॥ अगस्त्य उवाच ॥ ॥
तस्माच्चन्द्रहरिस्थानादाग्नेय्यां दिशि संस्थितः ॥
देवो धर्महरिर्न्नाम कलिकल्मषनाशकः ॥ १ ॥
वेदवेदाङ्गतत्त्वज्ञः स्वकर्मपरिनिष्ठितः ॥
पुरा समागतो धर्मस्तीर्थयात्राचिकीर्षया ॥ २ ॥
आगत्य च चकारोच्चैर्यात्रां तत्रादरेण सः ॥
दृष्ट्वा माहात्म्यमतुलमयोध्यायाः सविस्मयः ॥ ३ ॥
विधाय स्वभुजावूर्ध्वौ विप्रोऽवोचन्मुदान्वितः ॥
अहो रम्यमिदं तीर्थमहो माहात्म्यमुत्तमम् ॥ ४ ॥
अयोध्यासदृशी कापि दृश्यते नापरा पुरी ॥
या न स्पृशति वसुधां विष्णुचक्रस्थिताऽनिशम् ॥॥ ५ ॥
यस्यां स्थितो हरिः साक्षात्सेयं केनोपमीयते ॥
अहो तीर्थानि सर्वाणि विष्णुलोकप्रदानि वै ॥ ६ ॥
अहो विष्णुरहो तीर्थमयोध्याऽहो महापुरी ॥
अहो माहात्म्यमतुलं किं न श्लाघ्यमिहास्थितम् ॥ ७ ॥
इत्युक्त्वा तत्र बहुशो ननर्त प्रमदाकुलः ॥
धर्मो माहात्म्यमालोक्य अयोध्याया विशेषतः ॥ ८ ॥
तं तथा नर्तमानं वै धर्मं दृष्ट्वा कृपान्वितः ॥
आविर्बभूव भगवान्पीतवासा हरिः स्वयम् ॥
तं प्रणम्य च धर्मोऽथ तुष्टाव हरिमादरात् ॥ ९ ॥
॥ धर्म उवाच ॥ ॥
नमः क्षीराब्धिवासाय नमः पर्यङ्कशायिने ॥
नमः शङ्करसंस्पृष्टदिव्यपादाय विष्णवे ॥ 2.8.4.१० ॥
भक्त्यार्च्चितसुपादाय नमोऽजादिप्रियाय ते ॥
शुभाङ्गाय सुनेत्राय माधवाय नमो नमः ॥ ११ ॥
नमोऽरविन्दपादाय पद्मनाभाय वै नमः ॥
नमः क्षीराब्धिकल्लोलस्पृष्टगात्राय शार्ङ्गिणे ॥ १२ ॥
ॐ नमो योगनिद्राय योगर्क्षैर्भावितात्मने ॥
तार्क्ष्यासनाय देवाय गोविन्दाय नमोनमः ॥ १३ ॥
सुकेशाय सुनासाय सुललाटाय चक्रिणे ॥
सुवस्त्राय सुवर्णाय श्रीधराय नमोनमः ॥ १४ ॥
सुबाहवे नमस्तुभ्यं चारुजङ्घाय ते नमः ॥
सुवासाय सुदिव्याय सुविद्याय गदाभृते ॥ १५ ॥
केशवाय च शान्ताय वामनाय नमोनमः ॥
धर्मप्रियाय देवाय नमस्ते पीतवाससे ॥ १६ ॥
॥ अगस्त्य उवाच ॥ ॥
इति स्तुतो जगन्नाथो धर्मेण श्रीपतिर्मुदा ॥
उवाच स हृषीकेशः प्रीतो धर्ममुदारधीः ॥ १७ ॥
॥ श्रीभगवानुवाच ॥ ॥
तुष्टोऽहं भवतो धर्म स्तोत्रेणानेन सुव्रत ॥
वरं वरय धर्मज्ञ यस्ते स्यान्मनसः प्रियः ॥ १८ ॥
स्तोत्रेणानेन यः स्तौति मानवो मामतन्द्रितः ॥
सर्वान्कामानवाप्नोति पूजितः श्रीयुतःसदा॥ १९ ॥
॥ धर्म उवाच ॥ ॥
यदि तुष्टोसि भगवन्देवदेव जगत्पते ॥
त्वामहं स्थापयाम्यत्र निजनाम्ना जगद्गुरो ॥ 2.8.4.२० ॥
॥ अगस्त्य उवाच ॥ ॥
एवमस्त्विति सम्प्रोच्याभवद्धर्महरिर्विभुः ॥
स्मरणादेव मुच्येत नरो धर्महरेर्विभोः ॥ २१ ॥
सरयूसलिले स्नात्वा सुचिन्ताकुलमानसः ॥
देवं धर्महरिं पश्येत्सर्वपापैः प्रमुच्यते ॥ २२ ॥
अत्र दानं तथा होमं जपो ब्राह्मणभोजनम् ॥
सर्वमक्षयतां याति विष्णुलोके निवासकृत् ॥ २३ ॥
अज्ञानाज्ज्ञानतो वापि यत्किञ्चिद्दुष्कृतं भवेत् ॥
प्रायश्चित्तं विधातव्यं तन्नाशाय प्रयत्नतः ॥ २४ ॥
प्रायश्चित्तेन विधिना पापं तस्य प्रणश्यति॥
तस्मादत्र प्रकर्त्तव्यं प्रायश्चित्तं विधानतः ॥ २५ ॥
अज्ञानाज्ज्ञानतो वापि राजादेर्निग्रहात्तथा ॥
नित्यकर्मनिवृत्तिः स्याद्यस्य पुंसोऽवशात्मनः ॥
तेनाप्यत्र विधातव्यं प्रायश्चित्तं प्रयत्नतः ॥ २६ ॥
अत्र साक्षात्स्वयं देवो विष्णुर्वसति सादरः ॥
तस्माद्वर्णयितुं शक्यो महिमा न हि मानवैः ॥ २७ ॥
आषाढे शुक्ल पक्षस्य एकादश्यां द्विजोत्तम ॥
तस्य सांवत्सरी यात्रा कर्तव्या तु विधानतः ॥ २८ ॥
स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा धर्महरिं विभुम् ॥
सर्वपापविशुद्धात्मा विष्णुलोके वसेत्सदा ॥ २९ ॥
तस्माद्दक्षिणदिग्भागे स्वर्णस्य खनिरुत्तमा ॥
यत्र चक्रे स्वर्णवृष्टिं कुबेरो रघुजाद्भयात् ॥ 2.8.4.३० ॥ ॥
॥ व्यास उवाच ॥ ॥
भगवन्ब्रूहि तत्त्वज्ञ स्वर्णवृष्टिरभूत्कथम् ॥
कुबेरस्य कथं भीतिरुत्पन्ना रघुभूपतेः ॥ ३१ ॥
एतत्सर्वं समाचक्ष्व विस्तरान्मम सुव्रत ॥
श्रुत्वा कथारहस्यानि न तृप्यति मनो मम ॥ ३२ ॥
॥ अगस्त्य उवाच ॥ ॥
शृणु विप्र प्रवक्ष्यामि स्वर्णस्योत्पत्तिमुत्तमाम् ॥
यस्य श्रवणतो नृणां जायते विस्मयो महान् ॥ ३३ ॥
आसीत्पुरा रघुपतिरिक्ष्वाकुकुलवर्द्धनः ॥
रघुर्निजभुजोदारवीर्यशासितभूतलः ॥ ३४ ॥
प्रतापतापितारातिवर्गव्याख्यातसद्यशाः ॥
प्रजाः पालयता सम्यक्तेननीतिमता सता ॥३५॥
यशःपूरेण समलिप्ता दिशो दश सितत्विषा ॥
स चक्रे प्रौढविभवसाधनां विजयक्रमात् ॥ ३६ ॥
नानादेशान्समाक्रम्य चतुरङ्गबलान्वितः ॥
भूतानि वशमानीय वसु जग्राह दण्डतः॥३७॥
उत्कृष्टान्नृपतीन्वीरो दण्डयित्वा बलाधिकान् ॥
रत्नानि विविधान्याशु जग्राहातिबलस्तदा ॥३८॥
स विजित्य दिशः सर्वा गृहीत्वा रत्नसञ्चयम्॥
अयोध्यामागतो राजा राजधानीं च तां शुभाम्॥ ३९ ॥
तत्रागत्य च काकुत्स्थो यज्ञायोत्सुकमानसः ॥
चकार निर्मलां बुद्धिं निजवंशोचितक्रियाम॥2.8.4.४०॥
वसिष्ठं मुनिमाज्ञाय वामदेवं च कश्यपम् ॥ ४१ ॥
अन्यानपि मुनिश्रेष्ठान्नानातीर्थसमाश्रितान् ॥
समानयद्विनीतेन द्विजवर्येण भूपतिः ॥ ४२ ॥
दृष्ट्वा स्थितान्स तान्सर्वान्प्रदीप्तानिव पावकान् ॥
तानागतान्विदित्वाथ रघुः परपुरञ्जयः ॥
निश्चक्राम यथान्यायं स्वयमेव महायशाः ॥ ४३ ॥
ततो विनीतवत्सर्वान्काकुत्स्थो द्विजसत्तमान् ॥
उवाच धर्मयुक्तं च वचनं यज्ञसिद्धये ॥ ४४ ॥
॥ रविरुवाच ॥
मुनयः सर्व एवैते यूयं शृणुत मद्वचः ॥
यज्ञं विधातुमिच्छामि तत्राज्ञां दातुमर्हथ ॥ ४५ ॥
साम्प्रतं मामको यज्ञो युक्तः स्यान्मुनिसत्तमाः ॥
एतद्विचार्य्य तत्त्वेन ब्रूत यूयं मुनीश्वराः ॥ ॥ ४६ ॥
॥ मुनय ऊचुः ॥ ॥
राजन्विश्वजिदाख्यातो यज्ञानां यज्ञ उत्तमः ॥
साम्प्रतं कुरु तं यत्नान्मा विलम्बं वृथा कृथाः ॥ ४७ ॥ ॥
॥ अगस्त्य उवाच ॥
नृपश्चक्रे ततो यज्ञं विश्वदिग्जयसञ्ज्ञितम् ॥
नानासम्भारमधुरं कृतसर्वस्वदक्षिणम् ॥ ४८ ॥
नानाविधेन दानेन मुनिसन्तोषहर्षकृत् ॥
सर्वस्वमेव प्रददौ द्विजेभ्यो बहुमानतः ॥४९॥
तेषु विश्वेषु यातेषु पूजितेषु गृहान्स्वकान् ॥
बन्धुष्वपि च तुष्टेषु मुनिषु प्रणतेषु च ॥ 2.8.4.५० ॥
तेन यज्ञेन विधिवद्विहितेन नरेश्वरः ॥
शुशुभे शोभनाचारः स्वर्गे देवेन्द्रवत्क्षणात् ॥ ५१ ॥
तत्रान्तरे समभ्यायान्मुनिर्यमवतां वरः ॥
विश्वामित्रमुनेरन्तेवासी कौत्स इति स्मृतः ॥ ५२ ॥
दक्षिणार्थं गुरोर्द्धीमान्पावितुं तं नरेश्वरम् ॥
चतुर्दशसुवर्णानां कोटीराहर सत्वरम् ॥ ॥ ५३ ॥
मद्दक्षिणेति गुरुणा निर्बन्धाद्याचितो रुषा ॥
आगतः स मुनिः कौत्सस्ततो याचितुमादरात् ॥
रघुं भूपालतिलकं दत्तसर्वस्वदक्षिणम् ॥ ॥ ५४ ॥
तमागतमभिप्रेत्य रघुरादरतस्तदा ॥
उत्थाय पूजयामास विधिवत्स परन्तपः ॥
सपर्य्यासीत्तस्य सर्वा मृत्पात्रविहितक्रिया ॥ ५५ ॥
पूजासम्भारमालोक्य तादृशं तं मुनीश्वरः ॥
विस्मितोऽभून्निरानन्दो दक्षिणाऽऽशां परित्यजन् ॥
उवाच मधुरं वाक्यं वाक्यज्ञानविशारदः ॥ ॥ ५६ ॥
॥ कौत्स उवाच ॥ ॥
राजन्नभ्युदयस्तेऽस्तु गच्छाम्यन्यत्र साम्प्रतम् ॥ ५७ ॥
गुर्वर्थाहरणायैव दत्तसर्वस्वदक्षिणम् ॥
त्वां न याचे धनाभावादतोऽन्यत्र व्रजाम्यहम् ॥ ५८ ॥
॥ अगस्त्य उवाच ॥ ॥
इत्युक्तस्तेन मुनिना रघुः परपुरञ्जयः ॥
क्षणं ध्यात्वाऽब्रवीदेनं विनयाद्विहिताञ्जलिः ॥ ५९ ॥
॥ रघुरुवाच ॥ ॥
भगवंस्तिष्ठ मे हर्म्ये दिनमेकं मुनिव्रत ॥
यावद्यतिष्ये भगवन्भवदर्थार्थमुच्चकैः ॥ 2.8.4.६० ॥
॥ अगस्त्य उवाच ॥ ॥
इत्युक्त्वा परमोदारवचो मुनिमुदारधीः ॥
प्रतस्थे च रघुस्तत्र कुबेरविजिगीषया ॥ ६१ ॥
तमायान्तं कुबेरोऽथ विज्ञाप्य वचनोदितैः ॥
प्रसन्नमनसं चक्रे वृष्टिं स्वर्णस्य चाक्षयाम् ॥ ६२ ॥
स्वर्णवृष्टिरभूद्यत्र सा स्वर्णखनिरुत्तमा ॥
स मुनिं दर्शयामास खनिं तेन निवेदिताम्॥ ६३ ॥
तस्मै समर्पयामास तां रघुः खनिमुत्तमाम् ॥
मुनीन्द्रोऽपि गृहीत्वाशु ततो गुर्वर्थमादरात् ॥ ६४ ॥
राज्ञे निवेदयामास सर्वमन्यद्गुणाधिकः ॥
वरानथ ददौ तुष्टः कौत्सो मतिमतां वरः ॥ ६५ ॥
॥ कौत्स उवाच ॥ ॥
राजल्ँलभस्व सत्पुत्रं निजवंशगुणान्वितम् ॥
इयं स्वर्णखनिस्तूर्णं मनोभीष्टफलप्रदा ॥ ६६ ॥
भूयादत्र परं तीर्थं सर्वपापहरं सदा ॥
अत्र स्नानेन दानेन नृणां लक्ष्मीः प्रजायते ॥ ६७ ॥
वैशाखे शुक्लद्वादश्यां यात्रा सांवत्सरी स्मृता ॥
नानाभीष्टफलप्राप्तिर्भूयान्मद्वचसा नृणाम् ॥ ६८ ॥
॥ अगस्त्य उवाच ॥ ॥
इति दत्त्वा वरान्राज्ञे कौत्सः सन्तुष्टमानसः ॥
प्रतस्थे निजकार्यार्थे गुरोराश्रममुत्सुकः ॥ ६९ ॥
राजा स कृतकृत्योऽथ शेषं सङ्गृह्य तद्धनम्॥
द्विजेभ्यो विधिवद्दत्त्वा पालयामास वै प्रजाः ॥ 2.8.4.७० ॥
एवं स्वर्णखनेर्जातं माहात्म्यं च मुनीश्वरात् ॥ ७१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये धर्महरिस्वर्णखनिमाहात्म्यवर्णनन्नाम चतुर्थोऽध्यायः ॥ ४ ॥