००२ ब्रह्मकुण्डसहस्रधारातीर्थमाहात्म्यवर्णनम्

॥ सूत उवाच ॥ ॥
अगस्त्यमुनिरित्युक्त्वा चक्रतीर्थाश्रयां कथाम् ॥
विभोर्विष्णुहरेश्चापि पुनराह द्विजोत्तमाः ॥ १ ॥
॥ ॥ अगस्त्य उवाच ॥ ॥
पुरा ब्रह्मा जगत्स्रष्टा विज्ञाय हरिमच्युतम् ॥
अयोध्यावासिनं देवं तत्र चक्रे स्थितिं स्वयम् ॥ २ ॥
आगत्य कृतवांस्तत्र यात्रां ब्रह्मा यथाविधि ॥
यज्ञं च विधिवच्चक्रे नानासम्भारसंयुतम् ॥ ३ ॥
ततः स कृतवांस्तत्र ब्रह्मा लोकपितामहः ॥
कुण्डं स्वनाम्ना विपुलं नानादेवसमन्वितम् ॥ ४ ॥
विस्तीर्णजलकल्लोलकलितं कलुषापहम् ॥
कुमुदोत्पलकह्लारपुण्डरीककुलाकुलम् ॥ ५ ॥
हंससारसचक्राह्व विहङ्गममनोहरम् ॥
तटान्तविटपोल्लासि पतत्त्रिगणसङ्कुलम् ॥ ६ ॥
तत्र कुण्डे सुराः सर्वे स्नाताः शुद्धिसमन्विताः ॥
बभूवुरद्धा विगतरजस्का विमलत्विषः ॥ ७ ॥
तदाश्चर्य्यं महद्दृष्ट्वा ते सर्वे सहसा सुराः ॥
ब्रह्माणं प्रणिपत्योचुर्भक्त्या प्राञ्जलयस्तदा ॥ ८ ॥
॥ देवा ऊचुः ॥ ॥
भगवन्ब्रूहि तत्त्वेन माहात्म्यं कमलासन ॥
अस्य कुण्डस्य सकलं खातस्य विमलत्विषः ॥ ९ ॥
अत्र स्नानेन सर्वेषामस्माकं विगतं रजः ॥
महदाश्चर्यमेतस्य दृष्ट्वा कुण्डस्य विस्मिताः ॥
सर्वे वयं सुरश्रेष्ठ कृपया त्वमतो वद ॥ 2.8.2.१० ॥
॥ ब्रह्मोवाच ॥ ॥
शृण्वन्तु सर्वे त्रिदशाः सावधानाः सविस्मयाः ॥
कुण्डस्यैतस्य माहात्म्यं नानाफलसमन्वितम् ॥ ११ ॥
अत्र स्नानेन विधिवत्पापात्मानोऽपि जन्तवः ॥
विमानं हंससंयुक्तमास्थाय रुचिराम्बराः ॥
निवसन्ति ब्रह्मलोके यावदाभूतसम्प्लवम् ॥ १२ ॥
अत्र दानेन होमेन यथाशक्त्या सुरोत्तमाः ॥
तुलाश्वमेधयोः पुण्यं प्राप्नुयुर्मुनिसत्तम ॥ १३ ॥
ममास्मिन्सरसि श्रीमाञ्जायते स्नानतो नरः ॥
तस्मादत्र विधानेन स्नानं दानं जपादिकम् ॥ १४ ॥
सर्वयज्ञसमं स्याद्वै महापातकनाशनम्॥
ब्रह्मकुण्डमिति ख्यातिमितो यास्यत्यनुत्तमाम्॥१५॥
अस्मिन्कुण्डे च सान्निध्यं भविष्यति सदा मम ॥
कार्त्तिके शुक्लपक्षस्य चतुर्दश्यां सुरोत्तमाः ॥ १६ ॥
यात्रा भविष्यति सदा सुराः सांवत्सरी मम ॥
शुभप्रदा महापापराशिनाशकरी तदा ॥ १७ ॥
स्वर्णं चैव सदा देयं वासांसि विविधानि च ॥
निजशक्त्या प्रकर्तव्या सुरास्तृप्तिर्द्विजन्मनाम्॥१८॥
॥ अगस्त्य उवाच ॥ ॥
इत्युक्त्वा देवदेवोऽयं ब्रह्मा लोकपितामहः ॥
अन्तर्दधे सुरैः सार्द्धं तीर्थं दृष्ट्वा तपोधन ॥ १९ ॥
तदाप्रभृति तत्कुण्डं विख्यातं परमं भुवि ॥
चक्रतीर्थाच्च पूर्वस्यां दिशि कुण्डं स्थितं महत् ॥ 2.8.2.२० ॥
॥ ॥ सूत उवाच ॥ ॥
इत्युक्त्वा स तपोराशिरगस्त्यः कुम्भसम्भवः ॥
पुनः पृष्टो मुनिवरो व्यासायावीवदत्कथाम् ॥ २१ ॥
॥ अगस्त्य उवाच ॥ ॥
अन्यच्छृणु महाभाग तीर्थं दुष्कृतिदुर्ल्लभम् ॥
ऋणमोचनसञ्ज्ञं तु सरयूतीरसङ्गतम् ॥ २२ ॥
ब्रह्मकुण्डान्मुनिवर धनुःसप्तशतेन च ॥
पूर्वोत्तरदिशाभागे संस्थितं सरयूजले ॥ २३ ॥
तत्र पूर्वं मुनिवरो लोमशो नाम नामतः ॥
तीर्थयात्राप्रसङ्गेन स्नानं चक्रे विधानतः ॥ २४ ॥
ततः स ऋणनिर्मुक्तो बभूव गतकल्मषः ॥
तदाश्चर्यं महद्दृष्ट्वा मुनीन्सानन्दमब्रवीत् ॥ २५ ॥
पश्यन्त्वेतस्य महतो गुणांस्तीर्थवरस्य वै ॥
भुजावूर्ध्वं तथा कृत्वा हर्षेणाहाऽश्रुलोचनः ॥ २६ ॥
॥ लोमश उवाच ॥ ॥
ऋणमोचनसञ्ज्ञं तु तीर्थमेतदनुत्तमम् ॥
यत्र स्नानेन जन्तूनामृणनिर्यातनं भवेत् ॥ २७ ॥
ऐहिकं पारलौकिक्यं यदृणत्रितयं नृणाम् ॥
तत्सर्वं स्नानमात्रेण तीर्थेऽस्मिन्नश्यति क्षणात् ॥॥ २८ ॥
सर्वतीर्थोत्तमं चैतत्सद्यः प्रत्ययकारकम् ॥
मया चास्य फलं सम्यगनुभूतमृणादिह ॥ २९ ॥
तस्मादत्र विधानेन स्नानं दानं च शक्तितः ॥
कर्त्तव्यं श्रद्धया युक्तैः सर्वदा फलकाङ्क्षिभिः ॥ 2.8.2.३० ॥
स्नातव्यं च सुवर्णं च देयं वस्त्रादि शक्तितः ॥ ३१ ॥
॥ ॥ अगस्त्य उवाच ॥ ॥
इत्युक्त्वा तीर्थमाहात्म्यं लोमशो मुनिसत्तमः ॥
अन्तर्दधे मुनिश्रेष्ठः स्तुवंस्तीर्थगुणान्मुदा ॥ ३२ ॥
इत्येतत्कथितं विप्र ऋणमोचनसञ्ज्ञकम् ॥
यत्र स्नानेन जन्तूनामृणं नश्यति तत्क्षणात् ॥
ऋणमोचनतीर्थं तु पूर्वतः सरयूजले ॥ ३३ ॥
धनुर्द्विशत्या तीर्थं च पापमोचनसञ्ज्ञकम्॥
सर्वपापविशुद्धात्मा तत्र स्नानेन मानवः ॥
जायते तत्क्षणादेव नात्र कार्या विचारणा ॥ ३४ ॥
मया तत्र मुनिश्रेष्ठ दृष्टं माहात्म्यमुत्तमम् ॥ ३५ ॥
पाञ्चालदेशसम्भूतो नाम्ना नरहरिर्द्विजः ॥
असत्सङ्गप्रभावेन पापात्मा समजायत ॥ ३६ ॥
नाना विधानि पापानि ब्रह्महत्यादिकानि च ॥
कृतवान्पापिसङ्गेन त्रयीमार्गविनिन्दकः ॥ ३७ ॥
स कदाचित्साधुसङ्गात्तीर्थयात्राप्रसङ्गतः ॥
अयोध्यामागतो विप्र महापातककृद्द्विजः ॥ ३८ ॥
पापमोचनतीर्थे तु स्नातः सत्सङ्गतो द्विजः ॥
पापराशिर्विनष्टोऽस्य निष्पापः समभूत्क्षणात् ॥ ३९ ॥
दिवः पपात तन्मूर्ध्नि पुष्पवृष्टिर्मुनीश्वर ॥
दिव्यं विमानमारुह्य विष्णुलोके गतो द्विजः ॥ 2.8.2.४० ॥
तद्दृष्ट्वा महदाश्चर्यं मया च द्विजपुङ्गव ॥
श्रद्धया परया तत्र कृतं स्नानं विशेषतः ॥४१॥
माघकृष्णचतुर्दश्यां तत्र स्नानं विशेषतः ॥
दानं च मनुजैः कार्य्यं सर्वपापविशुद्धये ॥४२॥
अन्यदा(?) तु कृते स्नाने सर्वपापक्षयो भवेत् ॥ ४३ ॥
पापमोचनतीर्थे तु पूर्वं तु सरयूजले ॥
धनुःशतप्रमाणेन वर्त्तते तीर्थमुत्तमम् ॥ ४४ ॥
सहस्रधारासञ्ज्ञं तु सर्वकिल्बिषनाशनम् ॥
यस्मिन्रामाज्ञया वीरो लक्ष्मणः परवीरहा ॥
प्राणानुत्सृज्य योगेन ययौ शेषात्मतां पुरा ॥ ४५ ॥
सार्द्धंहस्तत्रयेणैव प्रमाणं धनुषो विदुः ॥
चतुर्भिर्हस्तकैः सङ्ख्या दण्ड इत्यभिधीयते ॥ ४६ ॥
॥ सूत उवाच ॥ ॥
इत्थं तदा समाकर्ण्य कुम्भयोनिमुनेस्तदा ॥
कृष्णद्वैपायनो व्यासः पुनः पप्रच्छ कौतुकात् ॥ ४७ ॥
॥ व्यास उवाच ॥ ॥
सहस्रधारामाहात्म्यं विस्तराद्वद सुव्रत ॥
शृण्वंस्तीर्थस्य माहात्म्यं न तृप्यति मनो मम ॥ ४८ ॥
॥ अगस्त्य उवाच ॥ ॥
सावधानः शृणु मुने कथां कथयतो मम ॥
सहस्रधारातीर्थस्य समुत्पत्तिं महोदयात् ॥ ४९ ॥
पुरा रामो रघुपतिर्देवकार्यं विधाय वै ॥
कालेन सह सङ्गम्य मन्त्रं चक्रे नरेश्वरः ॥ 2.8.2.५० ॥
आवां मन्त्रयमाणौ हि यः पश्येदन्तिकागतः॥४९॥
मया त्याज्यो भवेत्क्षिप्रमित्थं चक्रे स संविदम् ॥५१॥
तस्मिन्मन्त्रयमाणे हि द्वारे तिष्ठति लक्ष्मणे ॥
आगतः स तपोराशिर्दुर्वासास्तेजसां निधिः ॥ ५२ ॥
आगत्य लक्ष्मणं शीघ्रं प्रीत्योवाच क्षुधाऽऽकुलः॥ ५३ ॥
॥ दुर्वासा उवाच ॥ ॥
सौमित्रे गच्छ शीघ्रं त्वं रामाग्रे मां निवेदय ॥
कार्यार्थिनमिदं वाक्यं नान्यथा कर्तुमर्हसि ॥ ५४ ॥
॥ अगस्त्य उवाच ॥ ॥
शापाद्भीतः स सौमित्रिर्द्रुतं गत्वा तयोः पुरः ॥
मुनिं निवेदयामास रामाग्रे दर्शनार्थिनम् ॥
दुर्वाससं तपोराशिमत्रिनन्दनमागतम् ॥ ५५ ॥
रामोऽपि कालमामन्त्र्य प्रस्थाप्य च बहिर्ययौ ॥
दृष्ट्वा मुनिं तं प्रणतः सम्भोज्य प्रभुरादरात् ॥ ५६ ॥
दुर्वाससं मुनिवरं प्रस्थाप्य स्वयमादरात् ॥
सत्यभङ्गभयाद्वीरो लक्ष्मणं त्यक्तवांस्तदा ॥ ५७ ॥
लक्ष्मणोऽपि तदा वीरः कुर्वन्नवितथं वचः ॥
भ्रातुर्ज्येष्ठस्य सुमतिः सरयूतीरमाययौ ॥ ५८ ॥
तत्र गत्वाथ च स्नात्वा ध्यानमास्थाय सत्वरम् ॥
चिदात्मनि मनः शान्तं सङ्गम्यावस्थितस्तदा ॥ ५९ ॥
ततः प्रादुरभूत्तत्र सहस्रफणमण्डितः ॥
शेषश्चक्षुःश्रवाः श्रेष्ठः क्षितिं भित्त्वा सहस्रधा ॥
सुरलोकात्सुरेन्द्रोऽपि समागादमरैः सह ॥ 2.8.2.६० ॥
ततः शेषात्मतां यातं लक्ष्मणं सत्यसङ्गरम् ॥
उवाच मधुरं शक्रः सुराणां तत्र पश्यताम् ॥ ६१ ॥
॥ ॥ इन्द्र उवाच ॥ ॥
लक्ष्मणोत्तिष्ठ शीघ्रं त्वमारोह स्वपदं स्वकम् ॥
देवकार्यं कृतं वीर त्वया रिपुनिषूदन ॥ ६२ ॥
वैष्णवं परमं स्थानं प्राप्नुहि त्वं सनातनम् ॥
भवन्मूर्तिः समायातः शेषोऽपि विलसत्फणः ॥ ६३ ॥
सहस्रधा क्षितिं भित्त्वा सहस्रफणमण्डलैः ॥
क्षितेः सहस्रच्छिद्रेषु यस्माद्भित्त्वा समुद्गताः ॥ ६४ ॥
फणसाहस्रमणिभिर्दग्धाः शेषस्य सुव्रत ॥
तस्मादेतन्महातीर्थं सरयूतीरगं शुभम् ॥
ख्यातं सहस्रधारेति भविष्यति न संशयः ॥ ६५ ॥
एतत्क्षेत्रप्रमाणं तु धनुषां पञ्चविंशतिः ॥
अत्र स्नानेन दानेन श्राद्धेन श्रद्धयान्वितः ॥
सर्वपापविशुद्धात्मा विष्णुलोकं व्रजेन्नरः ॥ ६६ ॥
अत्र स्नातो नरो धीमाञ्छेषं सम्पूज्य चाव्ययम् ॥
तीर्थं सम्पूज्य विधिवद्विष्णुलोकमवाप्नुयात् ॥ ६७ ॥
तस्मादत्र प्रकर्तव्यं स्नानं विधिपुरःसरम् ॥
शेषरूपाहिवद्ध्येयाः पूज्या विप्रा विशेषतः ॥ ६८ ॥
स्वर्णं चान्नं च वासांसि देयानि श्रद्धयान्वितैः ॥
स्नानं दानं हरेः पूजा सर्वमक्षयतां व्रजेत् ॥ ६९ ॥
तस्मादेतन्महातीर्थं सर्वकामफलप्रदम् ॥
क्षितौ भविष्यति सदा नात्र कार्या विचारणा ॥ 2.8.2.७० ॥
श्रावणे शुद्धपक्षस्य या तिथिः पञ्चमी भवेत् ॥
तस्यामत्र प्रकर्तव्यो नागानुद्दिश्य यत्नतः ॥ ७१ ॥
उत्सवो विपुलः सद्भिः शेषपूजापुरःसरम् ॥
उत्सवे तु कृते तत्र तीर्थे महति मानवैः ॥ ७२ ॥
सन्तोष्य च द्विजान्भक्त्या नागपूजापुरस्सरम् ॥
सन्तुष्टाः फणिनः सर्वे पीडयन्ति न मानुषान् ॥ ७३ ॥
वैशाखमासे ये स्नानं कुर्वन्त्यत्र समाहिताः ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ७४ ॥
तस्मादत्र प्रकर्तव्यं माधवे यत्नतो नरैः ॥
स्नानं दानं हरिः पूज्यो ब्राह्मणाश्च विशेषतः ॥
तीर्थे कृतेऽत्र मनुजैः सर्वकामफलप्रदः ॥ ७५ ॥
विष्णुमुद्दिश्य यो दद्यात्सालङ्कारां पयस्विनीम् ॥
सवत्सामत्र सत्तीर्थे सत्पात्राय द्विजन्मने ॥ ७६ ॥
तस्य वासो भवेन्नित्य विष्णुलोके सनातने ॥
अक्षयं स्वर्गमाप्नोति तीर्थ स्नानेन मानवः ॥ ७७ ॥
अत्र पूज्यौ विशेषेण नरैः श्रद्धासमन्वितः ॥
वैशाखे मास्यलङ्कारैर्वस्त्रैश्च द्विजदम्पती ॥ ७८ ॥
लक्ष्मीनारायणप्रीत्यै लक्ष्मीप्रात्यै विशेषतः ॥
वैशाखे मासि तीर्थानि पृथिवीसंस्थितानि वै ॥ ७९ ॥
सर्वाण्यपि च सङ्गत्य स्थास्यन्त्यत्र न संशयः ॥
तस्मादत्र विशेषेण वैशाखे स्नानतो नृणाम् ॥
सर्वतीर्थावगाहस्य भविष्यति फलं महत् ॥ 2.8.2.८० ॥
॥ अगस्त्य उवाच ॥ ॥
इत्युक्त्वा मुनिराजेन्द्रो लक्ष्मणं सुरसं गतम् ॥
शेषं संस्थाप्य तत्तीर्थे भूभारहरणक्षमम् ॥
लक्ष्मणं यानमारोप्य प्रतस्थे दिवमादरात् ॥ ८१ ॥
तदाप्रभृति तत्तीर्थं विख्यातिं परमां ययौ ॥
वैशाखे मासि तीर्थस्य माहात्म्यं परमं स्मृतम् ॥ ८२ ॥
पञ्चम्यामपि शुक्लायां श्रावणस्य विशेषतः ॥
अन्यदा पर्वणि श्रेष्ठं विशेषं स्नानमाचरेत् ॥
सहस्रधारातीर्थे च नरः स्वर्गमवाप्नुयात्॥ ८३ ॥
विधिवदिह हि धीमान्स्नानदानानि तीर्थे नरवर इह शक्त्या यः करोत्यादरेण ॥
स इह विपुलभोगान्निर्मलात्मा च भक्त्या भजति भुजगशायिश्रीपतेरात्मनैक्यम् ॥ ८४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये ब्रह्मकुण्डसहस्रधारातीर्थमाहात्म्यवर्णनन्नाम द्वितीयोऽध्यायः ॥ २ ॥