॥ अगस्त्य उवाच ॥ ॥
तीर्थमन्यत्प्रवक्ष्यामि क्षीरोदकमिति स्मृतम् ॥
सीताकुण्डाच्च वायव्ये वर्त्तते गुणसुन्दरम् ॥
पुण्यैकनिचयस्थानं सर्वदुःखविनाशनम् ॥ १ ॥
पुरा दशरथो राजा पुत्रेष्टिनाम नामतः ॥
चकार विधिवद्यज्ञं पुत्रार्थं यत्र चादरात् ॥ २ ॥
क्रतुं समापयामास सानन्दो भूरिदक्षिणम् ॥
यज्ञान्ते क्रतुभुक्तत्र मूर्तिमान्समदृश्यत ॥ ३ ॥
हस्ते कृत्वा हेमपात्रं हविःपूर्णमनुत्तमम् ॥
तस्मिन्हविषि सङ्कीर्णं वैष्णवं तेज उत्तमम् ॥
चतुर्विधं विभज्यैव पत्नीभ्यो दत्तवान्नृपः ॥ ४ ॥
यत्र तत्क्षीरसम्प्राप्तिर्जाता परमदुर्लभा ॥
क्षीरोदकमिति ख्यातं तत्स्थानं पापनाशनम् ॥
उदकेनाभिव्यक्तं च उत्तमं च फलप्रदम् ॥ ५ ॥
तत्र स्नात्वा नरो धीमान्विजितेन्द्रिय आदरात् ॥
सर्वान्कामानवाप्नोति पुत्रांश्च सुबहुश्रुतान् ॥ ६ ॥
आश्विने शुक्लपक्षस्य एकादश्यां जितव्रतः ॥
तत्र स्नात्वा विधानेन दत्त्वा शक्त्या द्विजन्मने ॥ ७ ॥
विष्णुं सम्पूज्य विधिवत्सर्वान्कामानवाप्नुयात् ॥
पुत्रानवाप्नुयाद्विद्धि धर्मांश्च विधिवन्नरः ॥ ८ ॥
तस्मात्क्षीरोदकस्थानान्नैर्ऋते दिग्दले श्रितम् ॥
ख्यातं बृहस्पतेः कुण्डमुद्दण्डाचण्डमण्डितम् ॥ ९ ॥
सर्वपापप्रशमनं पुण्यामृततरङ्गितम् ॥
यत्र साक्षात्सुरगुरुर्निवासं किल निर्ममे ॥ 2.8.7.१० ॥
यज्ञं च विधिवच्चक्रे बृहस्पतिरुदारधीः ॥
नानामुनिगणैर्युक्तं रम्यं बहुफलप्रदम् ॥
सुपर्णच्छायसम्पन्नं कुण्डं तत्पापिदुर्ल्लभम् ॥ ११ ॥
इन्द्रादयोऽपि विबुधा यत्र स्नात्वा प्रयत्नतः ॥
मनोभीष्टफलं प्राप्ताः सौन्दर्यौदार्यतुन्दिलाः ॥ १२ ॥
यत्र स्नानेन दानेन नरो मुच्येत किल्बिषात् ॥ १३ ॥
भाद्रे शुक्ले तु पञ्चम्यां यात्रा तत्र फलप्रदा ॥
अन्यदापि गुरोर्वारे स्नानं बहुफलप्रदम् ॥ १४ ॥
बृहस्पतेस्तथा विष्णोः पूजां तत्र य आचरेत् ॥
सर्वपापविनिर्मुक्तो विष्णुलोके स मोदते ॥ १५ ॥
भवेद्बृहस्पतेः पीडा यस्य गोचरवेधतः ॥
तेनात्र विधिवत्स्नानं कार्यं सङ्कल्पपूर्वकम् ॥ १६ ॥
होमं कृत्वा गुरोर्मूर्तिः सुवर्णेन विनिर्मिता ॥
स्थित्वा जले प्रदेया वै पीताम्बरसमन्विता ॥ १७ ॥
वेदज्ञायातिशुचये स्नात्वा पीडापनुत्तये ॥
होमं च कारयेत्तत्र ग्रहजाप्यविधानतः ॥ १८ ॥
एवं कृते न सन्देहो ग्रहपीडा प्रणश्यति ॥ १९ ॥
तद्दक्षिणे मुनिश्रेष्ठ रुक्मिणीकुण्डमुत्तमम् ॥
चकार यत्स्वयं देवी रुक्मिणी कृष्णवल्लभा ॥ 2.8.7.२० ॥
तत्र विष्णुः स्वयं चक्रे निवासं सलिले तदा ॥
वरप्रदानात्स्नेहेन भार्यायाः प्रगुणीकृतम् ॥ २१ ॥
तत्र स्नानं तथा दानं होमं वैष्णवमन्त्रकम् ॥
द्विजपूजां विष्णुपूजां कुर्वीत प्रयतो नरः ॥ २२ ॥
तत्र सांवत्सरी यात्रा कर्त्तव्या सुप्रयत्नतः ॥
ऊर्जकृष्णनवम्यां च सर्वपापापनुत्तये ॥ ॥ २३ ॥
पुत्रवाञ्जायते वन्ध्यो यात्रां कृत्वा न संशयः ॥
नारीभिर्वा नरैर्वापि कर्त्तव्यं स्नानमादरात् ॥ २४ ॥
भुक्त्वा भोगान्समग्रांश्च विष्णुलोके स मोदते ॥
लक्ष्मीकामनया तत्र स्नातव्यं च विशेषतः ॥ २५ ॥
सर्वकाममवाप्नोति तत्र स्नानेन मानवः ॥
रुक्मिणीश्रीपतिप्रीत्यै दातव्यं च स्वशक्तितः ॥ २६ ॥
कर्त्तव्या विधिवत्पूजा ब्राह्मणानां विशेषतः ॥
ध्येयो लक्ष्मीपतिस्तत्र शङ्खचक्रगदाधरः ॥ २७ ॥
पीताम्बरधरः स्रग्वी नारदादिभिरीडितः ॥
तार्क्ष्यासनो मुकुटवान्महेन्द्रादिविभूषितः ॥ २८ ॥
सर्वकामफलावाप्त्यै वक्षोलक्षितकौस्तुभः ॥
अतसीकुसुमश्यामः कमलामललोचनः ॥ २९ ॥
एवं कृते न सन्देहः सर्वान्कामानवाप्नुयात् ॥
इह लोके सुखं भुक्त्वा हरिलोके स मोदते ॥ 2.8.7.३० ॥
अतः परं प्रवक्ष्यामि तीर्थमन्यदघापहम् ॥
कलिकिल्विषसंहारकारकं प्रत्ययात्मकम् ॥ ३१ ॥
परं पवित्रमतुलं सर्वकामार्थसिद्धिदम् ॥
धनयक्षइतिख्यातं परं प्रत्ययकारकम् ॥ ३२ ॥
रुक्मिणीकुण्डवायव्यदिग्दले संस्मृतं शुभम् ॥
हरिश्चन्द्रस्य राजर्षेरासीत्तत्र धनं महत् ॥ ३३ ॥
तस्य रक्षार्थमत्यर्थं रक्षितो यक्षउच्चकैः ॥
विश्वामित्रो मुनिः पूर्वं यदा चैव पराजयत् ॥ ३४ ॥
हरिश्चन्द्रं नरपतिं राज्यसूयकरं परम् ॥
राज्यं जग्राह सकलं चतुरङ्गबलान्वितम् ॥ ॥ ३५ ॥
तद्वशेऽदाच्च स मुनिर्धनं सकलमुत्तमम् ॥
तद्रक्षायै प्रयत्नेन यक्षं स्थापितवानसौ ॥ ३६ ॥
प्रमन्थुर इति ख्यातं प्रमोदानन्दमन्दिरम् ॥
रक्षां विदधतस्तस्य बहुयत्नेन सर्वशः ॥ ३७ ॥
तुतोष स मुनिर्द्धीमान्कदाचिद्विजितेन्द्रियः ॥
उवाच मधुरं वाक्यं प्रीत्या परमया युतः ॥ ३८ ॥
॥ विश्वामित्र उवाच ॥
वरं वरय धर्मज्ञ क्षिप्रमेव विमत्सरः॥
भक्त्या परमया धीर सन्तुष्टोऽस्मि विशेषतः॥३९॥
॥यक्ष उवाच ॥॥
वरं प्रयच्छसि यदि विप्रवर्य मदीप्सितम्॥
ममाङ्गमतिदुर्गन्धि शापाच्च नृपतेरभूत्॥
सुगन्धयितुं ब्रह्मर्षे तत्प्रसीद मुनीश्वर ॥2.8.7.४०॥
॥ अगस्त्य उवाच ॥ ॥
एवमुक्ते तु यक्षेण मुनिर्ध्यानस्थलोचनः॥
तं विविच्यानया भक्त्या अभिषेकं चकार सः॥४१॥
तीर्थोदकेन विधिवत्कृत्वा सङ्कल्पमादरात्॥
ततः सोऽभूत्क्षणेनैव सुगन्धोत्तरविग्रहः ॥ ४२ ॥
तथाभूतः स मधुरं प्रोवाच प्राञ्जलिस्ततः ॥
पुनः पुरः स्थितो धीमान्विनयावनतस्तदा ॥४३॥
॥ यक्ष उवाच ॥ ॥
त्वत्कृपाभिरहं धीर जातः सुरभिविग्रहः॥
एतत्स्थानं यथा ख्यातिं याति सर्वज्ञ तत्कुरु ॥ ४४ ॥
त्वत्प्रसादेन विप्रर्षे तथा यत्नं विधेहि वै ॥ ४५ ॥
॥ अगस्त्य उवाच ॥ ॥
एवमुक्तः क्षणं ध्यात्वा मुनिः स्तिमितलोचनः ॥
यक्षं प्रति प्रसन्नात्मा ह्युवाच श्लक्ष्णया गिरा ॥ ४६ ॥
॥ विश्वामित्र उवाच ॥ ॥
प्रसिद्धिमतुलां यक्ष एतत्स्थानं गमिष्यति ॥
धनयक्ष इति ख्यातिमेतत्तीर्थं गमिष्यति ॥ ४७ ॥
सौन्दर्य्यदं शरीरस्य परं प्रत्ययकारकम् ॥
यत्र स्नात्वा विधानेन दौर्गन्ध्यं त्यजति क्षणात् ॥
तत्र स्नानं प्रयत्नेन कर्त्तव्यं पुण्यकाङ्क्षिभिः ॥ ४८ ॥
दानं श्रद्धास्वशक्तिभ्यां लक्ष्मीपूजा विशेषतः ॥
तत्र स्नानेन दानेन लक्ष्मीप्रीत्यै विशेषतः ॥ ४९ ॥
पूजया तु निधीनां च नवानामपि सुव्रत ॥
इह लोके सुखं भुक्त्वा परलोके स मोदते ॥ 2.8.7.५० ॥
महापद्मस्तथा पद्मः शङ्खो मकरकच्छपौ ॥
मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ ५१ ॥
एतेषामपि कुण्डेऽत्र सन्निधिर्भविताऽनघ ॥
एतेषां तु विशेषेण पूजा बहुफलप्रदा॥५२॥
जलमध्ये प्रकर्त्तव्यं निधिलक्ष्मीप्रपूजनम्॥५३॥
अन्नं बहुविधं देयं वासांसि विविधानि च॥५४॥
सुवर्णादि यथाशक्त्या वित्तशाठ्यं विवर्जयेत् ॥
गुप्तं दानं प्रयत्नेन कर्त्तव्यं सुप्रयत्नतः ॥५५॥
फलानि च सुवर्णानि देयानि च विशेषतः ॥५६॥
कृष्णपक्षे चतुर्दश्यां स्नानं बहुफलप्रदम् ॥
श्रद्धया परया युक्तैः कर्त्तव्यं श्रद्धयाधिकम् ॥ ५७ ॥
माघे कृष्णचतुर्दश्यां यात्रा सांवत्सरी भवेत् ॥
तत्र स्नानं पितॄणान्तु तर्पणं च विशेषतः ॥ ५८ ॥
आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्विति ब्रुवन् ॥
अपसव्येन विधिवत्तर्प्पयेदञ्जलित्रयम् ॥ ५९ ॥
एवं कुर्वन्नरो यक्ष न मुह्यति कदाचन ॥
अत्र स्नातो दिवं याति अत्र स्नातः सुखी भवेत् ॥2.8.7.६०॥
अत्र स्नातेन ते यक्ष कर्त्तव्यं पूजनं पुरः ॥
त्वत्पूजनेन विधिवन्नृणां पापक्षयो भवेत् ॥ ६१ ॥
नमः प्रमथराजेति पूजामन्त्र उदाहृतः ॥
तीर्थमध्ये प्रकर्त्तव्यं पूजनं श्रवणादिकम् ॥ ६२ ॥
निधिलक्ष्म्यो तथा यक्ष तव पूजा विशेषतः ॥
एवं यः कुरुते धीरः सर्वान्कामानवाप्नुयात् ॥६३॥
धनार्थी धनमाप्नोति पुत्रार्थी पुत्रमाप्नुयात् ॥
मोक्षार्थी मोक्षमाप्नोति तत्किं न यदिहाप्यते ॥ ६४ ॥
यस्तु मोहान्नरो यक्ष स्नानं न कुरुते किल ॥
तस्य सांवत्सरं पुण्यं त्वं ग्रहीष्यसि सर्वशः ॥ ६५ ॥
इति दत्त्वा वरांस्तस्मै विश्वामित्रो मुनीश्वरः॥
अन्तर्दधे मुनिवरस्तदा स च तपोनिधिः ॥६६॥
तदाप्रभृति तत्स्थानं परमां ख्यातिमाययौ ॥
तस्य तीर्थस्य सकला भूमिः स्वर्णविनिर्मिता ॥६७ ॥
दिव्यरत्नौघखचिता समन्तादुपशोभिता ॥
एवं यः कुरुते विद्वन्स याति परमां गतिम् ॥ ६८ ॥
धनयक्षादुत्तरस्मिन्दिग्भागे संस्थितं द्विज ॥
वसिष्ठकुण्डं विख्यातं सर्वपापापहं सदा ॥ ६९ ॥
वसिष्ठस्य सदा तत्र निवासः सुतपोनिधेः ॥
अरुन्धती सदा यस्य वर्तते निर्मलव्रता ॥ 2.8.7.७० ॥
अत्र स्नानं विशेषेण श्राद्धपूर्वमतन्द्रितः ॥
यः कुर्यात्प्रयतो धीमांस्तस्य पुण्यमनुत्तमम् ॥ ७१ ॥
वामदेवस्य तत्रैव सन्निधिर्वर्ततेऽनघ ॥
वशिष्ठवामदेवौ तु पूजनीयौ प्रयत्नतः ॥ ७२ ॥
पतिव्रता पूजनीयाऽरुन्धती च विशेषतः ॥
स्नातव्यं विधिना सम्यग्दातव्यं च स्वशक्तितः ॥ ७३ ॥
सर्वकामफलप्राप्तिर्जायते नात्र संशयः ॥
अत्र यः कुरुते स्नानं स वशिष्ठसमो भवेत् ॥ ७४ ॥
भाद्रे मासि सिते पक्षे पञ्चम्यां नियतव्रतः ॥
तस्य सांवत्सरी यात्रा कर्त्तव्या विधिपूर्विका ॥ ७५ ॥
विष्णुपूजा प्रयत्नेन कर्तव्या श्रद्धयात्र वै ॥
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ॥ ७६ ॥
वसिष्ठकुण्डाद्विप्रेन्द्र प्रत्यग्दिग्दलमाश्रितम् ॥
विख्यातं सागरं कुण्डं सर्वकामार्थसिद्धिदम् ॥
यत्र स्नानेन दानेन सर्वकामानवाप्नुयात् ॥ ७७ ॥
पौर्णमास्यां समुद्रस्य स्नानाद्यत्पुण्यमाप्नुयात् ॥
तत्पुण्यं पर्वणि स्नातो नरश्चाक्षयमाप्नुयात् ॥ ७८ ॥
तस्मादत्र विधानेन स्नातव्यं पुत्रकाङ्क्षया ॥
आश्विने पौर्णमास्यां तु विशेषात्स्नानमाचरेत् ॥ ७९ ॥
एवं कुर्वन्नरो विद्वान्सर्वपापैः प्रमुच्यते ॥
अत्र स्नात्वा नरो दत्त्वा यथाशक्त्या दिवं व्रजेत् ॥ 2.8.7.८० ॥
सागरान्नैर्ऋते भागे योगिनीकुण्डमुत्तमम् ॥
यत्राऽऽसते चतुःषष्टियोगिन्यो जलसंस्थिताः ॥ ८१ ॥
सर्वार्थसिद्धिदाः पुंसां स्त्रीणां चैव विशेषतः ॥
परसिद्धिप्रदाः सर्वाः सर्वकामफलप्रदाः ॥ ८२ ॥
आश्विने शुक्लपक्षस्य अष्टम्यां च विशेषतः ॥
स्नातव्यं च प्रयत्नेन योगिनीप्रीतये नृभिः ॥ ८३ ॥
अत्र स्नानं तथा दानं सर्वं सफलतां व्रजेत् ॥
यक्षिणीप्रभृतयः सिद्धा भवन्त्यत्र न संशयः ॥ ॥ ८४ ॥
योगिनीकुण्डतः पूर्वमुर्वशीकुण्डमुत्तमम् ॥
यत्र स्नातो नरो विद्वन्नुर्वशीं दिवि संश्रयेत् ॥ ८५ ॥
पुरा किल मुनिर्धीरो रैभ्यो नाम तपोधनः ॥
चचार हिमवत्पार्श्वे निराहारो जितेन्द्रियः ॥ ८६ ॥
तत्तपो विपुलं दृष्ट्वा भीतः सुरपतिस्ततः ॥
उर्वशीं प्रेषयामास तपोविघ्नाय चादरात् ॥ ८७ ॥
ततः सा प्रेषिता तेनाजगाम गजगामिनी ॥
उवास हिमवत्पार्श्वे रैभ्याश्रममनुत्तमम् ॥ ८८ ॥
वनफुल्ललताकुञ्जे मञ्जुकूजद्विहङ्गमे ॥
किन्नरीकेलिसङ्गीतस्तिमिताङ्गकुरङ्गके ॥ ८९ ॥
पुन्नागकेशराशोकच्छिन्नकिजल्कपिञ्जरे ॥
कल्पिते काञ्चनगिरौ द्वितीय इव वेधसा ॥ 2.8.7.९० ॥
सा बभौ कान्तिसर्वस्वकोशः कुसुमधन्वनः ॥
उर्वश्यनल्पसामान्यलावण्यामृतवाहिनी ॥ ९१ ॥
अङ्गप्रभासुवर्णेन सितमौक्तिकशोभिता ॥
तारुण्यरुचिरत्वेन तारुण्येन विभूषिता ॥ ९२ ॥
विलोमलोचनापाङ्गतरङ्गधवलत्विषा ॥
नवपल्लवसच्छायं कल्पयन्ती निजाधरम् ॥ ९३ ॥
कर्णोपलम्बिसङ्घुष्यद्भृङ्गाढ्यचूतमञ्जरी ॥
सुधागर्भसमुद्भूता पारिजातलता यथा ॥ ९४ ॥
तनुमध्या पृथुश्रोणिर्वर्णोद्भिन्नपयोधरा ॥
निःशाणितशरस्येव शक्तिः कुसुमधन्वनः ॥ ९५ ॥
अपश्यदाश्रमे तस्मिन्मुनिरायतलोचनाम् ॥
नयनानलदाहेन विदग्धेन मनोभुवा ॥ ९६ ॥
त्रिनेत्रवञ्चनायैव कल्पितां ललनातनुम् ॥
तामाश्रमलतापुष्पकाञ्चीरचितकुण्डलाम् ॥ ९७ ॥
विलोक्य तां विशालाक्षीं मुनिर्व्याकुलितेन्द्रियः ॥
बभूव रोषसन्तप्तः शशाप च बहु ज्वलन् ॥९८॥
॥ रैभ्य उवाच ॥ ॥
कुरूपतां व्रज क्षिप्रं या त्वं सौन्दर्यगर्विता ॥
समागता तपोविघ्नहेतवे मम सन्निधौ ॥ ९९ ॥
॥ अगस्त्य उवाच ॥ ॥
इति शप्ता रुषा तेन मुनिना सा शुभेक्षणा ॥
उवाच वनिता भूत्वा प्राञ्जलिर्मुनिमादरात् ॥॥ 2.8.7.१०० ॥
॥ उर्वश्युवाच ॥ ॥
भगवन्मे प्रसीद त्वं पराधीना यतस्त्वहम् ॥
त्वच्छापस्य कथं मुक्तिर्भविता नियतव्रत ॥ १०१ ॥
॥ रैभ्य उवाच ॥ ॥
अयोध्यायामस्ति तीर्थं पावनं परमं महत् ॥
तत्र स्नानं कुरुष्वाद्य सौन्दर्यं परमाप्नुहि ॥ १०२ ॥
त्वन्नाम्नैव च विख्यातिं तोयं यास्यति तद्ध्रुवम् ॥ १०३ ॥
॥ अगस्त्य उवाच ॥ ॥
एवं सा विप्रवचसा विदधे सर्वमादरात् ॥
सुन्दरी साऽभवत्क्षिप्रं तत्स्थानं ख्यातिमाययौ ॥१०४॥
अत्र स्नानं मुनिश्रेष्ठ यः कुर्याद्विधिवज्जनः ॥
सौन्दर्यं परमं तस्य भवेत्तत्र न संशयः ॥१०५॥
भाद्रे शुक्लतृतीयायां यात्रा सांवत्सरी भवेत् ॥
विष्णुरत्र जनैः पूज्यः सर्वकामार्थसिद्धये ॥ १०६ ॥
एवं कुर्वन्नरो विद्वान्विष्णुलोके वसेत्सदा ॥
नरो वा यदि वा नारी सर्वान्कामानवाप्नुयात् ॥ ॥१०७॥
घोषार्ककुण्डं परममुर्वशीकुण्डदक्षिणे ॥
वर्तते मुनिशार्दूल सर्वपापापहं सदा ॥१०८॥
यत्र स्नानेन दानेन सूर्यलोके महीयते ॥
एतत्तीर्थस्य सदृशं नापरं विद्यते क्वचित् ॥ १०९ ॥
व्रणी कुष्ठी दरिद्री वा दुःखाक्रान्तोऽपि यो नरः ॥
करोति विधिवत्स्नानं सर्वान्कामानवाप्नुयात् ॥ 2.8.7.११० ॥
रविवारे विशेषेण कर्त्तव्यं स्नानमादरात् ॥
भाद्रे मासि तथा माघे शुक्लषष्ठ्यां प्रयत्नतः ॥ १११ ॥
कर्त्तव्यं विधिवत्स्नानं सूर्यलोकाभिकाङ्क्षया ॥
पौषे मासि तथा स्नानं सूर्यवारे विशेषतः ॥ ११२ ॥
सप्तम्यां रवियुक्तायां स्नानं बहुफलप्रदम् ॥
घोषाभिधोऽभवत्पूर्वं सूर्यवंशे नरेश्वरः ॥ ११३ ॥
समुद्रमेखलामेकः पृथिवीं समपालयत् ॥
यस्य कीर्त्या प्रकाशन्ते त्रिलोकीमण्डलानि वै ॥ ११४ ॥
यः प्रतापात्स्फुरन्भाति प्रभाकर इवापरः ॥
प्रचण्डतरदोर्दण्डखण्डितारातिमण्डलः ॥ ११५ ॥
स कदाचित्प्रजापालो मन्त्त्रिविन्यस्तभूतलः ॥
बभ्राम मृगयासक्तो वनेऽतिगहनद्रुमे ॥ ११६ ॥
स राजा पूर्वजन्मोत्थपापैरशुभसूचकैः ॥
कृमिव्याप्तकराम्भोजः सुन्दरोपि गतस्मयः ॥ ११७ ॥
मृगयायामभूदेकः कदाचित्पर्यटन्वने ॥
वराहसिंहहरिणान्निघ्नन्गच्छन्नितस्ततः ॥ ११८ ॥
तृषाक्रान्तो म्लानतनुः सरोऽपश्यत्पुरो नृपः ॥
ददर्श तत्र च मुनीन्स्नानसन्ध्यादितत्परान् ॥ ११९ ॥
ततो विधिवदाचम्य स्नानं चक्रे नरेश्वरः ॥
ततो दिव्यशरीरोऽभूदानन्दामलमानसः ॥ 2.8.7.१२० ॥
मुनिभिस्तीर्थमाज्ञाय चक्रे सूर्य्यस्तुतिं प्रियाम् ॥ १२१ ॥ ॥
॥ राजोवाच ॥ ॥
भगवन्देवदेवेश नमस्तुभ्यं चिदात्मने ॥
नमः सवित्रे सूर्याय जगदानन्ददायिने ॥ १२२ ॥
प्रभागेहाय देवाय त्रयीभूताय ते नमः ॥
विवस्वते नमस्तुभ्यं योगज्ञाय सदात्मने ॥१२३॥
पराय परमेशाय त्रिलोकीतिमिरच्छिदे ॥
अचिन्त्याय सदा तुभ्यं नमो भास्करतेजसे ॥ ॥ १२४ ॥
योगप्रियाय योगाय योगज्ञाय सदा नमः ॥
ॐकाराय वषट्काररूपिणे ज्ञानरूपिणे ॥ १२५ ॥
यज्ञाय यज्ञमानाय हविषे ऋत्विजे नमः ॥
रोगघ्नाय स्वरूपाय कमलानन्ददायिने ॥ १२६ ॥
अतिसौम्यातितीक्ष्णाय सुराणां पतये नमः ॥
सत्राशाय नमस्तुभ्यं भक्तत्राय प्रियात्मने ॥ १२७ ॥
प्रकाशकाय सततं लोकानां हितकारिणे ॥
प्रसीद प्रणतायाद्य मह्यं भक्तिकृते स्वयम् ॥ १२८ ॥
॥ अगस्त्य उवाच ॥ ॥
इत्येवं ब्रुवतस्तस्य स प्रसन्नो रविः स्वयम् ॥
आविर्बभूव सहसा भक्तस्य प्रियकाम्यया ॥
उवाच मधुरं वाक्यं प्रश्रयानतमूर्द्धजम् ॥ १२९ ॥ ॥
॥ रविरुवाच ॥ ॥
वरं वरय राजेन्द्र प्रसन्नोऽस्मि तवाग्रतः ॥
ददामि तद्वरं तेऽद्य यत्त्वया मनसेप्सितम् ॥ 2.8.7.१३० ॥
॥ राजोवाच ॥ ॥
भगवन्भास्करानन्त प्रयच्छसि वरं यदि ॥
मन्नाम्ना कृतमूर्त्तिस्ते तिष्ठत्वत्र सदा विभो ॥ १३१ ॥
॥ रविरुवाच ॥ ॥
एवमस्तु मनुष्येन्द्र तव वाञ्छा मनोहरा ॥
एतत्स्तोत्रं त्वयोक्तं मे ये पठिष्यन्ति मानवाः ॥ १३२ ॥
तेभ्यस्तुष्टः प्रदास्यामि सर्वान्कामान्नरेश्वर ॥
एतत्स्थानं परां ख्यातिं त्वन्नाम्ना यास्यति क्षितौ ॥ १३३ ॥
सर्वान्कामानवाप्नोति योऽत्र स्नानं समाचरेत्॥
मद्भक्तेन सदा राजन्कर्त्तव्यं स्नानमत्र वै ॥ १३४ ॥
यंयं काममिहेच्छेत तन्तं काममवाप्नुयात् ॥ १३५ ॥
॥ अगस्त्य उवाच ॥ ॥
इति दत्त्वा वरं देवः कृपया परया युतः ॥
भास्वान्सहस्रकिरणस्तदान्तर्द्धानमाययौ ॥ १३६ ॥
राजा भास्करदेहोत्थां रविमूर्त्तिमनुत्तमाम् ॥
तत्र संस्थापयामास पूजयामास च स्वयम् ॥ १३७ ॥
घोषार्ककुण्डं तन्नाम्ना तत्र ख्यातिं जगाम ह ॥
यत्र स्नानान्नरो राजन्सूर्य्यलोके वसेत्सदा ॥ १३८ ॥
इति रुचिरविधानैस्तूर्णमादित्यमूर्त्तिं विमलपरमभक्त्या पूजयित्वाऽऽदरेण ॥
तदमृतमयकुण्डे स्नानमादौ विधाय प्रचुरविमलकीर्तिः सूर्यलोके वसेत्सः ॥ १३९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये बृहस्पतिकुण्डरुक्मिणीकुण्डधनयक्षतीर्थ वसिष्ठकुण्डसागरकुण्ड योगिनीकुण्डोर्वशीकुण्डघोषार्ककुण्ड माहात्म्यवर्णनन्नाम सप्तमोऽध्यायः ॥ ७ ॥ ॥ छ ॥