७ ॥
बन्दीप्रीत्यै मुनिश्रेष्ठ देयं ब्राह्मणभोजनम् ॥
एवं कृते न सन्देहः सर्वान्कामानवाप्नुयात् ॥ २८ ॥
तदुत्तरस्मिंस्तत्रैव चुडकी भुवि कीर्तिता ॥
वर्तते परमा सिद्धिरूपिणी स्मरणान्नृणाम् ॥ २९ ॥
सुसन्दिग्धेषु कार्येषु भये च समुपस्थिते ॥
यस्याः स्मरणतो नॄणां सर्वसिद्धिः प्रजायते ॥ 2.8.8.३० ॥
अग्रे तस्याः सदा कार्या नृभिरङ्गुष्ठतो ध्वनिः ॥
दीपदानं प्रयत्नेन कर्त्तव्यं नियतात्मभिः ॥ ३१ ॥
सर्वाभीष्टप्रदं नॄणां दीपदानं प्रशस्यते ॥
चतुर्दश्यां चतुर्दश्यां तस्या यात्रा विनिर्मिता ॥ ३२ ॥
ततः पूर्वदिशाभागे वर्त्तते तीर्थमुत्तमम् ॥
महारत्न इति ख्यातं सर्वतीर्थोत्तमोत्तमम् ॥ ३३ ॥
यत्र स्नानेन दानेन पूजया च द्विजन्मनाम् ॥
सर्वकर्मार्थसिद्धिः स्यान्नात्र कार्या विचारणा ॥ ३४ ॥
भाद्रे कृष्णचतुर्दश्यां यात्रा सांवत्सरी स्मृता ॥
यात्राऽऽस्ते किल मुख्याऽस्य महारत्ना इति श्रुता ॥ ३५ ॥
महारत्न इति ख्यातं तस्मात्तीर्थमनुत्तमम् ॥
तत्र दानं प्रकर्त्तव्यं द्विजसन्तोषकारकम् ॥ ३६ ॥
नारीभिरपि विप्रर्षे कर्त्तव्यो जागरोत्सवः ॥
वीर्यसौभाग्यसम्पन्नसर्वसौख्याय सर्वदा ॥
तत्र स्नानं प्रयत्नेन कर्त्तव्यं श्रद्धया नरैः ॥ ३७ ॥
ततो नैऋत्यदिग्भागे दुर्भराख्यं सरा शुभम् ॥
वर्तते सुकृतोदारं महाभरसरस्तथा ॥ ३८ ॥
तत्र स्नानादवाप्नोति सदा स्वर्गपदं नरः ॥
धनं बहुविधं देयं वासांसि विविधानि च ॥ ॥ ३९ ॥
शिवपूजा प्रकर्त्तव्या स्नात्वा कुण्डद्वये नरैः ॥
नानाविधेन भावेन भक्त्या परमया युतैः ॥ 2.8.8.४० ॥
गन्धादिभिः शुभैः पुष्पैरर्च्चनीयो महेश्वरः ॥
नीलकण्ठोंऽधकारातिराराध्यो योगिनामपि ॥ ४१ ॥
इति ध्यात्वा शिवं सार्द्धं निष्पापं प्रयतो नरः ॥
सर्वकामानवाप्याशु शिवलोके वसेत्सदा ॥ ४२ ॥
एवं कृत्वा नरो विप्र सर्वपापैः प्रमुच्यते ॥
महाभरे वरे तीर्थे तथा दुर्भरसञ्ज्ञके ॥ ४३ ॥
भाद्रकृष्णचतुर्दश्यां यः कुर्य्याच्छ्रद्धयाऽन्वितः ॥
शिवपूजां च विधिवद्द्विजपूजां विशेषतः ॥ ४४ ॥
यः करोति नरो भक्त्या शिवलोके स संवसेत् ॥
एवं कुर्वन्नरो विद्वान्न मुह्यति कदाचन ॥ ४५ ॥
विष्णुरुद्रौ च तस्यातिसुप्रसन्नौ सनातनौ ॥
तयोः स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ ४६ ॥
अतः किं बहुनोक्तेन विप्रतीर्थमनुत्तमम् ॥
सर्वपापौघशमनं सर्वाभीष्टकरं सदा ॥ ४७ ॥
अतः परं प्रवक्ष्यामि तीर्थमन्यच्छुभावहम् ॥
यत्र यात्रा तथा दानं विना भाग्यं न सम्भवेत् ॥ ४८ ॥
ईशाने दुर्भरस्थानान्महाविद्याभिधं महत् ॥
तस्य दर्शनतो नॄणां सिद्धयः स्युः करे स्थिताः ॥ ४९ ॥
तदग्रे सरसि स्नात्वा महाविद्यां तु यो नरः ॥
पश्यति श्रद्धया भक्त्या स याति परमां गतिम् ॥ 2.8.8.५० ॥
सिद्धपीठं तथा ख्यातं सम्यक्प्रत्ययकारकम् ॥
तत्र पूजा विधातव्या भक्त्या परमया द्विज ॥ ५१ ॥
मन्त्रं यः श्रद्धया विप्र शैवं शाक्तमथापि वा ॥
गाणपत्यं वैष्णवं वा तत्र यः प्रयतो नरः ॥ ५२ ॥
एकाग्रमानसो विद्वन्नाराध्यावर्तयेत्सदा ॥
तस्य सिद्धिर्भवेन्नित्यं चमत्कारो भवेद्द्विज ॥ ५३ ॥
तस्मादत्र प्रकर्तव्यं जपादिकमतन्द्रितैः ॥
अष्टम्यां च नवम्यां च यात्रा स्यात्प्रतिमासिकी ॥ ५४ ॥
देयान्यन्नानि बहुशो नानाविधफलानि च ॥
क्षीरेण स्नपनं कार्यं पूजनीया प्रयत्नतः ॥ ५५ ॥
उच्चाटनादीन्यपि च मोहनादि विशेषतः ॥
अत्र स्थाने विशेषेण दुष्टमन्त्रोऽपि सिध्यति ॥ ५६ ॥
सिद्धस्थाने परं मोक्षं वशीकरणमुत्तमम् ॥
जपो होमस्तथा दानं सर्वमक्षयतां व्रजेत् ॥ ५७ ॥
आश्विने शुक्लपक्षस्य नवरात्रिषु सुव्रत ॥
यत्र गत्वा नरो विप्र सर्वपापैः प्रमुच्यते ॥ ५८ ॥
यदा पूर्वं विनिर्जित्य रावणं लोकरावणम् ॥
समागतो रघुपतिः सीतालक्ष्मणसंयुतः ॥ ५९ ॥
यत्र गत्वा पदा वीरो भरतो रामकाङ्क्षया ॥
स्थितः सानुचरः श्रीमाञ्छ्रिया परमया युतः ॥ 2.8.8.६० ॥
तत्रागमत्सुरगवी प्रादुर्भूता स्रवत्स्तनी ॥
तत्स्तनेभ्यः प्रसुस्राव दुग्धं बहुगुणाधिकम् ॥ ६१ ॥
तद्भूमिपतितं दुग्धं दृष्ट्वा वानरराक्षसाः ॥
विस्मयं परमं जग्मुः प्रपपुस्ते चराचरम् ॥ ६२ ॥
किमेतदिति राजेन्द्र तानुवाच रघूद्वहः ॥
वसिष्ठो वेत्ति तत्सर्वं पृच्छामस्तं मुनिं वयम् ॥ ६३ ॥
इत्युक्तास्तु ततः सर्वे वसिष्ठप्रमुखे स्थिताः ॥
ते पप्रच्छुः प्राञ्जलयः कृत्वा चाग्रेसरं नृपम् ॥ ६४ ॥
वसिष्ठोऽपि क्षणं ध्यात्वा तमुवाच निराकुलम् ॥
राघवं प्रति सम्बोध्य सर्वेषामग्रतो मुनिः ॥ ६५ ॥
॥ ॥ वसिष्ठ उवाच ॥ ॥
शृणु राम महाबाहो कामधेनुरियं शुभा ॥
समागता तव स्नेहात्प्रस्रवन्ती स्तनात्पयः ॥ ६६ ॥
दुग्धमध्ये समुद्भूतो रुद्रस्त्वां द्रष्टुमागतः ॥
निष्पन्नकार्य्यं देवानां निर्जितारातिमुत्तमम् ॥ ६७ ॥
इमं सम्पूजय क्षिप्रमेतत्कुण्डस्य सन्निधौ ॥
शीघ्रं त्वमपि यत्नेन पूजयेमं शिवं शुभम् ॥
दुग्धेश्वरमिति ख्यातं क्षीरकुण्डे पवित्रकम् ॥ ६८ ॥
॥ अगस्त्य उवाच ॥ ॥
ततो रघुपतिः श्रीमान्वसिष्ठोक्तविधानतः ॥
पूजयामास तल्लिङ्गं दुग्धेश्वरमिति स्मृतम् ॥६९॥
सीतया सत्कृतं यस्मात्तत्कुण्डं क्षीरसङ्गमम् ॥
सीताकुण्डमिति ख्यातिं जगामानुपमां ततः॥2.8.8.७० ॥
सीताकुण्डे नराः स्नात्वा दृष्ट्वा दुग्धेश्वरं प्रभुम् ॥
सर्वपापैः प्रमुच्यन्ते नात्र कार्या विचारणा ॥७१॥
अत्र स्नानं जपो होमो दानं चाक्षयतां व्रजेत् ॥
सीताकुण्डे तु सम्पूज्य सीतारामौ सलक्ष्मणौ ॥७२॥
दुग्धेश्वरं च सम्पूज्य सर्वान्कामानवाप्नुयात् ॥
ज्येष्ठे मासि चतुर्दश्यां यात्रा सांवत्सरी स्मृता॥७३॥
एवं यो विधिवत्कुर्याद्दयाधर्मविशारदः ॥
स याति परमं स्थानं यत्र गत्वा न शोचति ॥ ७४ ॥
तत्र पूर्वदिशाभागे सुग्रीवरचितं महत् ॥
तीर्थं तपोनिधेस्तत्र वर्तते सन्निधौ शुभम् ॥ ७५ ॥
यत्र स्नात्वा च दत्त्वा च रामं सम्पूज्य यत्नतः ॥
तस्मिन्नेव दिने तत्र सर्वान्कामानवाप्नुयात् ॥ ७६ ॥
तत्प्रत्यग्दिशि वै स्थानं हनुमत्कुण्डमित्यपि ॥
तस्य पश्चिमतो विप्र विभीषणसरः दूरर ॥ ७७ ॥
तयोः स्नानेन दानेन रामसम्पूजनेन च ॥
सर्वान्कामानवाप्नोति तस्मिन्नेव विधानतः ॥
इयं सा परमा मेध्याऽयोध्या धर्मनिधिः स्मृता ॥ ७८ ॥
इत्युक्तास्तु ततः सर्वे वसिष्ठमुनिमादरात् ॥
पप्रच्छुर्विनयात्क्षिप्रं विभीषणपुरःसराः ॥
कथयस्व तपोराशे कथामेतां सुदुर्लभाम् ॥ ७९ ॥
अयोध्यायाः परं विप्र माहात्म्यं कथयन्ति यत् ॥
तत्सर्वं कथय क्षिप्रं श्रुत्वा माहात्म्यमुत्तमम् ॥ 2.8.8.८० ॥
यथा यात्रां विधास्यामः क्रमेण च विधानतः ॥
तदस्मासु कृपां कृत्वा कथयस्व तपोनिधे ॥ ८१ ॥
॥ वसिष्ठ उवाच ॥ ॥
शृण्वन्तु मुनयः सर्वे अयोध्यामहिमाद्भुतम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशय ॥ ॥ ८२ ॥
इदं गुह्यतरं क्षेत्रमयोध्याभिधमुत्तमम् ॥
सर्वेषामेव भूतानां हेतुर्मोक्षस्यः सर्वदा ॥ ८३ ॥
अस्मिन्सिद्धाः सदा देवा वैष्णवं व्रतमास्थिताः ॥
नानालिङ्गधरा नित्यं विष्णुलोकाभिकाङ्क्षिणः ॥ ८४ ॥
अभ्यस्यन्ति परं योगं युक्तप्राणा जितेन्द्रियाः ॥
नानावृक्षसमाकीर्णे नानाविहगवासिनि ॥ ८५ ॥
कमलोत्पलशोभाढ्ये सरोभिः समलङ्कृते ॥
अप्सरोगणसङ्कीर्णे सर्वदा सेविते शुभे ॥ ८६ ॥
रोचते हि सदा वासः क्षेत्रे नित्यं हरेरिह ॥
मन्यमाना विष्णुभक्ता विष्णौ सर्वेऽर्पितक्रियाः॥८७॥
यथा मोक्षमिहायान्ति नान्यत्र हि तथा क्वचित् ॥
अतः श्रेष्ठतमं क्षेत्रं यस्माच्च वसतिर्हरेः ॥
महाक्षेत्रमिदं यस्मादयोध्याभिधमुत्तमम् ॥ ८८ ॥
नैमिषे च कुरुक्षेत्रे गङ्गाद्वारे च पुष्करे ॥
स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते तथा ॥ ८९ ॥
इह सम्प्राप्यते यद्वत्तत एव विशिष्यते ॥
प्रयागे वा भवेन्मोक्ष इह वा हरिसंश्रयात् ॥
सर्वस्मादपि तीर्थाग्र्यादिदमेव महत्कृतम् ॥ 2.8.8.९० ॥
अव्यक्तलिङ्गैर्मुनिभिः सर्वैः सिद्धैर्महर्षिभिः ॥
इह सम्प्राप्यते मोक्षो दुर्ल्लभोऽन्यत्र यो मतः ॥ ॥ ९१ ॥
तेभ्यः प्रयच्छति हरिर्योगमैश्वर्य्यमुत्तमम् ॥
आत्मनश्चैव सायुज्यमीप्सितं स्थानमुत्तमम् ॥ ९२ ॥
ब्रह्मा देवर्षिभिः सार्द्धं श्रीश्च वायुर्दिवाकरः ॥
देवराजस्तथा शक्रो ये चान्येऽपि दिवौकसः ॥ ९३ ॥
उपासते महात्मानः सर्वत्र हरिमादरात् ॥
अन्येपि योगिनः सिद्धाः क्षेत्ररूपा महाव्रताः ॥
अनन्यमनसो भूत्वा सर्वदोपासते हरिम् ॥ ९४ ॥
विषयासक्तचित्तोऽपि त्यक्तधर्मरतिर्नरः ॥
इह क्षेत्रे मृतः सोपि संसारी न पुनर्भवेत् ॥ ९५ ॥
ये पुनर्निगमाधीनाः सत्रस्था विजितेन्द्रियाः ॥
व्रतिनश्च निरारम्भाः सर्वे ते हरिभाविताः ॥ ९६ ॥
देहभङ्गं समापद्य धीमन्तः सङ्गवर्जिताः ॥
गतास्ते च परं मोक्षं प्रसादात्सर्वदा हरेः ॥ ९७ ॥
जन्मान्तरसहस्रेषु युञ्जन्योगी न चाप्नुयात् ॥
तमिहैव परं मोक्षं मरणादपि गच्छति ॥ ९८ ॥
एतत्सङ्क्षेपतो वच्मि क्षेत्रस्य महिमाद्भुतम् ॥
एतदेव परं स्थानमेतदेव परं पदम् ॥
एतादृङ्नापरं स्थानं पुनरन्यत्र दृश्यते ॥ ९९ ॥
अत्र गत्वा प्रयत्नेन यात्रा पुण्याभिकाङ्क्षिभिः ॥
कर्तव्या विधिवद्धीराः क्रमेण श्रद्धयान्वितैः ॥ ॥ 2.8.8.१०० ॥
प्रथमेऽहनि कर्त्तव्य उपवासो यतात्मभिः ॥
नियमेन ततः स्नानं दानं चैव स्वशक्तितः ॥ १०१ ॥
उपावृत्तस्तु पापेभ्यो यस्य वासो गुणैः सह ॥
उपवासः स विज्ञेयः सर्वभोगविवर्जितः ॥ १०२ ॥
उपवासं विधायासौ चक्रतीर्थे नरः कृती ॥
उपवासदिने स्नायाद्दद्याच्चैव स्वशक्तितः ॥ १०३ ॥
विप्रं सम्पूज्य विधिवत्पश्येद्विष्णुहरिं विभुम् ॥
स्वर्गद्वारे नरः स्नात्वा विष्णुं सम्पूज्य यत्नतः ॥ १०४ ॥
क्षौरं च कारयेत्तत्र व्रती धर्माभिधे ततः ॥
पापमोचनके स्नानमृणमोचनके ततः ॥ १०५ ॥
स्नात्वा सहस्रधारायां शेषं सम्पूज्य यत्नतः ॥
दृष्ट्वा चन्द्रहरिं देवं ततो धर्महरिं विभुम्॥ १०६ ॥
ततश्चक्रहरिं दृष्ट्वा दद्याच्चैव स्वशक्तितः ॥
ब्रह्मकुण्डे नरः स्नात्वा सर्वकामार्थसिद्धये ॥
महाविद्यासमीपे तु रात्रौ जागरणं चरेत् ॥ १०७ ॥
ततः प्रभाते विमले पुनरुत्थाय सद्व्रती ॥
स्वर्गद्वारे प्रयत्नेन विधिवत्स्नानमाचरेत् ॥ १०८ ॥
श्राद्धं च विधिवत्कृत्वा दत्त्वा चैव स्वशक्तितः॥
विष्णुं सम्पूज्य विधिवद्विप्रानपि पुनःपुनः ॥१०९॥
दम्पती च प्रयत्नेन पूज्यौ वस्त्रादिभिस्तथा ॥
श्रद्धया परया युक्तैर्दातव्या भूरिदक्षिणा ॥ 2.8.8.११० ॥
विप्रान्सम्पूज्य विधिवद्भुञ्जीत प्रयतो नरः ॥ १११ ॥
अन्येद्युरपि चोत्थाय श्रद्धया परया युतः ॥
रुक्मिणीप्रभृतीन्यत्र पश्येत्तीर्थानि च क्रमात् ॥ ११२ ॥
तत्रतत्र नरः स्नात्वा दत्त्वा चैव स्वशक्तितः ॥
विष्णुं सम्पूज्य यत्नेन मनोवाक्कायनिर्मलः ॥ ११३ ॥
यात्रां समापयेत्सम्यङ्नियतात्मा शुचिव्रतः ॥
यत्र क्वापि मृतो धीरः परं मोक्षमवाप्नुयात् ॥ ११४ ॥
॥ अगस्त्य उवाच ॥ ॥
वसिष्ठोक्तमिति श्रुत्वा कृत्वा चैव यथाविधि ॥
विभीषणपुरोगास्ते बभूवुर्निर्मलास्तदा ॥ ११५ ॥
इति बहुलविधानैस्तीर्थयात्रां विधाय प्रचुरसुकृतपूर्णास्ते च सुग्रीवमुख्याः ॥
गतमलिनसुदेहाः स्वर्गचर्याप्रयत्नादुपगुणितगुणौघास्ते बभूवुः समस्ताः ॥ ११६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये महारत्नतीर्थदुर्भरमहाभरतीर्थमहाविद्यातीर्थ सिद्धपीठक्षीरेश्वरसीताकुण्ड सुग्रीवतीर्थहनुमत्कुण्ड विभीषणसरस्तीर्थायोध्यायात्राविधिक्रमवर्णनन्नामाष्टमोऽध्यायः ॥ ८ ॥