००१ विष्णुहरिमाहात्म्यवर्णनम्

॥ अयोध्यामाहात्म्यं प्रारभ्यते ॥ ॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः ॥
यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति ॥ १ ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्॥
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ २ ॥
॥ व्यास उवाच ॥ ॥
हिमवद्वासिनः सर्वे मुनयो वेदपारगाः ॥
त्रिकालज्ञा महात्मानो नैमिषारण्यवासिनः ॥ ३ ॥
येऽर्बुदारण्यनिरता दण्डकारण्यवासिनः ॥
महेन्द्राद्रिरता ये वै ये च विन्ध्यनिवासिनः ॥ ४ ॥
जम्बूवनरता ये च ये गोदावरिवासिनः ॥
वाराणसीश्रिता ये च मथुरावासिनस्तथा ॥ ५ ॥
उज्जयिन्यां रता ये च प्रथमाश्रमवासिनः ॥
द्वारावतीश्रिता ये च बदर्य्याश्रयिणस्तथा॥ ६ ॥
मायापुरीश्रिता ये च ये च कान्तीनिवासिनः ॥
एते चान्ये च मुनयः सशिष्या बहवोऽमलाः ॥ ७ ॥
कुरुक्षेत्रे महाक्षेत्रे सत्रे द्वादशवार्षिके ॥
वर्तमाने च रामस्य क्षितीशस्य महात्मनः ॥
समागताः समाहूताः सर्वे ते मुनयोऽमलाः ॥ ८ ॥
सर्वे ते शुद्धमनसो वेदवेदाङ्गपारगाः ॥
तत्र स्नात्वा यथान्यायं कृत्वा कर्म जपादिकम् ॥ ९ ॥
भारद्वाजं पुरस्कृत्य वेदवेदाङ्गपारगम् ॥
आसनेषु विचित्रेषु बृष्यादिषु ह्यनुक्रमात् ॥ 2.8.1.१० ॥
उपविष्टाः कथाश्चक्रुर्नानातीर्थाश्रितास्तदा ॥
कर्मान्तरेषु सत्रस्य सुखासीनाः परस्परम् ॥ ११ ॥
कथान्तेषु ततस्तेषां मुनीनां भावितात्मनाम् ॥
आजगाम महातेजास्तत्र सूतो महामतिः ॥ १२ ॥
व्यासशिष्यः पुराणज्ञो समः हर्षणसञ्ज्ञकः ॥
तान्प्रणम्य यथान्यायं मुनीनुपविवेश सः ॥
उपविष्टो यथान्यायं मुनीनां वचनेन सः ॥ १३ ॥
व्यासशिष्यं मुनिवरं सूतं वै रोमहर्षणम् ॥
तं पप्रच्छुर्मुनिवरा भारद्वाजादयोऽमलाः ॥ १४ ॥
॥ ऋषय ऊचुः ॥ ॥
त्वत्तः श्रुता महाभाग नानातीर्थाश्रिताः कथाः ॥
सरहस्यानि सर्वाणि पुराणानि महामते ॥ १५ ॥
साम्प्रतं श्रोतुमिच्छामः सरहस्यं सनातनम् ॥
अयोध्याया महापुर्या महिमानं गुणोज्ज्वलम् ॥ १६ ॥
कीदृशी सा सदा मेध्याऽयोध्या विष्णुप्रियापुरी ॥
आद्या सा गीयते वेदे पुरीणां मुक्तिदायिका ॥ १७ ॥
संस्थानं कीदृशं तस्यास्तस्यां के च महीभुजः ॥
कानि तीर्थानि पुण्यानि माहात्म्यं तेषु कीदृशम् ॥ १८ ॥
अयोध्यासेवनान्नृणां फलं स्यात्सूत कीदृशम् ॥
किं चरित्रं सूत तस्याः का नद्यः के च सङ्गमाः ॥१९॥
तत्र स्नानेन किं पुण्यं दानेन च महामते ॥
तत्सर्वं श्रोतुमिच्छामस्त्वत्तः सूत गुणाधिक॥ 2.8.1.२० ॥
एतत्सर्वं क्रमेणैव तथ्यं त्वं वेत्थ साम्प्रतम्॥
अयोध्याया महापुर्य्या माहात्म्यं वक्तुमर्हसि ॥ २१ ॥
॥ सूत उवाच ॥ ॥
व्यासप्रसादाज्जानामि पुराणानि तपोधनाः ॥
सेतिहासानि सर्वाणि सरहस्यानि तत्त्वतः ॥ २२ ॥
तं प्रणम्य प्रवक्ष्यामि माहात्म्यं भवदग्रतः ॥
अयोध्याया महापुर्या यथावत्सरहस्यकम् ॥ २३ ॥
विद्यावन्तं विपुलमतिदं वेदवेदाङ्गवेद्यं श्रेष्ठं शान्तं शमितविषयं शुद्धतेजोविशालम् ॥
वेदव्यासं सततविनतं विश्ववेद्यैकयोनिं पाराशर्य्यं परमपुरुषं सर्वदाऽहं नमामि ॥२४॥
ॐ नमो भगवते तस्मै व्यासायामिततेजसे ॥
यस्य प्रसादाज्जानामि ह्ययोध्यामहिमामहम् ॥२५॥
शृण्वन्तु मुनयः सर्वे सावधानाः सशिष्यकाः ॥
माहात्म्यं कथयिष्यामि अयोध्याया महोदयम् ॥ २६ ॥
उदीरितमगस्त्याय स्कन्देनाश्रावि नारदात् ॥
अगस्त्येन पुरा प्रोक्तं कृष्णद्वैपायनाय तत् ॥२७॥
कृष्णद्वैपायनाच्चैतन्मया प्राप्तं तपोधनाः ॥
तदहं वच्मि युष्मभ्यं श्रोतुकामेभ्य आदरात् ॥ २८ ॥
नमामि परमात्मानं रामं राजीवलोचनम्॥
अतसीकुसुमश्यामं रावणान्तकमव्ययम् ॥२९॥
अयोध्या सा परा मेध्या पुरी दुष्कृतिदुर्ल्लभा ॥
कस्य सेव्या च नाऽयोध्या यस्यां साक्षाद्धरिः स्वयम् ॥ 2.8.1.३० ॥
सरयूतीरमासाद्य दिव्या परमशोभना ॥
अमरावतीनिभा प्रायः श्रिता बहुतपोधनैः ॥३१॥
हस्त्यश्वरथपत्त्याढ्या सम्पदुच्चा च संस्थिता ॥
प्राकाराढ्यप्रतोलीभिस्तोरणैः काञ्चनप्रभैः ॥ ३२ ॥
सानूपवेषैः सर्वत्र सुविभक्तचतुष्टया ॥
अनेकभूमिप्रासादा बहुभित्तिसुविक्रिया ॥३३॥
पद्मोत्फुल्लशुभोदाभिर्वापीभिरुपशोभिता॥
देवतायतनैर्दिव्यैर्वेदघोषैश्च मण्डिता ॥३४ ॥
वीणावेणुमृदङ्गादिशब्दैरुत्कृष्टतां गता।
शालैस्तालैर्नालिकेरैः पनसामलकैस्तथा॥ ३५॥
तथैवाम्रकपित्थाद्यैरशोकैरुपशोभिता ॥
आरामैर्विविधैर्युक्ता सर्वर्तुफलपादपैः॥ ३६ ॥
मालतीजातिबकुलपाटलीनागचम्पकैः ॥
करवीरैः कर्णिकारैः केतकीभिरलङ्कृता ॥ ३७ ॥
निम्बजंवीरकदलीमातुलिङ्गमहाफलैः ॥
लसच्चन्दनगन्धाढ्यैर्नागरैरुपशोभिता ॥३८॥
देवतुल्यप्रभायुक्तैर्नृपपुत्रैश्च संयुता ॥
सुरूपाभिर्वरस्त्रीभिर्देवस्त्रीभिरिवावृता॥ ३९॥
श्रेष्ठैः सत्कविभिर्युक्ता बृहस्पतिसमैर्द्विजैः॥
वणिग्जनैस्तथा पौरैः कल्पवृक्षैरिवावृता॥ 2.8.1.४०॥
अश्वैरुच्चैःश्रवस्तुल्यैर्दन्तिभिर्दिग्गजैरिव॥
इति नानाविधैर्भावैरुपेतेन्द्रपुरी समा॥४१ ॥
यस्यां जाता महीपालाः सूर्यवंशसमुद्भवाः॥
इक्ष्वाकुप्रमुखाः सर्वे प्रजापालनतत्पराः॥ ४२॥
यस्यास्तीरे पुण्यतोया कूजद्भृङ्गविहङ्गमा ॥
सरयूर्नाम तटिनी मानसप्रभवोल्लसा ॥४३॥
धर्मद्रवपरीता सा घर्घरोत्तमसङ्गमा ॥
मुनीश्वराश्रिततटा जागर्ति जगदुच्छ्रिता ॥ ४४ ॥
दक्षिणाच्चरणाङ्गुष्ठान्निःसृता जाह्नवी हरेः ॥
वामाङ्गुष्ठान्मुनिवराः सरयूर्निर्गता शुभा ॥ ४५ ॥
तस्मादिमे पुण्यतमे नद्यौ देवनमस्कृते ॥
एतयोः स्नानमात्रेण ब्रह्महत्यां व्यपोहति ॥ ४६ ॥
तामयोध्यामथ प्राप्तोऽगस्त्यः कुम्भोद्भवो मुनिः ॥
यात्रार्थं तीर्थमाहात्म्यं ज्ञात्वा स्कन्दप्रसादतः ॥ ॥ ४७ ॥
आगत्य तु इतः सोऽपि कृऽत्वा यात्रां क्रमेण च ॥
यथोक्तेन विधानेन स्नात्वा सन्तर्प्य तान्पितॄन् ॥ ४८ ॥
पूजयित्वा यथान्यायं देवताः सकला अपि ॥
सर्वाण्यपि च तीर्थानि नमस्कृत्य यथाविधि ॥४९॥
कृतकृत्योर्ज्जितानन्दस्तीर्थमाहात्म्यदर्शनात् ॥
अभूदगस्त्यो रूपेण पुलकां चितविग्रहः ॥ 2.8.1.५० ॥
स त्रिरात्रं स्थितस्तत्र यात्रां कृत्वा यथाविधि ॥
स्तुवन्नयोध्यामाहात्म्यं प्रतस्थे मुनिसत्तमः ॥ ५१ ॥
तमायान्तं विलोक्याशु बहुलानन्दसुन्दरम् ॥
कृष्णद्वैपायनो व्यासः पप्रच्छानन्दकारणम् ॥ ५२ ॥
॥ व्यास उवाच ॥ ॥
कुतः समागतो ब्रह्मन्साम्प्रतं मुनिसत्तमः ॥
परमानन्दसन्दोहः समभूत्साम्प्रतं तव ॥ ५३ ॥
कस्मादानन्दपोषोऽभूत्तव ब्रह्मन्वदस्व मे ॥
ममापि भवदानन्दात्प्रमोदो हृदि जायते ॥ ५४ ॥ ॥
॥ अगस्त्य उवाच ॥ ॥
अहो महदथाश्चर्य्यं विस्मयो मुनिसत्तम ॥
दृष्ट्वा प्रभावं मेऽद्याभूदयोध्यायास्तपोधन ॥ ५५ ॥
तस्मादानन्दसन्दोहः समभून्मम साम्प्रतम् ॥
तच्छ्रुत्वागस्त्यवचनं व्यासः प्रोवाच तं मुनिम् ॥ ५६ ॥
॥ व्यास उवाच ॥ ॥
भगवन्ब्रूहि तत्त्वेन विस्तरात्सरहस्यकम् ॥
अयोध्याया महापुर्या महिमानं गुणाधिकम् ॥ ५७ ॥
कः क्रमस्तीर्थयात्रायाः कानि तीर्थानि को विधिः ॥
कि फलं स्नानतस्तत्र दानस्य च महामुने ॥
एतत्सर्वं समाचक्ष्व विस्तराद्वदतां वर ॥ ५८ ॥
॥ अगस्त्य उवाच ॥ ॥
अहो धन्यतमा बुद्धिस्तव जाता तपोधन ॥
दृश्यते येन पृच्छा ते ह्ययोध्यामहिमाश्रिता ॥ ५९ ॥
अकारो ब्रह्म च प्रोक्तं यकारो विष्णुरुच्यते ॥
धकारो रुद्ररूपश्च अयोध्यानाम राजते ॥ 2.8.1.६० ॥
सर्वोपपातकैर्युक्तैर्ब्रह्महत्यादिपातकैः ॥
नायोध्या शक्यते यस्मात्तामयोध्यां ततो विदुः ॥ ६१ ॥
विष्णोराद्या पुरी येयं क्षितिं न स्पृशति द्विज ॥
विष्णोः सुदर्शने चक्रे स्थिता पुण्यकरी क्षितौ ॥ ६२ ॥
केन वर्णयितुं शक्यो महिमाऽस्यास्तपोधन ॥
यत्र साक्षात्स्वयं देवो विष्णुर्वसति सादरः ॥ ६३ ॥
सहस्रधारामारभ्य योजनं पूर्वतो दिशि ॥
प्रतीचि दिशि तथैव योजनं समतोवधिः ॥ ६४ ॥
दक्षिणोत्तरभागे तु सरयूतमसावधिः ॥
एतत्क्षेत्रस्य संस्थानं हरेरन्तर्गृहं स्थितम् ॥
मत्स्याकृतिरियं विप्र पुरी विष्णोरुदीरिता ॥ ६५ ॥
पश्चिमे तस्य मूर्द्धा तु गोप्रतारासिता द्विज ॥ ६६ ॥
पूर्वतः पृष्ठभागो हि दक्षिणोत्तरमध्यमः ॥
तस्यां पुर्य्यां महाभाग नाम्ना विष्णुर्हरिः स्वयम् ॥
पूर्वन्दृष्टप्रभावोऽसौ प्राधान्येन वसत्यपि ॥ ६७ ॥
॥ व्यास उवाच ॥ ॥
भगवन्किं प्रभावोऽसौ योऽयं विष्णुहरिस्त्वया ॥
कीर्तितो मुनिशार्दूल प्रसिद्धिं गतवान्कथम् ॥
एतत्सर्वं समाचक्ष्व विस्तरेण ममाग्रतः ॥ ६८ ॥
॥ ॥ अगस्त्य उवाच ॥ ॥
विष्णुशर्मेति विख्यातः पुराभूद्ब्राह्मणोत्तमः ॥
वेदवेदाङ्गतत्त्वज्ञो धर्मकर्मसमाश्रितः ॥ ६९ ॥
योगध्यानरतो नित्यं विष्णुभक्तिपरायणः ॥
स कदाचित्तीर्थयात्रां कुर्वन्वैष्णवसत्तमः ॥
अयोध्यामागतो विष्णुर्विष्णुःसाक्षाद्वसेदिति ॥ 2.8.1.७० ॥
चिन्तयन्मनसा वीरस्तपः कर्तुं समुद्यतः ॥
स वै तत्र तपस्तेपे शाकमूलफलाशनः ॥ ७१ ॥
ग्रीष्मे पञ्चाग्निमध्यस्थो ह्यतपत्स महातपाः ॥
वार्षिके च निरालम्बो हेमन्ते च सरोवरे ॥ ७२ ॥
स्नात्वा यथोक्तविधिना कृत्वा विष्णोस्तथार्चनम् ॥
वशीकृत्येन्द्रियग्रामं विशुद्धेनान्तरात्मना ॥ ७३ ॥
मनो विष्णौ समावेश्य विधाय प्राणसंयमम् ॥
ॐकारोच्चारणाद्धीमान्हृदि पद्मं विकासयन् ॥ ७४ ॥
तन्मध्ये रविसोमाग्निमण्डलानि यथाविधि ॥
कल्पयित्वा हरिं मूर्तं यस्मिन्देशे सनातनम् ॥ ७५ ॥
पीताम्बरधरं विष्णुं शङ्खचक्रगदाधरम् ॥
तं च पुष्पैः समभ्यर्च्य मनस्तस्मिन्निवेश्य च ॥ ७६ ॥
ब्रह्मरूपं हरिं ध्यायञ्जपन्वै द्वादशाक्षरम् ॥
वायुभक्षः स्थितस्तत्र विप्रस्त्रीन्वत्सरान्वसन् ॥ ७७ ॥
ततो द्विजवरो ध्यात्वा स्तुतिं चक्रे हरेरिमाम् ॥
प्रणिपत्य जगन्नाथं चराचरगुरुं हरिम् ॥
विष्णुशर्माथ तुष्टाव नारायणमतन्द्रितः ॥ ७८ ॥
॥ विष्णुशर्म्मोवाच ॥ ॥
प्रसीद भगवन्विष्णो प्रसीद पुरुषोत्तम ॥
प्रसीद देवदेवेश प्रसीद कमलेक्षण ॥ ७९ ॥
जय कृष्ण जयाचिन्त्य जय विष्णो जयाव्यय ॥
जय यज्ञपते नाथ जय विष्णो पते विभो ॥ 2.8.1.८० ॥
जय पापहरानन्त जय जन्मज्वरापह ॥
नमः कमलनाभाय नमः कमलमालिने ॥८१॥
नमः सर्वेश भूतेश नमः कैटभसूदन ॥
नमस्त्रैलोक्यनाथाय जगन्मूल जगत्पते ॥ ८२ ॥
नमो देवाधिदेवाय नमो नारायणाय वै ॥
नमः कृष्णाय रामाय नमश्चक्रायुधाय च ॥ ८३ ॥
त्वं माता सर्वलोकानां त्वमेव जगतः पिता ॥
भयार्त्तानां सुहृन्मित्रं त्वं पिता त्वं पितामहः ॥ ८४ ॥
त्वं हविस्त्वं वषट्कारस्त्वं प्रभुस्त्वं हुताशनः ॥
करणं कारणं कर्त्ता त्वमेव परमेश्वरः ॥ ८५ ॥
शङ्खचक्रगदापाणे मां समुद्धर माधव ॥ ८६ ॥
प्रसीद मन्दरधर प्रसीद मधुसूदन ॥
प्रसीद कमलाकान्त प्रसीद भुवनाधिप ॥ ८७ ॥
॥ अगस्त्य उवाच ॥ ॥
इत्येवं स्तुवतस्तस्य मनोभक्त्या महात्मनः ॥
आविर्बभूव विश्वात्मा विष्णुर्गरुडवाहनः ॥ ८८ ॥
शङ्खचक्रगदापाणिः पीताम्बरधरोऽच्युतः ॥
उवाच स प्रसन्नात्मा विष्णुशर्माणमव्ययः ॥ ८९ ॥
॥ श्रीभगवानुवाच ॥ ॥
तुष्टोऽस्मि भवतो वत्स महता तपसाऽधुना ॥
स्तोत्रेणानेन सुमते नष्टपापोऽसि साम्प्रतम् ॥2.8.1.९०॥
वरं वरय विप्रेन्द्र वरदोऽहं तवाग्रतः ॥
नाऽतप्ततपसा द्रष्टुं शक्यः केनाप्यहं द्विज ॥ ९१ ॥
॥ विष्णुशर्म्मोवाच ॥ ॥
कृतकृत्योऽस्मि देवेश साम्प्रतं तव दर्शनात् ॥
त्वद्भक्तिमचलामेकां मम देहि जगत्पते ॥ ९२ ॥
॥ ॥ श्रीभगवानुवाच ॥ ॥
भक्तिरस्त्वचला मे वै वैष्णवी मुक्तिदायिनी ॥
अत्रैवास्त्वचला मे वै जाह्नवी मुक्तिदायिनी ॥ ९३ ॥
इदं स्थानं महाभाग त्वन्नाम्ना ख्यातिमेष्यति ॥ ९४ ॥
॥ अगस्त्य उवाच ॥ ॥
इत्युक्त्वा देवदेवेशश्चक्रेणोत्खाय तत्स्थलम् ॥
जलं प्रकटयामास गाङ्गं पातालमण्डलात् ॥ ९५ ॥
जलेन तेन भगवान्पवित्रेण दयाम्बुधिः ॥
नीरजस्तु भूमितलं क्षणाच्चक्रे कृपावशात् ॥ ९६ ॥
चक्रतीर्थमिति ख्यातं ततः प्रभृति तद्द्विज ॥
जातं त्रैलोक्यविख्यातमघौघध्वंसकृच्छुभम् ॥ ९७ ॥
तत्र स्नानेन दानेन विष्णुलोकं व्रजेन्नरः ॥ ९८ ॥
ततः स भगवान्भूयो विष्णुशर्माणमच्युतः ॥
कृपया परया युक्त उवाच द्विजवत्सलः ॥ ९९ ॥
॥श्रीभगवानुवाच ॥ ॥
त्वन्नामपूर्विका विप्र मन्मूर्तिरिह तिष्ठतु ॥
विष्णुहरीति विख्याता भक्तानां मुक्तिदायिनी ॥2.8.1.१००॥
॥ अगस्त्य उवाच ॥ ॥
इति श्रुत्वा वचो विप्रो वासुदेवस्य बुद्धिमान्॥
स्वनामपूर्विकां मूर्तिं स्थापयामास चक्रिणः ॥१०१॥
ततः प्रभति विप्रेश शङ्खचक्रगदाधरः ॥
पीतवासाश्चतुर्बाहुर्नाम्ना विष्णुहरिः स्थितः॥१०२॥
कार्तिके शुक्लपक्षस्य प्रारभ्य दशमी तिथिम् ॥
पूर्णिमामवधिं कृत्वा यात्रा सांवत्सरी भवेत् ॥ १०३ ॥
चक्रतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥
बहुवर्षसहस्राणि स्वर्गलोके महीयते ॥ १०४ ॥
पितॄनुद्दिश्य यस्तत्र पिण्डान्निर्वापयिष्यति ॥
तृप्तास्तु पितरो यान्ति विष्णुलोकं न संशयः ॥ १०५ ॥
चक्रतीर्थे नरः स्नात्वा दृष्ट्वा विष्णुहरिं विभुम् ॥
सर्वपापक्षयं प्राप्य नाकपृष्ठे महीयते ॥ १०६ ॥
स्वशक्त्या तत्र दानानि दत्त्वा निष्कल्मषो नरः ॥
विष्णुलोके वसेद्धीमान्यावदिन्द्राश्चतुर्दश ॥ १०७ ॥
अन्यदापि नरस्तत्र चक्रतीथे जितेन्द्रियः ॥
दृष्ट्वा सकृद्धरिं देवं सर्वपापैः प्रमुच्यते ॥ १०८ ॥
इति सकलगुणाब्धिर्ध्येयमूर्तिश्चिदात्मा हरिरिह परमूर्त्या तस्थिवान्मुक्तिहेतोः ॥
तमिह बहुलभक्त्या चक्रतीर्थाभिषेकी वसति सुकृतिमूर्त्तिर्योऽर्चयेद्विष्णुलोके ॥ ॥ १०९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये विष्णुहरिमाहात्म्यवर्णनन्नाम प्रथमोऽध्यायः ॥ १ ॥