००६ स्वर्गद्वारगोप्रतारतीर्थमाहात्म्यवर्णनम्

॥ अगस्त्य उवाच ॥ ॥
तस्मात्सङ्गमतो विप्र पश्चिमे दिक्तटे स्थितम् ॥
सीताकुण्डमितिख्यातं सर्वकामफलप्रदम् ॥ १ ॥
यत्र स्नात्वा नरो विप्र सर्वपापैः प्रमुच्यते ॥
सीतया किल तत्कुण्डं स्वयमेव विनिर्मितम् ॥
रामेण वरदानाच्च महाफलनिधीकृतम् ॥ २ ॥
॥ श्रीराम उवाच ॥ ॥
शृणु सीते प्रवक्ष्यामि माहात्म्यं भुवि यादृशम् ॥
त्वत्कुण्डस्यास्य सुभगे त्वत्प्रीत्या कथयाम्यहम्॥ ३ ॥
अत्र स्नानं च दानं च जपो होमस्तपोऽथवा॥
सर्वमक्षयतां याति विधानेन शुचिस्मिते ॥ ४ ॥
मार्गकृष्णचतुर्दश्यां तत्र स्नानं विशेषतः ॥
सर्वपापहरं देवि सर्वदा स्नायिनां नृणाम् ॥ ५ ॥
इति रामो वरं प्रादात्सीतायै च प्रजाप्रियः ॥
तदाप्रभृति सर्वत्र तत्तीर्थं भुवि वर्त्तते ॥ ६ ॥
सीताकुण्डमिति ख्यातं जनानां परमाद्भुतम् ॥
तस्मिंस्तीर्थे नरः स्नात्वा नूनं राममवाप्नुयात् ॥ ७ ॥
तत्र स्नानेन दानेन तपसा च विशेषतः ॥
गन्धैर्माल्यैर्धूपदीपैर्न्नानाविभवविस्तरैः ॥
रामं सम्पूज्य सीतां च मुक्तः स्यान्नात्र संशयः ॥ ८ ॥
मार्गे मासि च स्नातव्यं गर्भवासो न जायते ॥
अन्यदापि नरः स्नात्वा विष्णुलोकं स गच्छति ॥ ९ ॥
विभोर्विष्णुहरेर्विप्र रम्ये पश्चिमदिक्तटे ॥
देवश्चक्रहरिर्नाम सर्वाभीष्टफलप्रदः ॥ 2.8.6.१० ॥
तस्य चक्रहरेर्विप्र महिमा न हि मानवैः ॥
शक्यो वर्णयितुं धीरैरपि बुद्धिमतां वरैः॥११॥
ततः पश्चिमदिग्भागे नाम्ना पुण्यं हरिस्मृति ॥
विष्णोरायतनं ख्यातं परमार्थफलप्रदम्॥
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥ १२ ॥
तयोर्दर्शनतो यान्ति तेषां पापानि देहिनाम् ॥
तानि पापानि यावन्ति कुर्वते भुवि ये नराः ॥ १३ ॥
पुरा देवासुरे जाते सङ्ग्रामे भृशदारुणे ॥
दैत्यैर्वरमदोत्सिक्तैर्देवा युधि पराजिताः ॥ १४ ॥
तेषां पलायमानानां देवानामग्रणीर्हरः ॥
संस्तभ्य चैव तान्सर्वान्पुरस्कृत्याम्बुजासनम् ॥ १५ ॥
क्षीरोदशायिनं विष्णुं शेषपर्य्यङ्कशायिनम् ॥
लक्ष्म्योपविष्टं पार्श्वे च चरणाम्बुजहस्तया ॥ १६ ॥
नारदाद्यैर्मुनिवरैरुद्गीतगुगौरवम् ॥
गरुडेन पुरःस्थेनानिशमञ्जलिना स्तुतम् ॥ १७ ॥
क्षीराब्धिजलकल्लोलमदबिन्द्वङ्किताम्बरम् ॥
तारकोत्करविस्फारतारहारविराजितम् ॥ ॥ १८ ॥
पीताम्बरमतिस्मेरविकाशद्भावभावितम् ॥
बिभ्रतं कुण्डलं स्थूलं कर्णाभ्यां मौक्तिकोज्ज्वलम् ॥ १९ ॥
रत्नवल्लीमिव स्वच्छां श्वेतद्वीपनिवासिनीम् ॥
किरीटं पद्मरागाणां वलयं दधतं परम् ॥ 2.8.6.२० ॥
मित्रस्य राहुवित्रासनिवर्त्तनमिवापरम् ॥
सकौस्तुभप्रभाचक्रं बिभ्राणं प्रवलारुणम् ॥ २१ ॥
परां चतुर्मुखोत्पत्तिकल्पसङ्कल्पनामिव ॥
शरणं स जगामाशु विनीतात्मा स्तुवन्निति ॥ २२ ॥
तस्मिन्नवसरे शम्भुः सर्वदेवगणैः सह ॥
तुष्टाव प्रयतो भूत्वा विष्णुं जिष्णुं सुरद्विषाम् ॥ २३ ॥
॥ ईश्वर उवाच ॥ ॥
संसारार्णवसन्तारसुपर्णसुखदायिने ॥
मोह तीव्रतमो हारि चन्द्राय हरये नमः ॥ २४ ॥
स्फुरत्संविन्मणिशिखां चित्तसङ्गतिचन्द्रिकाम् ॥
प्रपद्ये भगवद्भक्तिमानसोद्यानवाहिनीम् ॥ २५ ॥
हेलोल्लसत्समुत्साहशक्तिं व्याप्तजगत्त्रयाम् ॥
या पूर्वकोटिर्भावानां सत्त्वानां वैष्णवीति वा ॥ २६ ॥
पवनान्दोलिताम्भोजदलपर्वान्तवर्त्तिनाम् ॥
पततामिव जन्तूनां स्थैर्यमेका हरिस्मृतिः ॥ २७ ॥
नमः सूर्य्यात्मने तुभ्यं संवित्किरणमालिने ॥
हृत्कुशेशयकोषश्रीसमुन्मेषविधायिने ॥ २८ ॥
नमस्तस्मै यमवते योगिनां गतये सदा ॥
परमेशाय वै पारे महसां तमसां तथा ॥ २९ ॥
यज्ञाय भुक्तहविष ऋग्यजुःसामरूपिणे ॥
नमः सरस्वतीगीतदिव्यसद्गणशालिने ॥ 2.8.6.३० ॥
शान्ताय धर्मनिधये क्षेत्रज्ञायामृतात्मने ॥
शिष्ययोगप्रतिष्ठाय नमो जीवैकहेतवे ॥
घोराय मायाविधये सहस्रशिरसे नमः ॥ ३१ ॥
योगनिद्रात्मने नाभिपद्मोद्भूतजगत्सृजे ॥
नमः सलिलरूपाय कारणाय जगत्स्थितेः ॥ ३२ ॥
कार्यमेयाय बलिने जीवाय परमात्मने ॥
गोप्त्रे प्राणाय भूतानां नमो विश्वाय वेधसे ॥ ३३ ॥
दृप्ताय सिंहवपुषे दैत्यसंहारकारिणे ॥
वीर्यायानन्तमनसे जगद्भावभृते नमः ॥ ३४ ॥
संसारकारणाज्ञानमहासन्तमसच्छिदे ॥
अचिन्त्यधाम्ने गुह्याय रुद्रायात्युद्विजे नमः ॥ ३५ ॥
शान्ताय शान्तकल्लोलकैवल्यपददायिने ॥
सर्वभावातिरिक्ताय नमः सर्वमयात्मने ॥ ३६ ॥
इन्दीवरदलश्यामं स्फूर्जत्किञ्जल्कविभ्रमम्॥
बिभ्राणं कौस्तुभं विष्णुं नौमि नेत्ररसायनम् ॥ ३७ ॥
॥ अगस्त्य उवाच ॥ ॥
इति स्तुतः प्रसन्नात्मा वरदो गरुडध्वजः ॥
ववर्ष दृष्टिसुधया सर्वान्देवान्कृपान्वितः ॥
उवाच मधुरं वाक्यं प्रश्रयावनतान्सुरान् ॥ ॥ ३८ ॥
॥ श्रीभगवानुवाच ॥ ॥
जानामि विबुधाः सर्वमभिप्रायं समाधितः ॥
दैतेयैर्विक्रमाक्रान्तं पदं समरदर्पितैः ॥ ३९ ॥
सबलैर्बलहीनानां प्रतापो विजितः परैः ॥
साम्प्रतं तु विधास्यामि तपो युष्मद्बलाय वै ॥ 2.8.6.४० ॥
अयोध्यानगरे गत्वा करिष्ये तप उत्तमम् ॥
गुप्तो भूत्वा भवत्तेजोविवृद्ध्यै दैत्यशान्तये ॥ ४१ ॥
भवन्तोऽपि तपस्तीव्रं कुर्वन्त्वमलमानसाः ॥
अयोध्यां प्राप्यतां देवा दैत्यनाशाय सत्वरम् ॥ ४२ ॥ ॥
॥ अगस्त्य उवाच ॥ ॥
इत्युक्त्वान्तर्दधे देवान्देवो गरुडवाहनः ॥
अयोध्यामागतः क्षिप्रं चकार तप उत्तमम् ॥ ४३ ॥
गुप्तो भूत्वा यदा विद्वन्सुरतेजोभिवृद्धये ॥
तेन गुप्तहरिर्नाम देवो विख्यातिमागतः ॥ ४४ ॥
आगतस्य हरेः पूर्वं यत्र हस्ततलाच्च्युतम् ॥
सुदर्शनाख्यं तच्चक्रं तेन चक्रहरिः स्मृतः ॥ ४५ ॥
तयोर्दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥
हरस्तेन प्रभावेण देवाः प्रबलतेजसः ॥ ४६ ॥
जित्वा दैत्यान्रणैः सर्वान्सम्प्राप्य स्वपदान्यथ ॥
रेजिरे विपुलानन्दैरसुरानार्दयंस्ततः ॥ ४७ ॥
ततः सर्वे समेत्याशु बृहस्पतिपुरस्सराः ॥
देवाः सर्वेऽनमन्मौलिमालार्च्चित पदाम्बुजम् ॥
हरिं द्रष्टुमथागच्छन्नयोध्यायां समुत्सुकाः ॥ ४८ ॥
आगत्य च ततः श्रुत्वा नानाविधगुणादरम् ॥
भावैः पुण्यैः समभ्यर्च्य नत्वा प्राञ्जलयस्तदा ॥
हरिमेकाग्रमनसा ध्यायन्तो ध्याननिष्ठिताः ॥ ४९ ॥
तानागतान्समालोक्य पदभक्त्या कृतानतीन् ॥
प्रसन्नः प्राह विश्वात्मा पीतवासा जनार्दनः ॥ 2.8.6.५० ॥
॥ श्रीभगवानुवाच ॥ ॥
भोभो देवा भवन्तश्च चिराद्दिष्टयाद्यसङ्गताः ॥
अधुना भवतामिच्छां कां करोमि सुरा अहम् ॥
तद्ब्रूत त्वरिता मह्यं किं विलम्बेन निर्भयाः ॥ ५१ ॥
देवा ऊचुः ॥ ॥
भगवन्देवदेवेश त्वया सम्प्रति सर्वशः ॥
सर्वं समभवत्कार्यं निष्पन्नं वै जगत्पते ॥ ५२ ॥
तथापि सर्वदा भाव्यं नित्यं देव त्वया विभो ॥
अस्मद्रक्षार्थमत्रैव विजितेन्द्रियवर्त्मना ॥५३॥
एवमेव सदा कार्यं शत्रुपक्षविनाशनम् ॥५४॥
॥ श्रीभगवानुवाच ॥ ॥
एवमेतत्करिष्यामि भवतामरिसञ्जयम् ॥
श्रीमतां तेजसो वृद्धिं करिष्यामि सदासुराः ॥
कथेयं च सदा ख्यातिं लोके यास्यति चोत्तमाम् ॥ ५५ ॥
अयं नाम्ना गुप्तहरिर्देवो भुवनविश्रुतः ॥
मदीयं परमं गुह्यं स्थानं ख्यातिं समेष्यति ॥५६ ॥
अत्र यः प्राणिनां श्रेष्ठः पूजायज्ञजपादिकम् ॥
करोति परया भक्त्या स याति परमां गतिम्॥ ५७॥
अत्र यः कुरुते दानं यथाशक्त्या जितेन्द्रियः ॥
स स्वर्गमतुलं प्राप्य न शोचति कदाचन ॥ ५८ ॥
अत्र मत्प्रीतये देवाः प्राणिभिर्धर्मकाङ्क्षिभिः ॥
दातव्या गौः प्रयत्नेन सवत्सा विधिपूर्वकम् ॥ ॥ ५९ ॥
स्वर्णशृङ्गी रौप्यखुरी वस्त्रद्वयसमावृता ॥
कांस्योपदोहना ताम्रपृष्ठी बहुगुणान्विता॥ 2.8.6.६०॥
रत्नपुच्छा दुग्धवती घण्टाभरणभूषिता ॥
अर्चिता गन्धपुष्पाद्यैः सुप्रसन्नाऽमृतप्रजा ॥ ६१ ॥
द्विजाय वेदविज्ञाय गुणिने निर्मलात्मने ॥
विष्णुभक्ताय विदुषे आनृशंस्यरताय च ॥ ६२ ॥
ब्राह्मणाय च गौर्देया सर्वत्रसुखमश्नुते ॥
न देया द्विजमात्राय दातारं सोऽवपातयेत् ॥ ६३ ॥
मत्प्रीतयेऽत्र दातव्या निर्मलेनान्तरात्मना ॥ ६४ ॥
स्नातं यैश्च विशुद्ध्यर्थमत्र मद्भक्तितत्परैः ॥
तेषां स्वर्गतयो नित्यं मुक्तिः करतले स्थिता ॥ ६५ ॥
तथा चक्रहरेः पीठे मत्प्रीत्यै दानमुत्तमम् ॥
जपहोमादिकं चापि कर्त्तव्यं यत्नतो नरैः ॥ ६६ ॥
भवन्तोऽपि विधानेन यात्रां कुर्वन्तु सत्तमाः ॥
अस्माद्गुप्तहरेः स्थानान्निकटे सङ्गमे शुभे ॥ ६७ ॥
प्रत्यग्भागे गोप्रताराद्योजनत्रयसम्मिते ॥
घर्घराम्बुतरङ्गिण्या सरयूः सङ्गता यतः ॥ ६८ ॥
अत्र स्नात्वा विधानेन द्रष्टव्योऽत्र प्रयत्नतः ॥
देवो गुप्तहरिर्नाम सर्वकामार्थसिद्धिदः ॥ ६९ ॥
॥ अगस्त्य उवाच ॥ ॥
इत्युक्त्वान्तर्दधे देवः पीताम्बरधरोऽच्युतः ॥
देवा अपि विधानेन कृत्वा यात्रां प्रयत्नतः ॥
अयोध्यायां स्थिता नित्यं हरेर्गुणविमोहिताः ॥ 2.8.6.७० ॥
तदाप्रभृति विप्रेन्द्र तत्स्थानं भुवि पप्रथे ॥
कार्तिक्यां तु विशेषेण यात्रा सांवत्सरी भवेत् ॥ ७१ ॥
विभोर्गुप्तहरेस्तत्र सङ्गमस्नानपूर्विका ॥
गोप्रतारे च तीर्थेऽस्मिन्सरयूघर्घराश्रिते ॥
स्नात्वा देवोऽर्चनीयोऽयं सर्वकामफलप्रदः ॥ ७२ ॥
तथा चक्रहरेर्यात्रा कर्त्तव्या सुप्रयत्नतः ॥
मार्गशार्षस्य विशदे पक्षे हरितिथौ नरैः ॥ ७३ ॥
एवं यः कुरुते यात्रां विष्णुलोके स मोदते ॥७४ ॥
॥ श्रीसूत उवाच ॥ ॥
एवमुक्त्वा तु विरते मुनौ कलशजन्मनि ॥
कृष्णद्वैपायनो व्यासः पुनराह सविस्मयः ॥ ७५ ॥
॥ व्यास उवाच ॥ ॥
अत्याश्चर्य्यमयीं ब्रह्मन्कथामेतां तपोधन ॥
उक्तवानसि येनैतत्साश्चर्य्यं मम मानसम् ॥ ७६ ॥
विस्तरेण मम ब्रूहि माहात्म्यं परमाद्भुतम् ॥ ७७ ॥
शृणु सङ्गममाहात्म्यं विप्रेन्द्र परमाद्भुतम् ॥
स्कन्ददेवाच्छ्रुतं सम्यक्कथयामि तथा तव ॥ ७८ ॥
दशकोटिसहस्राणि दशकोटिशतानि च ॥
तीर्थानि सरयूनद्या घर्घरोदकसङ्गमे ॥
निवसन्ति सदा विप्र स्कन्दादवगतं मया ॥७९ ॥
देवतानां सुराणां च सिद्धानां योगिनां तथा ॥
ब्रह्मविष्णुशिवानां च सान्निध्यं सर्वदा स्थितम् ॥ 2.8.6.८० ॥
तस्मिन्सङ्गमसलिले नरः स्नात्वा समाहितः ॥
सन्तर्प्य पितृदेवांश्च दत्त्वा दानं स्वशक्तितः ॥ ८१ ॥
हुत्वा वैष्णवमन्त्रेण शुचिर्यत्फलमाप्नुयात् ॥
तदिहैकमना विप्र शृणु यत्कथयामि ते ॥ ८२ ॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥
कुरुक्षेत्रे महाक्षेत्रे राहुग्रस्ते दिवाकरे ॥ ८३ ॥
सुवर्णदाने यत्पुण्यमहन्यहनि तद्भवेत् ॥ ८४ ॥
अमावास्यां पौर्णमास्यां द्वादश्योरुभयोरपि ॥
अयने च व्यतीपाते स्नानं वैष्णवलोकदम् ॥ ८५ ॥
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् ॥
विधिवत्सङ्गमे स्नायात्पौष्यां तदविशेषतः ॥ ८६ ॥
लम्बतेऽवाक्छिरा यस्तु युगानामयुतं पुमान् ॥
स्नातानां शुचिभिस्तोयैः सङ्गमे प्रयतात्मनाम् ॥ ८७ ॥
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥ ८८ ॥
पौषे मासि विशेषेण स्नानं बहुफलप्रदम् ॥ ८९ ॥
पौषे मासि विशेषेण यः कुर्यात्स्नानमादृतः ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा वर्णसङ्करः ॥
स याति ब्रह्मणः स्थानं पुनरावृत्तिवर्जितम् ॥2.8.6.९० ॥
पौषे मासे तु यो दद्याद्घृताढ्यं दीपमुत्तमम् ॥
विधिवच्छ्रद्धया विप्र शृणु तस्यापि यत्फलम् ॥९१॥
नानाजन्मार्जितं पापं स्वल्पं बह्वपि वा भवेत् ॥
तत्सर्वं नश्यति क्षिप्रं तोयस्थं लवणं यथा ॥ ॥ ९२ ॥
आयुरारोग्यमैश्वर्यं सन्ततीः सौख्यमुत्तमम् ॥
प्राप्नोति फलदं नित्यं दीपदः पुण्यभाङ्नरः ॥ ९३ ॥
यस्तु शुक्लत्रयोदश्यां पौषेऽत्र प्रयतो व्रती ॥
जागरं कुरुते धीरः स गच्छेद्भवनं हरेः ॥ ९४ ॥
जागरं विदधद्रात्रौ दीपं दत्त्वा तु सर्वशः ॥
होमं च कारयेद्विप्रो नियतात्मा शुचिव्रतः ॥ ९५ ॥
वैष्णवो विष्णुपूजां च कुर्वञ्छृण्वन्हरेः कथाम् ॥
गीतवादित्रनृत्यैश्च विष्णुतोषणकारकैः ॥
कथाभिः पुण्ययुक्ताभिर्जागृयाच्छर्वरीं नरः ॥ ९६ ॥
ततः प्रभाते विमले स्नात्वा विधिवदादरात् ॥
विष्णुं सम्पूज्य विप्रांश्च देयं स्वर्णादि शक्तितः ॥ ९७ ॥
स्वर्णं चान्नं च वासांसि यो दद्याच्छ्रद्धयाऽन्वितः ॥
सङ्गमे विधिवद्विद्वान्स याति परमां गतिम् ॥ ९८ ॥
वर्षेवर्षे तु कर्तव्यो जागरः पुण्यतत्परैः ॥ ९९ ॥
हरिः पूज्यो द्विजाः सम्यक्सन्तोष्याः शक्तितो नरैः ॥
तेन विष्णोः परा तुष्टिः पापानि विफलानि च ॥
भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् ॥ ॥ 2.8.6.१०० ॥
तत्र स्नातो दिवं याति अत्र स्नातः सुखी भवेत ॥ १०१ ॥
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते ॥
तर्प्यमाणाः परां तृप्तिं यान्ति सङ्गमजैर्जलैः ॥ १०२ ॥
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् ॥
गतिमन्वेषमाणानां न सङ्गमसमा गतिः ॥ १०३ ॥
सप्तावरान्सप्तपरान्पुरुषश्चात्मनासह ॥
पुंसस्तारयते सर्वान्सङ्गमे स्नानमाचरन् ॥ १०४ ॥
जात्यन्धैरिह ते तुल्यास्तथा पङ्गुभिरेव च ॥
समेत्यात्र च न स्नान्ति सरयूघर्घरसङ्गमे ॥ १०५ ॥
वर्णानां ब्राह्मणो यद्वत्तथा तीर्थेषु सङ्गमः ॥
सरयूघर्घरायोगे वैष्णवस्थो नरः सदा ॥ १०६ ॥
अत्र स्नानेन दानेन यथा शक्त्या जितेन्द्रियः ॥
होमेन विधिपुक्तेन नरः स्वर्गमवाप्नुयात् ॥ १०७ ॥
नरो वा यदि वा नारी विधिवत्स्नानमाचरेत् ॥
स्वर्गलोकनिवासो हि भवेत्तस्य न संशयः ॥ १०८ ॥
यथा वह्निर्दहेत्सर्वं शुष्कमार्द्रमथापि वा ॥
भस्मीभवन्ति पापानि तत्समागममज्जनात् ॥ १०९ ॥
एकतः सर्वतीर्थानि नानाविधिफलानि वै ॥
सरयूघर्घरोत्पन्नसङ्गमस्त्वधिको भवेत् ॥ 2.8.6.११० ॥
सर्वतीर्थावगाहस्य फलं यादृक्स्मृतं श्रुतौ ॥
तादृक्फलं नृणां सम्यग्भवेत्सङ्गममज्जनात् ॥ १११ ॥
गोप्रताराभिधं तीर्थमपरं वर्ततेऽनघ ॥
सन्निधौ सङ्गमस्यैव महापातकनाशनम् ॥ ११२ ॥
यत्र स्नानेन दानेन न शोचति नरः क्वचित् ॥
गोप्रतारसमं तीर्थं न भूतं न भविष्यति ॥ ११३ ॥
वाराणस्यां यथा विद्वन्वर्त्तते मणिकर्णिका ॥
उज्जयिन्यां यथा विप्र महाकालनिकेतनम् ॥ ११४ ॥
नैमिषे चक्रवापी तु यथा तीर्थतमा स्मृता ॥
अयोध्यायां तथा विप्र गोप्रताराभिधं महत् ॥ ११५ ॥
यत्र रामाज्ञया विद्वन्साकेतनगरीजनाः ॥
अवापुः स्वर्गमतुलं निमज्ज्य परमाम्भसि ॥ ११६ ॥
॥ व्यास उवाच ॥ ॥
अवापुस्ते कथं स्वर्गं साकेतनगरीजनाः ॥
कथं च राघवो विद्वन्नेतत्कथय सुव्रत ॥ ११७ ॥
॥ अगस्त्य उवाच ॥ ॥
सावधानः शृणु मुने कथामेतां सुविस्तरात् ॥
यथाजगाम रामोऽसौ स्वर्गं स च पुरीजनः ॥ ११८ ॥
पुरा रामो विधायैव देवकार्य्यमतन्द्रितः ॥
स्वर्गं गन्तुं मनश्चक्रे भ्रातृभ्यां सह वीरधीः ॥ ११९ ॥
ततो निशम्य चारेण वानराः कामरूपिणः ॥
ऋक्षगोपुच्छरक्षांसि समुत्पेतुरनेकशः ॥ 2.8.6.१२० ॥
देवगन्धर्वपुत्राश्च ऋषिपुत्राश्च वानराः ॥
रामक्षयं विदित्वा तु सर्व एव समागताः ॥ १२१ ॥
ते राममनुगत्योचुः सर्वे वानरयूथपाः ॥
तवानुगमने राजन्सम्प्राप्ताः स्म इहानघ ॥ १२२ ॥
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ ॥
सर्वे खलु हताः स्याम दण्डेन महता नृप ॥ १२३ ॥
श्रुत्वा तु वचनं तेषामृक्षवानररक्षसाम्॥
विभीषणमुवाचाथ राघवस्तत्क्षणं गिरा ॥ २२४ ॥
यावत्प्रजा धरिष्यन्ति तावदेव विभीषण ॥
कारयस्व महद्राज्यं लङ्कां त्वं पालयिष्यसि ॥ १२५ ॥
शाधि राज्यं च खल्वेतन्नान्यथा मे वचः कुरु ॥
प्रजास्त्वं रक्ष धर्मेण नोत्तरं वक्तुमर्हसि ॥ १२६॥
एवमुक्त्वा तु काकुत्स्थो हनुमन्तमथाब्रवीत् ॥
वायुपुत्र चिरं जीव मा प्रतिज्ञां वृथा कृथाः ॥ १२७ ॥
यावल्लोका वदिष्यन्ति मत्कथां वानरर्षभ ॥
तावत्त्वं धारय प्राणान्प्रतिज्ञां प्रतिपालयन् ॥ १२८ ॥
मैन्दश्च द्विविदश्चैव अमृतप्राशनावुभौ ॥
यावल्लोका धरिष्यन्ति तावदेतौ धरिष्यतः ॥ १२९ ॥
पुत्रपौत्राश्च येऽस्माकं तान्रक्षन्त्विह वानराः ॥
एवमुक्त्वा तु काकुत्स्थः सर्वानथ च वानरान् ॥
मया सार्धं प्रयातेति तदा तान्राघवोऽब्रवीत् ॥ 2.8.6.१३० ॥
प्रभातायां तु शर्वर्य्यां पृथुवक्षा महाभुजः ॥
रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥ १३१ ॥
अग्निहोत्राणि यान्त्वग्रे दीप्यमानानि सर्वशः ॥
वाजपेयातिरात्राणि निर्यातु च ममाग्रतः ॥ १३२ ॥
ततो वसिष्ठस्तेजस्वी सर्वं निश्चित्य चेतसा ॥
चकार विधिवत्कर्म महाप्रास्थानिकं विधिम् ॥ १३३ ॥
ततः क्षौमाम्बरधरो ब्रह्मचर्यसमन्वितः ॥
कुशानादाय पाणिभ्यां महाप्रस्थानमुद्यतः ॥ ॥ १३४ ॥
न व्याहरच्छुभं किञ्चिदशुभं वा नरेश्वरः ॥
निष्क्रम्य नगरात्तस्मात्सागरादिव चन्द्रमाः ॥ १३५ ॥
रामस्य सव्यपार्श्वे तु सपद्मा श्रीः समाश्रिता ॥
दक्षिणे ह्रीर्विशालाक्षी व्यवसायस्तथाग्रतः ॥ १३६ ॥
नानाविधायुधान्यत्र धनुर्ज्याप्रभृतीनि च ॥
अनुव्रजन्ति काकुत्स्थं सर्वे पुरुष विग्रहाः ॥ १३७ ॥
वेदो ब्राह्मणरूपेण सावित्री सव्यदक्षिणे ॥
ॐकारोऽथ वषङ्कारः सर्वे रामं तदाऽव्रजन् ॥ १३८ ॥
ऋषयश्च महात्मानः सर्वे चैव महीधराः ॥
अनुगच्छन्ति काकुत्स्थं स्वर्गद्वारमुपस्थितम् ॥ १३९ ॥
तथानुयान्ति काकुत्स्थमन्तःपुरगताः स्त्रियः ॥
सवृद्धाबालदासीकाः सपर्षद्द्वाररक्षकाः ॥ 2.8.6.१४० ॥
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ ॥
रामं व्रजन्तमागम्य रघुवंशमनुव्रताः ॥ १४१ ॥
ततो विप्रा महात्मानः साग्निहोत्राः समन्ततः ॥
सपुत्रदाराः काकुत्स्थमनुगच्छति सर्वशः ॥ १४२ ॥
मन्त्रिणो भृत्ययुक्ताश्च सपुत्राः सहबान्धवाः ॥
सर्वे ते सानुगाश्चैव ह्यनु गच्छन्ति राघवम् ॥ १४३ ॥
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ॥
गच्छन्तमनुगच्छन्तिराघवं गुणरञ्जिताः ॥ १४४ ॥
तथा प्रजाश्च सकलाः सपुत्राश्च सवबान्धवाः ॥
राघवस्यानुगाश्चासन्दृष्ट्वा विगतकल्मषम् ॥ १४५ ॥
स्नाताः शुक्लाम्बरधराः सर्वे प्रयतमानसाः ॥
कृत्वा किलकिलाशब्दमनुयाताश्च राघवम् ॥ १४६ ॥
न कश्चित्तत्र दीनोऽभून्न भीतो नातिदुःखितः ॥
प्रहृष्टा मुदिताः सर्वे वभूवुः परमाद्भुताः ॥ १४७ ॥
द्रष्टुकामाश्च निर्वाणं राज्ञो जनपदास्तथा ॥
सम्प्राप्तास्तेऽपि दृष्ट्वैव नभोमार्गेण चक्रिणम् ॥ १४८ ॥
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ॥
आगत्य परया भक्त्या पृष्ठतः समुपाययुः ॥ १४९ ॥
तानि भूतानि नगरे ह्यन्तर्धानगतान्यपि ॥
राघवं तेऽप्यनुययुः स्वर्गद्वारमुपस्थितम् ॥ 2.8.6.१५० ॥
यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च ॥
सत्त्वानि स्वर्गगमने मतिं कुर्वन्ति तान्यपि ॥ १५१ ॥
नासीत्सत्त्वमयोध्यायां सुसूक्ष्ममपि किञ्चन ॥
यद्राघवं नानुयाति स्वर्गद्वारमुपस्थितम् ॥ १५२ ॥
अथार्द्धयोजनं गत्वा नदीं पश्चान्मुखो ययौ ॥
सरयूं पुण्यसलिलां ददर्श रघुनन्दनः॥ १५३ ॥
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ॥
सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ॥
आययौ तत्र काकुत्स्थं स्वर्गद्वारमुपस्थितम् ॥ १५४ ॥
विमानशतकोटीभिर्दिव्याभिः सर्वतो वृतः ॥
दीपयन्सर्वतो व्योम ज्योतिर्भूतमनुत्तमम् ॥ १५५ ॥
स्वयम्प्रभैश्च तेजोभिर्महद्भिः पुण्यकर्मभिः ॥
पुण्या वाता ववुस्तत्र गन्धवन्तः सुखप्रदाः ॥ १५६ ॥
सपुण्यपुष्पवर्षं च वायुयुक्तं महाजवम् ॥
गन्धर्वैरप्सरोभिश्च तस्मिन्सूर्यउपस्थितः ॥१५७ ॥
शरयूसलिलं रामः पद्भ्यां स समुपास्पृशत् ॥
ततो ब्रह्मा सुरैर्युक्तः स्तोतुं समुपचक्रमे ॥१५८॥
त्वं हि लोकपतिर्देव न त्वां जानाति कश्चन ॥
अहं ते वै विशालाक्ष भूतपूर्वपरिग्रहः ॥ १५९ ॥
त्वमचिन्त्यं महद्भूतमक्षयं लोकसङ्ग्रहे ॥
यामिच्छसि महावीर्य तां तनुं प्रविश स्वकाम् ॥ 2.8.6.१६० ॥
पितामहस्य वचनादिदमेवाविशत्स्वयम् ॥
सुदिव्यं वैष्णवं तेजः संसारं स सहानुजः ॥
ततो विष्णुतनुन्देवाः पूजयन्तः सुरोत्तमम् ॥ १६१ ॥
साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ॥
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसस्तथा ॥
सुपर्णा नागयक्षाश्च दैत्यदानवराक्षसाः ॥ १६२ ॥
देवाः प्रहृष्टा मुदिताः सर्वे पूर्णमनोरथाः ॥
साधुसाध्विति ते सर्वे त्रिदिवस्था बभाषिरे ॥ १६३ ॥
अथ विष्णुर्महातेजाः पितामहमुवाच ह ॥
एषां लोकं जनौघानां दातुमर्हसि सुव्रत ॥ १६४ ॥
इमे तु सर्वे मत्स्नेहादायाताः सर्वमानवाः ॥
भक्ताश्च भक्तिमन्तश्च त्यक्तात्मानोऽपि सर्वशः ॥ १६५ ॥
तच्छ्रुत्वा विष्णुकथितं सर्वलोकेश्वरोऽब्रवीत् ॥
लोकं सन्तानिकं नाम संस्थास्यन्ति हि मानवाः ॥ १६६ ॥
स्वर्गद्वारेऽत्र वै तीर्थे राममेवानुचिन्तयन् ॥
प्राणांस्त्यजति भक्त्या वै स सन्तानं परं लभेत् ॥ १६७ ॥
सर्वे सन्तानिकन्नाम ब्रह्मलोकादनन्तरम् ॥
वानराश्च स्वकां योनिं राक्षसाश्चापि राक्षसीम्॥१६८॥
यस्या विनिःसृता ये वै सुरासुरतनूद्भवाः ॥
आदित्यतनयश्चैव सुग्रीवः सूर्यमण्डलम् ॥ १६९ ॥
ऋषयो नागयक्षाश्च प्रयास्यन्ति स्वकारणम् ॥
तथा ब्रुवति देवेशे गोप्रतारमुपस्थितम् ॥ 2.8.6.१७० ॥
तज्जलं सरयूं भेजे परिपूर्णं ततो जलम् ॥
अवगाह्य जलं सर्वे प्राणांस्त्यक्त्वा प्रहृष्टवत् ॥ १७१ ॥
मानुषं देहमुत्सृज्य ते विमानान्यथारुहन् ॥
तिर्यग्योनिगता ये च प्रविश्य सरयूं तदा ॥ १७२ ॥
देहत्यागं च ते तत्र कृत्वा दिव्यवपुर्द्धराः ॥
तथान्यान्यपि सत्त्वानि स्थावराणि चराणि च ॥ १७३ ॥
प्राप्य चोत्तमदेहं वै देवलोकमुपागमन् ॥
तस्मिंस्तत्र समापन्ने वानरा ऋक्षराक्षसाः ॥
तेऽपि प्रविविशुः सर्वे देहान्निक्षिप्य वै तदा ॥ १७४ ॥
तदा स्वर्गं गताः सर्वे स्मृत्वा लोकगुरुं विभुम् ॥
जगाम त्रिदशैः सार्द्धं रामो हृष्टो महामतिः ॥ १७५ ॥
अतस्तद्गोप्रताराख्यं तीर्थं विख्यातिमागतम् ॥
गोप्रतारे परो मोक्षो नान्यतीर्थेषु विद्यते ॥ १७६ ॥
जन्मान्तरशतैर्विप्र योगोऽयं यदि लभ्यते ॥
मुक्तिर्भवति तत्त्वेकजन्मना लभ्यते न वा ॥ १७७ ॥
गोप्रतारे न सन्देहो हरिर्भक्त्या सुनिष्ठितः ॥
एकेन जन्मनान्योऽपि योगमोक्षं च विन्दति ॥ १७८ ॥
गोप्रतारे नरो विद्वान्योऽपि स्नाति सुनिश्चितः ॥
विशत्यसौ परं स्थानं योगिनामपि दुर्लभम् ॥ ॥ १७९ ॥
कार्तिक्यां च विशेषेण स्नातव्यं विजितेन्द्रियैः ॥
कार्तिके मासि विप्रर्षे सर्वे देवाः सवासवाः ॥
स्नातुमायान्त्ययोध्यायां गोप्रतारे विशेषतः ॥ 2.8.6.१८० ॥
गोप्रतारसमं तीर्थं न भूतं न भविष्यति ॥
यत्र प्रयागराजोऽपि स्नातुमायाति कार्तिके ॥ १८१ ॥
निष्पापः कलुषं त्यक्त्वा शुक्लाङ्गः सितकञ्चुकः ॥
शुद्ध्यर्थं साधुकामोऽसौ प्रयागे मुनिसत्तमः ॥ १८२ ॥
यानि कानि च तीर्थानि भूमौ दिव्यानि सुव्रत ॥
कार्तिक्यां तानि सर्वाणि गोप्रतारे वसन्ति वै ॥ १८३ ॥
गोप्रतारे जपो होमः स्नानं दानं च शक्तितः ॥
सर्वमक्षयतां याति श्रद्धया नियमव्रतम् ॥ १८४ ॥
कार्तिके प्राप्य तद्यन्ति तीर्थानि सकलान्यपि ॥
गोप्रतारं गमिष्यामः पापं त्यक्तुमितीच्छया ॥ १८५ ॥
गोप्रतारे कृतं स्नानं सर्वपापप्रणाशनम् ॥
गोप्रतारे नरः स्नात्वा दृष्ट्वा गुप्तहरिं विभुम् ॥
सर्वपापैः प्रमुच्येत नात्र कार्या विचारणा ॥ १८६ ॥
विष्णुमुद्दिश्य विप्राणां पूजनं च विशेषतः ॥
कर्त्तव्यं श्रद्धया युक्तैः स्नानपूर्वं यतव्रतैः ॥ १८७ ॥
पयस्विनी च गौर्देया सालङ्कारा च शक्तितः ॥
विप्राय वेदविदुषे नियमव्रतशालिने ॥
ब्राह्मणायातिशुचये विष्णुप्रीत्यै यतात्मना ॥ १६८ ॥
अन्नं बहुविधं हेम वासांसि विविधानि च ॥
दातव्यानि हरेः प्राप्त्यै भक्त्या परमया युतैः ॥ १८९ ॥
सूर्यग्रहे कुरुक्षेत्रे नर्मदायां शशिग्रहे ॥
तुलादानस्य यत्पुण्यं तदत्र दीपदानतः ॥ 2.8.6.१९० ॥
घृतेन दीपको यस्य तिलतैले न वा पुनः ॥
ज्वलते मुनिशार्दूल हयमेधेन तस्य किम् ॥ १९१ ॥
तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम् ॥
दीपदानं कृतं येन कार्त्तिके केशवाग्रतः ॥ १९२ ॥
नानाविधानि तीर्थानि भुक्तिमुक्तिप्रदानि च ॥
गोप्रतारस्य तान्यत्र कलां नार्हन्ति षोडशीम् ॥ १९३ ॥
स्वर्णमल्पं च यो दद्याद्ब्राह्मणे वेदपारगे ॥
शुभां गतिमवाप्नोति ह्यग्निवच्चैव दीप्यते ॥१९४॥
गोप्रताराभिधे तीर्थे त्रिलोकीविश्रुते द्विज ॥
दत्त्वान्नं च विधानेन न स भूयोऽभिजायते ॥ १९५ ॥
तत्र स्नानं तु यः कुर्याद्विप्रान्सन्तर्पयेन्नरः ॥
सौत्रामणेश्च यज्ञस्य फलं प्राप्नोति मानवः ॥ १९६ ॥
एकाहारस्तु यस्तिष्ठेन्मासं तत्र यतव्रतः ॥
यावज्जीवकृतं पापं सहसा तस्य नश्यति ॥ १९७ ॥
अग्निप्रवेशं ये कुर्युर्गोप्रतारे विधानतः ॥
ते विशन्ति पदं विष्णोर्निःसन्दग्धं तपोधन ॥ १९८ ॥
कुर्वन्त्यनशनं येऽत्र विष्णुभक्त्या सुनिश्चिताः ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ १९९ ॥
अर्चयेद्यस्तु गोविन्दं गोप्रतारे हि मानवः ॥
दशसौवर्णिकं पुण्यं गोप्रतारे प्रकथ्यते ॥ 2.8.6.२०० ॥
अग्निहोत्रफलो धूपो गोविन्दस्य समर्पितः ॥
भूमिदानेन सदृशं गन्धदानफलं स्मृतम् ॥ २०१ ॥
अत्यद्भुतमिदं विद्वन्स्थानमेतत्प्रकीर्तितम् ॥
कार्त्तिक्यां तु विशेषेण अत्र स्नात्वा शुचिव्रतः ॥ २०२ ॥
स्वर्गद्वारे नरः स्नात्वा दशस्वर्णफलं लभेत् ॥
स्वर्णदः स्वर्गवासी च यो दद्याच्छ्रद्धयान्वितः ॥ २०३ ॥
सुतीर्थे पर्वणि श्रेष्ठे दशस्वर्णफलप्रदे ॥
ज्येष्ठशुक्लचतुर्दश्यां रात्रौ जागरणं चरेत् ॥ २०४ ॥
उपोषितः शुचिः स्नातो विष्णुपूजनतत्परः ॥
दीपं दद्यात्प्रयत्नेन नानाफलविधायिनम् ॥ २०५ ॥
तावद्गर्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले ॥
यावद्दद्याज्जले दीपं कार्त्तिके केशवाग्रतः ॥ २०६ ॥
पौर्णमास्यां प्रभाते तु स्नात्वा निर्मलमानसः ॥
हरिं सम्पूज्य विधिवद्विधाय श्राद्धमादरात् ॥ २०७ ॥
दत्त्वान्नं च यथाशक्त्या सन्तोष्य ब्राह्मणांस्ततः ॥
वस्त्रादिभिरलङ्कारैः सम्पूज्य द्विजदम्पती ॥ २०८ ॥
विभुं गुप्तहरिं दृष्ट्वा सम्पूज्य तु विशेषतः ॥
नमस्कृत्यानु तत्तीर्थं शुचिस्तद्गतमानसः ॥ २०९ ॥
स्वर्गद्वारे च विधिवन्मध्याह्ने स्नानमाचरेत् ॥
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ॥ 2.8.6.२१० ॥
इति परमविधानैर्गोप्रतारे विधाय प्रथितसुकृतमूर्त्तिः स्नानमुच्चैः प्रयत्नात् ॥
कलितनिखिलपापः पूजयित्वादरेणाच्युतममलविकाशो विष्णुसायुज्यमेति ॥ २११ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये स्वर्गद्वारगोप्रतारतीर्थमाहात्म्यवर्णनन्नाम षष्ठोऽध्यायः ॥ ६ ॥