॥ व्यास उवाच ॥ ॥
भगवन्ब्रूहि तत्त्वेन कथं निर्बन्धतो मुनिः ॥
विश्वामित्रो निजं शिष्यं कौत्सं क्रोधेन तादृशम् ॥ १ ॥
दुष्प्राप्यमर्थं यत्नेन बहु प्रार्थितवांस्तदा ॥
एतत्सर्वं च कथय मयि यद्यस्ति ते कृपा ॥ २ ॥
॥ अगस्त्य उवाच ॥ ॥
शृणु द्विज कथामेतां सावधानेन्द्रियः स्वयम् ॥
विश्वामित्रो मुनिश्रेष्ठः स दिव्यज्ञानलोचनः ॥ ३ ॥
निजाश्रमे तपो दुर्गं चकार प्रयतो व्रती ॥
एकदा तमथो द्रष्टुं दुर्वासा मुनिरागतः ॥ ४ ॥
आगत्य च क्षुधाक्रान्त उच्चैः प्रोवाच स द्विजः ॥
भोजनं दीयतां मह्यं क्षुधापीडितचेतसे ॥
पायसं शुचि चोष्णं च शीघ्रं क्षुधार्त्तिने द्विज ॥ ५ ॥
इति श्रुत्वा वचः क्षिप्रं विश्वामित्रः प्रयत्नतः ॥
स्थाल्यां पायसमादाय तं समर्प्य ततः स्वयम्॥ ६ ॥
तदादायोत्थितं दृष्ट्वा दुर्वासास्तं विलोकयन् ॥
उवाच मधुरं वाक्यं मुनिं लक्षणतत्परः ॥ ७ ॥
क्षणं सहस्व विप्रेन्द्र यावत्स्नात्वा व्रजाम्यहम् ॥
तिष्ठतिष्ठ क्षणं तिष्ठ आगच्छाम्येष साप्रतम् ॥ ८ ॥
इत्युक्त्वा स जगामैव दुर्वासाः स्वाश्रमं तदा ॥ ९ ॥
विश्वामित्रस्तपोनिष्ठस्तदा सानुरिवाऽचलः ॥
दिव्यं वर्षसहस्रं स तस्थौ स्थिरमतिस्तदा ॥ 2.8.5.१० ॥
तस्य शुश्रूषणपरो मुनिः कौत्सो यतव्रतः ॥
बभूव परमोदारमतिर्विगतमत्सरः ॥ ११ ॥
पुनरागत्य स मुनिर्दुर्वासा गतकल्मषः ॥
भुक्त्वा च पायसं सद्यः स जगाम निजाश्रमम् ॥ १२ ॥
तस्मिन्गते मुनिवरे विश्वामित्रस्तपोनिधिः ॥
कौत्सं विद्यावतां श्रेष्ठं विससर्ज गृहान्प्रति ॥ १३ ॥
स विसृष्टो गुरुं प्राह दक्षिणा प्रार्थ्यतामिति ॥
विश्वामित्रस्तु तं प्राह किं दास्यसि दक्षिणाम् ॥
दक्षिणा तव शुश्रूषा गृहं व्रज यतव्रत ॥ १४ ॥
पुनःपुनर्गुरुं प्राह शिष्यो निर्बन्धवान्यदा ॥
तदा गुरुर्गुरुक्रुद्धः शिष्यं प्राह च निष्ठुरम् ॥ १५ ॥
सुवर्णस्य सुवर्णस्य चतुर्दश समाहर ॥
कोटीर्मे दक्षिणा विप्र पश्चाद्गच्छ गृहं प्रति ॥ १६ ॥
इत्युक्तो गुरुणा कौत्सो विचार्य समुपागमत् ॥
काकुत्स्थं दिग्विजेतारं ययाचे गुरुदक्षिणाम्॥ १७ ॥
इत्युक्तं ते मुनिवर त्वया पृष्टं हि यत्पुनः ॥
अतोऽन्यच्छृणु ते वच्मि तीर्थकारणमुत्तमम् ॥ १८ ॥
तस्माद्दक्षिणदिग्भागे सम्भेदः सिद्धसेवितः ॥
तिलोदकीसरय्वोश्च सङ्गत्या भुवि संश्रुतः ॥ १९ ॥
तत्र स्नात्वा महाभाग भवन्ति विरजा नराः ॥
दशानामश्वमेधानां कृतानां यत्फलं भवेत् ॥
तदाप्नोति स धर्मात्मा तत्र स्नात्वा यतव्रतः ॥ 2.8.5.२० ॥
स्वर्णादिकं च यो दद्याद्ब्राह्मणे वेदपारगे ॥
शुभां गतिमवाप्नोति अग्निवच्चैव दीप्यते ॥ २१ ॥
तिलोदकीसरय्वोश्च सङ्गमे लोकविश्रुते ॥
दत्त्वान्नं च विधानेन न स भूयोऽभिजायते ॥ २२ ॥
उपवासं च यः कृत्वा विप्रान्सन्तर्पयेन्नरः ॥
सौत्रामणेश्च यज्ञस्य फलमाप्नोति मानवः ॥ २३ ॥
एकाहारस्तु यस्तिष्ठेन्मासं तत्र यतव्रतः ॥
यावज्जीवकृतं पापं सहसा तस्य नश्यति ॥ २४ ॥
नभस्य कृष्णामावस्यां यात्रा सांवत्सरी भवेत् ॥
रामेण निर्मिता पूर्वं नदी सिन्धुरिवापरा ॥ २५ ॥
सिन्धुजानां तुरङ्गाणां जलपानाय सुव्रत ॥
तिलवच्छ्याममुदकं यतस्तस्यां सदा बभौ ॥ २६ ॥
तिलोदकीति विख्याता पुण्यतोया सदा नदी ॥
सङ्गमादन्यतो यस्यां तिलोदक्यां शुचिव्रतः ॥
स्नातो विमुच्यते पापैः सप्तजन्मार्जितैरपि ॥ २७ ॥
तस्मात्तिलोदकीस्नानं सर्वपापहरं मुने ॥
कर्त्तव्यं सुप्रयत्नेन प्राणिभिर्धर्मकाङ्क्षिभिः ॥
स्नानं दानं व्रतं होमं सर्वमक्षयतां व्रजेत् ॥ २८॥
इति विविधविधानैस्तीर्थयात्राङ्क्रमेण प्रथितगुणविकासः प्राप्तपुण्योविधाय ॥
हरिमुपहृतभावः पूजयन्सर्वतीर्थं व्रजति परमधाम न्यस्तपापः कथञ्चित् ॥ २९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोयामाहात्म्ये तिलोदर्काप्रभाववर्णनन्नाम पञ्चमोऽध्यायः ॥ ५ ॥