००३ चन्द्रसहस्रव्रतोद्यापनविधिवर्णनम्

॥ सूत उवाच ॥ ॥
इति श्रुत्वा वचो धीमानादरात्कुम्भजन्मनः ॥
प्रोवाच मधुरं वाक्यं कृष्णद्वैपायनो मुनिः ॥ १ ॥
॥ व्यास उवाच ॥ ॥
भगवन्नद्भुतमिदं तीर्थमाहात्म्यमुत्तमम्॥
श्रुत्वा त्वत्तो मम मनः परमानन्दमाययौ ॥ २ ॥
अन्यत्तीर्थवरं ब्रूहि तत्त्वेन मम शृण्वतः ॥
न तृप्तिरस्ति मनसः शृण्वतो मम सुव्रत ॥ ३ ॥
॥ ॥ अगस्त्य उवाच ॥ ॥
शृणु विप्र प्रवक्ष्यामि तीर्थमन्यदनुत्तमम् ॥
स्वर्गद्वारमिति ख्यातं सर्वपापहरं सदा ॥ ४ ॥
स्वर्गद्वारस्य माहात्म्यं विस्तराद्वक्तुमीश्वरः ॥
नहि कश्चिदतो वत्स सङ्क्षेपाच्छृणु सुव्रत ॥ ५ ॥
सहस्रधारामारभ्य पूर्वतः सरयूजले ॥
षट्त्रिंशदधिका प्रोक्ता धनुषां षट्शती मितिः ॥ ६ ॥
स्वर्गद्वारस्य विस्तारः पुराणज्ञैर्विशारदैः ॥
स्वर्गद्वारसमं तीर्थं न भूतं न भविष्यति ॥ ७ ॥
सत्यंसत्यं पुनः सत्यं नासत्यं मम भाषितम्॥
स्वर्गद्वारसमं तीर्थं नास्ति ब्रह्माण्डगोलके ॥ ८ ॥
हित्वा दिव्यानि भौमानि तीर्थानि सकलान्यपि ॥
प्रातरागत्य तिष्ठन्ति तत्र संश्रित्य सुव्रत ॥ ९ ॥
तस्मादत्र प्रकर्तव्यं प्रातः स्नानं विशेषतः ॥
सर्वतीर्थावगाहस्य फलमात्मन ईप्सता ॥ 2.8.3.१० ॥
त्यजन्ति प्राणिनः प्राणान्स्वर्गद्वारान्तरे द्विज ॥
प्रयान्ति परमं स्थानं विष्णोस्ते नात्र संशयः ॥ ११ ॥
मुक्तिद्वारमिदं पश्य स्वर्गप्राप्तिकरं नृणाम् ॥
स्वर्गद्वारमिति ख्यातं तस्मात्तीर्थमनुत्तमम् ॥ १२ ॥
स्वर्गद्वारं सुदुष्प्राप्यं देवैरपि न संशयः ॥
यद्यत्कामयते तत्र तत्तदाप्नोति मानवः ॥ १३ ॥
स्वर्गद्वारे परा सिद्धिः स्वर्गद्वारे परा गतिः ॥
जप्तं दत्तं हुतं दृष्टं तपस्तप्तं कृतं च यत् ॥
ध्यानमध्ययनं सर्वं दानं भवति चाक्षयम् ॥ १४ ॥
जन्मान्तरसहस्रेण यत्पापं पूर्वसञ्चितम्॥
स्वर्गद्वारप्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥ १५ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वर्णसङ्कराः॥
कृमिम्लेच्छाश्च ये चान्ये सङ्कीर्णाः पापयोनयः।१६॥
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः॥
कालेन निधनं प्राप्ताः स्वर्गद्वारे शृणु द्विज ॥१७॥
कौमोदकीकराः सर्वे पक्षिणो गरुडध्वजाः ॥
शुभे विष्णुपुरे विष्णुर्जायते तत्र मानवाः ॥ १८ ॥
अकामो वा सकामो वा अपि तीर्थगतोपि वा ॥
स्वर्गद्वारे त्यजन्प्राणान्विष्णुलोके महीयते ॥ १९ ॥
मुनयो देवताः सिद्धाः साध्या यक्षा मरुद्गणाः ॥
यज्ञोपवीतमात्रेण विभागं चक्रिरे तु ये ॥ 2.8.3.२० ॥
मध्याह्नेऽत्र प्रकुर्वन्ति सान्निध्यं देवतागणाः ॥
तस्मात्तत्र प्रकुर्वन्ति मध्याह्ने स्नानमादरात् ॥ २१ ॥
कुर्वन्त्यनशनं ये तु स्वर्गद्वारे जितेन्द्रियाः ॥
प्रयान्ति परमं स्थानं ये च मासोपवासिनः ॥ २२ ॥
अन्नदानरता ते च रत्नदा भूमिदा नराः ॥
गोवस्त्रदाश्च विप्रेभ्यो यान्ति ते भवनं हरेः ॥२३॥
यत्र सिद्धा महात्मानो मुनयः पितरस्तथा ॥
स्वर्गं प्रयान्ति ते सर्वे स्वर्गद्वारं ततः स्मृतम् ॥ २४ ॥
चतुर्द्धा च तनुं कृत्वा देवदेवो हरिः स्वयम् ॥
अत्र वै रमते नित्यं भ्रातृभिः सह राघवः ॥ २५ ॥
ब्रह्मलोकं परित्यज्य चतुर्वक्त्रः सनातनः ॥
अत्रैव रमते नित्यं देवैः सह पितामहः ॥ २६ ॥
कैलासनिलयावासी शिवस्तत्रैव संस्थितः ॥ २७ ॥
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः ॥
स्वर्गद्वारं समासाद्य स सर्वो व्रजति क्षयम् ॥ २८ ॥
या गतिर्ज्ञानतपसां या गतिर्यज्ञयाजिनाम्॥
स्वर्गद्वारे मृतानां तु सा गतिर्विहिता शुभा ॥ २९ ॥
ऋषिदेवासुरगणैर्जपहोमपरायणैः ॥
यतिभिर्मोक्षकामैश्च स्वर्गद्वारो निषेव्यते ॥ 2.8.3.३० ॥
षष्टिवर्षसहस्राणि काशीवासेषु यत्फलम् ॥
तत्फलं निमिषार्द्धेन कलौ दाशरथीं पुरीम् ॥ ३१ ॥
या गतिर्योगयुक्तानां वाराणस्यां तनुत्यजाम्॥
सा गतिः स्नानमात्रेण सरय्वां हरिवासरे ॥ ३२ ॥
स्वर्गद्वारे मृतः कश्चिन्नरकं नैव पश्यति ॥
केशवानुगृहीता हि सर्वे यान्ति परां गतिम् ॥ ३३ ॥
भूलोके चान्तरिक्षे च दिवि तीर्थानि यानि वै ॥
अतीत्य वर्तते तानि तीर्थान्येतद्द्विजोत्तम ॥ ३४ ॥
विष्णुभक्तिं समासाद्य रमन्ते तु सुनिश्चिताः ॥
संहृत्य शक्तितः कामं विषयेषु हि संस्थितम् ॥३५ ॥
शक्तितः सर्वतो युक्त्वा शक्तिस्तपसि संस्थिता ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ३६ ॥
हन्यमानोऽपि यो विद्वान्वसेच्छस्त्रशतैरपि ॥
स याति परमं स्थानं यत्र गत्वा न शोचति ॥३७॥
स्वर्गद्वारे वियुज्येत स याति परमां गतिम् ॥
उत्तरं दक्षिणं वापि अयनं न विकल्पयेत् ॥ ३८ ॥
सर्वस्तेषां शुभः कालः स्वर्गद्वारं श्रयन्ति ये ॥
स्नानमात्रेण पापानि विलयं यान्ति देहिनाम् ॥ ३९ ॥
यावत्पापानि देहेन ये कुर्वन्ति जनाः क्षितौ ॥
अयोध्या परमं स्थानं तेषामीरितमादरात् ॥ ॥ 2.8.3.४० ॥
ज्येष्ठे मासि सिते पक्षे पञ्चदश्यां विशेषतः ॥
तस्य सांवत्सरी यात्रा देवैश्चन्द्रहरेः स्मृता ॥ ४१ ॥
तस्मिन्नुद्यापनं चन्द्रसहस्रं व्रतयोगिभिः ॥
कार्यं प्रयत्नतो विप्र सर्वयज्ञफलाधिकम्॥ ४२ ॥
तस्मिन्कृते महापापक्षयात्स्वर्गो भवेन्नृणाम् ॥ ४३॥
॥ श्रीव्यास उवाच ॥ ॥
भगवन्ब्रूहि तत्त्वेन तस्य चन्द्रहरेः शुभाम्॥
उत्पत्तिं च तथा चन्द्रव्रतस्योद्यापने विधिम् ॥ ४४ ॥
॥ अगस्त्य उवाच ॥ ॥
अयोध्यानिलयं विष्णुं नत्वा शीतांशुरुत्सुकः ॥
आगच्छत्तीर्थमाहात्म्यं साक्षात्कर्तुं सुधानिधिः ॥
अत्रागत्य च चन्द्रोऽथ तीर्थयात्रां चकार सः ॥ ४५ ॥
क्रमेण विधिपूर्वं च नानाश्चर्यसमन्वितः ॥
समाराध्य ततो विष्णुं तपसा दुश्चरेण वै ॥ ४६ ॥
तत्प्रसादं समासाद्य स्वाभिधानपुरस्सरम् ॥
हरिं संस्थापयामास तेन चन्द्रहरिः स्मृतः ॥ ४७ ॥
वासुदेवप्रसादेन तत्स्थानं जातमद्भुतम् ॥
तद्धि गुह्यतमं स्थानं वासुदेवस्य सुव्रत ॥ ४८ ॥
सर्वेषामिव भूतानां भर्तुर्मोक्षस्य सर्वदा ॥
अस्मिन्सिद्धाः सदा विप्र गोविन्दव्रतमास्थिताः ॥ ४९ ॥
नानालिङ्गधरा नित्यं विष्णुलोकाभिकाङ्क्षिणः ॥
अभ्यस्यन्ति परं योगं मुक्तात्मानो जितेन्द्रियाः ॥2.8.3.५०॥
यथा धर्ममवाप्नोति अन्यत्र न तथा क्वचित् ॥
दानं व्रतं तथा होमः सर्वमक्षयतां व्रजेत ॥५१॥
सर्वकामफलप्राप्तिर्जायते प्राणिनां सदा ॥
तस्मादत्र विधातव्यं प्राणिभिर्यत्नतः क्रमात् ॥
दानादिकं विप्रपूजा दम्पत्योश्च विशेषतः ॥ ५२ ॥
सर्वयज्ञाधिकफलं सर्वतीर्थावगाहनम् ॥
सर्वदेवावलोकस्य यत्पुण्यं जायते नृणाम् ॥ ५३ ॥
तत्सर्वं जायते पुण्यं प्राणिनामस्य दर्शनात् ॥
तस्मादेतन्महाक्षेत्रं पुराणादिषु गीयते ॥ ५४ ॥
उद्यापनविधिश्चात्र नृभिर्द्विजपुरस्सरम् ॥
अग्रे चन्द्रहरेश्चन्द्र सहस्रव्रतसञ्ज्ञकः ॥ ५५ ॥
गते वर्षद्वये सार्द्धे पञ्चपक्षे दिनद्वये ॥
दिवसस्याऽष्टमे भागे पतत्येकोऽधिमासकः ॥ ५६ ॥
त्र्यधिके वा अशीत्यब्दे चतुर्मासयुते ततः ॥
भवेच्चन्द्रसहस्रं तु तावज्जीवति यो नरः ॥
उद्यापनं प्रकर्त्तव्यं तेन यात्रा प्रयत्नतः ॥ ५७ ॥
यत्पुण्यं परमं प्रोक्तं सततं यज्ञयाजिनाम्॥
सत्यवादिषु यत्पुण्यं यत्पुण्यं हेमदायिनि ॥
तत्पुण्यं लभते विप्र सहस्राब्दस्य जीविभिः ॥ ५८ ॥
सर्वसौख्यप्रदं तादृक्पुण्यव्रतमिहोच्यते ॥ ५९ ॥
चतुर्दश्यां शुचिः स्नात्वा दन्तधावनपूर्वकम् ॥
चरितब्रह्मचर्य्यश्च जितवाक्कायमानसः ॥
पौर्णमास्यां तथा कृत्वा चन्द्रपूजां च कारयेत् ॥ 2.8.3.६० ॥
पूर्वं च मातरः पूज्या गौर्यादिकक्रमेण च ॥
ऋत्विजः पूजयेद्भक्त्या वृद्धिश्राद्धपुरस्सरम् ॥ ६१ ॥
प्रयतैः प्रतिमा कार्या चन्द्रमण्डलसन्निभा ॥
सहस्रसङ्ख्या ह्यथवा तदर्द्धं वा तदर्द्धकम् ॥
निजवित्तानुमानेन तदर्धेन तदर्द्धिकम् ॥ ६२ ॥
ततः श्रद्धानुमानाद्वा कार्या वित्तानुमानतः ॥
अथवा षोडश शुभा विधातव्याः प्रयत्नतः ॥ ६३ ॥
चन्द्रपूजां ततः कुर्यादागमोक्तविधानतः ॥
माषैः षोडशभिः कार्या प्रत्येकं प्रतिमा शुभा ॥ ६४ ॥
सोममन्त्रेण होमस्तु कार्यो वित्तानुमानतः ॥
प्रतिमास्थापनं कुर्यात्सोममन्त्रमुदीरयेत् ॥ ६५ ॥
सोमोत्पत्तिं सोमसूक्तं पाठयेच्च प्रयत्नतः ॥
चन्द्रपूजां ततः कुर्यादागमोक्तविधानतः ॥ ६६ ॥
चन्द्रन्यासं कलान्यासं कारयेन्मण्डले जलम् ॥
एकादशेन्द्रियन्यासं तथैव विधिपूर्वकम् ॥ ६७ ॥
चन्द्रबिम्बनिभं कार्य्यं मण्डलं शुभतण्डुलैः॥
मध्ये च कलशः स्थाप्यो गव्येन पयसाप्लुतः ॥ ६८ ॥
चतुरस्रेषु सम्पूर्णान्कलशान्स्थापयेद्बहिः ॥
मण्डले चन्द्रपूजा च कर्तव्या नामभिः क्रमात् ॥ ६९ ॥
हिमांशवे नमश्चैव सोमचन्द्राय वै नमः ॥ ५४ ॥
चन्द्राय विधवे नित्यं नमः कुमुदबन्धवे ॥ 2.8.3.७० ॥
सुधांशवे च सोमाय ओषधीशाय वै नमः ॥
नमोऽब्जाय मृगाङ्काय कलानां निधये नमः ॥ ७१ ॥
नमो नक्षत्रनाथाय शर्वरीपतये नमः ॥
जैवातृकाय सततं द्विजराजाय वै नमः ॥ ७२ ॥
एवं षोडशभिश्चन्द्रः स्तोतव्यो नामभिः क्रमात् ॥ ७३ ॥
ततो वै प्रयतो दद्याद्विधिवन्मन्त्रपूर्वकम् ॥
शङ्खतोयं समादाय सपुष्पं फलचन्दनम् ॥ ७४ ॥
नमस्ते मासमासान्ते जायमान पुनःपुनः ॥
गृहाणार्घ्यं शशाङ्क त्वं रोहिण्या सहितो मम ॥७५॥
एवं सम्पूज्य विधिवच्छशिनं प्रणतो भवेत् ॥
षोडशान्ये च कलशा दुग्धपूर्णाः सरत्नकाः ॥७६॥
सवस्त्राच्छादनाः शान्त्यै दातव्यास्ते द्विजन्मने ॥
अभिषेकं ततः कुर्यात्पायसेन जलेन तु ॥ ७७ ॥
ऋत्विजां मनसस्तुष्टिः कार्या वित्तानुमानतः ॥
ब्राह्मणं भोजयेत्तत्र सकुटुम्बं विशेषतः ॥ ७८ ॥
पूजनीयौ प्रयत्नेन वस्त्रैश्च द्विजदम्पती ॥
कर्तव्यं च ततो भूरिदक्षिणादानमुत्तमम् ॥ ७९ ॥
प्रतिमाश्च प्रदातव्या द्विजेभ्यो धेनुपूर्विकाः ॥
सुवर्णं रजतं वस्त्रं तथान्नं च विशेषतः ॥
दातव्यं चन्द्रसुप्रीत्यै हर्षादेवं द्विजन्मने ॥ 2.8.3.८० ॥
उपवासविधानेन दिनशेषं नयेत्सुधीः ॥
अनन्तरे च दिवसे कुर्याद्भगवदर्चनम् ॥
बान्धवैः सह भुञ्जीत नियमं च विसर्ज्जयेत् ॥ ८१ ॥
एवं च कुरुते चन्द्रसहस्रं व्रतमुत्तमम् ॥
ब्रह्मघ्नोऽपि सुरापोऽपि स्तेयी च गुरुतल्पगः ॥
व्रतेनानेन शुद्धात्मा चन्द्रलोकं व्रजेन्नरः ॥ ८२ ॥
यादृशश्च भवेद्विप्र प्रियो नारायणस्य च ॥
एवं करोति नियतं कृतकृत्यो भवेन्नरः ॥ ८३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये चन्द्रसहस्रव्रतोद्यापनविधिवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥