॥ नारद उवाच ॥ ॥
यो मर्त्यो द्विजवर्याय पर्यङ्कं तु ददाति हि ॥
यत्र स्वस्थः सुखं शेते शीतानिलनिषेवितः ॥ १ ॥
धर्मसाधनभूते हि देहे नैरुज्यमाप्नुते ॥
तं दत्त्वा सकलं तापं निरस्य गतकल्मषः ॥ २ ॥
अखण्डपदवीं याति योगिनामपि दुर्लभाम् ॥
वैशाखे घर्मतप्तानां श्रान्तानां तु द्विजन्मनाम् ॥३॥
दत्त्वा श्रमापहं दिव्यं पर्यङ्कं मनुजेश्वर ॥
न जातु सीदते लोके जन्ममृत्युजरादिभिः॥४॥
गृहीत्वा ब्राह्मणो यत्र शेते चाजीवमास्थितः ॥
आसीने सकलं पापं ज्ञानतोऽज्ञानतः कृतम् ॥ ५ ॥
विलयं याति राजेन्द्र कर्पूर इव चाग्निना ॥
शयने ब्रह्मनिर्वाणं स नरो याति निश्चितम् ॥ ६ ॥
यो दद्यात्कशिपुं मासे वैशाखे स्नानवल्लभे ॥
सर्वभोगसमायुक्तस्तस्मिन्नेव हि जन्मनि ॥ ७ ॥
सान्वयो वर्तते नूनं रोगादिभिरनाहतः ॥
आयुष्यं परमारोग्यं यशो धैर्यं च विन्दति ॥ ८ ॥
नाधार्मिकः कुले तस्य जायते शतपौरुषम् ॥
भुक्त्वा तु सकलान्भोगांस्ततः पञ्चत्वमेष्यति ॥ ९ ॥
निर्धूताखिलपापस्तु ब्रह्मनिर्वाणमृच्छति ॥ श्रो
त्रियाय द्विजेन्द्राय यो दद्यादुपबर्हणम् ॥ 2.7.3.१० ॥
सुखं निद्रा विना येन न नृणां जायते क्वचित् ॥
सर्वेषामाश्रयो भूत्वा भुवि साम्राज्यमश्नुते ॥ ११ ॥
पुनः सुखी पुनर्भोगी पुनर्धर्मपरायणः ॥
आसप्तजन्म राजेन्द्र जायते सर्वतो जयी ॥ १२ ॥
पश्चात्सप्तकुलैर्युक्तो ब्रह्मभूयाय कल्पते ॥
तार्णं कटं तु यो दद्यात्कटमन्यदथापि वा ॥ १३ ॥
तत्र शेते स्वयं विष्णुर्यत्रस्थः परमेश्वरः ॥
यथा जलगता चोर्णा न जलैर्भिद्यते क्वचित् ॥ १४ ॥
तथा संसारगो जन्तुः संसारे न च बध्यते ॥
आसने शयने सक्तः कटदः सर्वतः सुखी ॥ १५ ॥
प्रश्रये शयनार्थाय यो दद्यात्कटकम्बलम् ॥
तावन्मात्रेण मुक्तः स्यान्नात्र कार्या विचारणा ॥ १६ ॥
निद्रया हीयते दुःखं निद्रया हीयते श्रमः ॥
सा निद्रा कटसंस्थस्य सुखं सञ्जायते धुवम् ॥ १७ ॥
यो दयात्कम्बलं राजन्वैशाखे माधवाऽऽगमे ॥
अपमृत्योः कालमृत्योर्मुक्तो जीवति वै शतम् ॥ १८ ॥
दद्याद्वस्त्रं सूक्ष्मतरं द्विजेन्द्रे घर्मकर्शिते ॥
पूर्णमायुः समाप्नोति परत्र च परां गतिम् ॥ १९ ॥
अतस्तापहरं दिव्यं कर्पूरं तु द्विजातये ॥
दत्त्वा मोक्षमवाप्नोति दुःखशान्तिं च विन्दति ॥ 2.7.3.२० ॥
कुसुमानि च यो दद्यात्कुकुमं च द्विजातये ॥
सार्वभौमो भवेद्राजा सर्वलोकवशङ्करः ॥ २१ ॥
पुत्रपौत्रादिभोगांश्च भुक्त्वा मोक्षमवाप्नुयात् ॥
त्वगस्थिगतसन्तापं सद्यो हरति चन्दनम् ॥ २२ ॥
तापत्रयविनिर्मुक्तस्तद्दत्त्वा मोक्षमाप्नुयात् ॥
औशीरं चाषकं कौशं यो दद्याज्जलवासितम् ॥ २३ ॥
सर्वभोगेषु राजेन्द्र स तु देवसहायवान् ॥
पापहानिं दुःखहानिं प्राप्य निर्वृतिमाप्नुयात् ॥ २४ ॥
गोरोचं मृगनाभिं च दद्याद्वैशाखधर्मवित् ॥
तापत्रयविनिर्मुक्तः परं निर्वाणमृच्छति ॥ २५ ॥
ताम्बूलं च सकर्पूरं यो दद्यान्मेषगे रवौ ॥
सार्वभौमसुखं भुक्त्वा परं निर्वाणमृच्छति ॥ २६ ॥
शतपत्रीं च यूथीं च मेषमासे ददन्नरः ॥
स सार्वभौमो भवति पश्चान्मोक्षं च विन्दति ॥२७॥
केतकीं मल्लिकां वाऽपि यो दद्यान्माधवाऽऽगमे ॥
स तु मोक्षमवाप्नोति मधुशासनशासनात् ॥ २८ ॥
पूगीफलं तु यो दद्यात्सुगन्धं तु द्विजातये ॥
नारिकेलफलं राजंस्तस्य पुण्यफलं शृणु ॥ ॥ २९ ॥
सप्त जन्म भवेद्विप्रो धनाढ्यो वेदपारगः ॥
पश्चात्सप्तकुलैर्युक्तो विष्णुलोकं स गच्छति ॥ 2.7.3.३० ॥
विश्राममण्डपं यस्तु कृत्वा दद्याद्द्विजन्मने ॥
तस्य पुण्यफलं वक्तुं नाहं शक्नोमि भूपते ॥ ३१ ॥
सुच्छायामण्डपं यस्तु सिकताऽऽकीर्णमञ्जसा ॥
सप्रपं कारयेद्यस्तु स तु लोकाधिपो भवेत् ॥ ३२ ॥
मार्गोद्यानं तडागं वा कूपं मण्डपमेव च॥
यः करोति स धर्मात्मा तस्य पुत्रैस्तु किं फलम् ॥ ३३ ॥
कूपस्तडागमुद्यानं मण्डपं च प्रपा तथा ॥
सद्धर्मकरणं पुत्रः सन्तानं सप्तधोच्यते ॥ ३४ ॥
एतेष्वन्यतमाभावे नोर्ध्वं गच्छन्ति मानवाः ॥
सच्छास्त्र श्रवणं तीर्थयात्रा सजनसङ्गतिः ॥ ३५ ॥
जलदानं चान्नदानमश्वत्थारोपणं तथा ॥
पुत्रश्चेति च सन्तानं सप्तेमेऽतिविदो विदुः ॥ ३६ ॥
नासन्ततिर्लभेल्लोकान्कृत्वा धर्मशतान्यपि ॥
तस्मात्सन्तानमन्विच्छेत्सन्तानेष्वेकतो व्रजेत् ॥ ३७ ॥
पशूनां पक्षिणां चैव मृगाणां चैव भूरुहाम् ॥
नोर्ध्वलोकं सुखं याति मनुष्याणां तु का कथा ॥ ३८ ॥
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ॥
कपूरागुरुसंयुक्तं ददत्ताम्बूलमुत्तमम् ॥ ३९ ॥
शारीरैः सकलैः पापैर्मुच्यते नात्र संशयः ॥
ताम्बूलदो यशो धैर्यं श्रियमाप्नोति निश्चितम् ॥ 2.7.3.४० ॥
रोगी दत्त्वा विरोगः स्यादरोगी मोक्षमाप्नुयात् ॥
वैशाखे मासि यो दद्यात्तक्रं तापविनाशनम् ॥ ४१ ॥
विद्यावान्धनवान्भूमौ जायते नात्र संशयः ॥
न तक्रसदृशं दानं घर्मकालेषु विद्यते ॥ ४२ ॥
तस्मात्तक्रं प्रदातव्यमध्वश्रान्तद्विजातये ॥
जम्बीरसुरसोपेतं लसल्लवणमिश्रितम्॥४३॥
यस्तक्रमरुचिघ्नं तु दत्त्वा मोक्षमवाप्नुयात् ॥
यो दद्याद्दधिखण्डं तु वैशाखे घर्मशान्तये ॥ ४४ ॥
तस्य पुण्यफलं वक्तुं नाहं शक्नोमि भूमिप ॥
यो दद्यात्तण्डुलान्दिव्यान्मधुसूदनवल्लभे ॥ ४५ ॥
स लभेत्पूर्णमायुष्यं सर्वयज्ञफलं लभेत् ॥
यो घृतं तेजसो रूपं गव्यं दद्याद्द्विजातये ॥
सोऽश्वमेधफलं प्राप्य मोदते विष्णुमन्दिरे ॥ ४६ ॥
उर्वारुगुडसम्मिश्रं वैशाखे मेषगे रवौ ॥
सर्वपापविनिर्मुक्तः श्वेतद्वीपे वसेद्ध्रुवम् ॥ ४७ ॥
यश्चेक्षुदण्डं सायाह्ने दिवा तापोपशान्तये ॥
ब्राह्मणाय च यो दद्यात्तस्य पुण्यमनन्तकम् ॥ ४८ ॥
वैशाखे पानकं दत्त्वा सायाह्ने श्रमशान्तये ॥
सर्वपापविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात् ॥४९॥
सफलं पानकं मेषमासे सायं द्विजातये ॥
दद्यात्तेन पितॄणां तु सुधापानं न संशयः॥2.7.3.५०॥
वैशाखे पानकं चूतसुपक्वफलसंयुतम् ॥
तस्य सर्वाणि पापानि विनाशं यान्ति निश्चितम् ॥ ५१ ॥
यो दद्याच्चैत्रदर्शे तु कुम्भं पूर्णं तु पानकैः ॥
गयाश्राद्धशतं तेन कृतमेव न संशयः ॥ ५२ ॥
कस्तूरी कर्पुरोपेतं मल्लिकोशीरसंयुतम् ॥
कलशं पानकैः पूर्णं चैत्रदर्शे तु मानवः ॥
दद्यात्पितॄन्समुद्दिश्य स षण्णवतिदो भवेत् ॥ ५३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे दाननिरूपणन्नाम तृतीयोऽध्यायः ॥ ३ ॥ ॥ छ ॥