००२ दाननिरूपणम्

॥ ॥ नारद उवाच ॥ ॥
न माधवसमो मासो न कृतेन युगं समम् ॥
न च वेदसमं शास्त्रं न तीर्थं गङ्गया समम् ॥ १ ॥
न जलेन समं दानं न सुखं भार्यया समम् ॥
न कृषेस्तु समं वित्तं न लाभो जीवितात्परः ॥ २ ॥
न तपोऽनशनात्तुल्यं न दानात्परमं सुखम् ॥
न धर्मस्तु दयातुल्यो न ज्योतिश्चक्षुषा समम्॥ ३ ॥
न तृप्तिरशनात्तुल्या न वाणिज्यं कृषेः समम् ॥
न धर्मेण समं मित्रं न सत्येन समं यशः ॥ ४ ॥
नारोग्यसममुत्थानं न त्राता केशवात्परः ॥
न माधवसमं लोके पवित्रं कवयो विदुः ॥ ५ ॥
माधवः परमो मासः शेषशायिप्रियः सदा ॥
अव्रतेन क्षिपेद्यस्तु मासं माधववल्लभम् ॥ ६ ॥
तिर्यग्योनिं स यात्याशु सर्वधर्मबहिष्कृतः ॥
अव्रतेन गतो येषां माधवो मर्त्यधर्मिणाम् ॥ ७ ॥
इष्टापूर्ते वृथा तेषां धर्मोधर्मभृतां वरः ॥
प्रवृत्तानां तु भक्ष्याणां माधवेऽनियमे कृते ॥ ८ ॥
अवश्यं विष्णुसायुज्यं प्राप्नोत्येव न संशयः ॥
सन्तीह बहुवित्तानि व्रतानि विविधानि च ॥ ९ ॥
देहाऽऽयासकराण्येव पुनर्जन्मप्रदानि च ॥
वैशाखस्नानमात्रेण न पुनर्जायते भुवि ॥ 2.7.2.१० ॥
सर्व दानेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥
तत्फलं समवाप्नोति माधवे जलदानतः ॥ ११ ॥
जलदानासमर्थेन परस्यापि प्रबोधनम् ॥
कर्तव्यं भूतिकामेन सर्वदानाधिकं हितम् ॥ १२ ॥
एकतः सर्वदानानि जलदानं हि चैकतः ॥
तुलामारोपितं पूर्वं जलदानं विशिष्यते ॥ १३ ॥
मार्गेऽध्वगानां यो मर्त्यः प्रपादानं करोति हि॥
स कोटिकुलमुद्धृत्य विष्णुलोके महीयते॥ १४॥
देवानां च पितॄणां च ऋषीणां राजसत्तम॥
अत्यन्त प्रीतिदं सत्यं प्रपादानं न संशयः॥ १५॥
प्रपादानेन सन्तुष्टा येनाऽध्वश्रमकर्षिताः॥
तोषितास्तेन देवाश्च ब्रह्मविष्णुशिवादय ॥१६ ॥
सलिलं सलिलेच्छूनां छत्रं छायामपीच्छताम् ॥
व्यजनं व्यजनेच्छूना वैशाखे मासि भूमिप ॥ १७ ॥
जलं छत्रं च व्यजनं दानं येषां विशिष्यते ॥
माधवे मासि सम्प्राप्ते ब्राह्मणाय कुटुम्बिने ॥ १८ ॥
अदत्त्वोदककुम्भं च चातको जायते भुवि ॥ १९ ॥
यो दद्याच्छीतलं तोयं तृषार्ताय महात्मने ॥
तावन्मात्रेण राजेन्द्र राजसूयायुतं लभेत् ॥ 2.7.2.२० ॥
घर्मश्रमार्तविप्राय वीजयेद्व्यजनेन यः ॥
तावन्मात्रेण निष्पापो विहगाधिपतिर्भवेत ॥ २१ ॥
अदत्त्वा व्यजनं भूप वैशाखे तु द्विजातये ॥
वातरोगशताकीर्णो नरकानेव विन्दति ॥ २२ ॥
यो वीजयेत्पटेनाऽपि पथि श्रान्तं द्विजोत्तमम् ॥
तावताथ विमुक्तोऽसौ विष्णुसायुज्यमाप्नुयात् ॥२३॥॥
यास्तालव्यजनं वाऽपि दत्त्वा शुद्धेन चेतसा॥
विधूय सर्वपापानि ब्रह्मलोकं स गच्छति॥ २४॥
सद्यः श्रमहरं पुण्यं न दद्याद्व्यजनं नरः॥
नारकीं यातनां भुक्त्वा कश्मलो जायते भुवि॥ २५॥
आध्यात्मिकादिदुःखानां शान्तये मनुजेश्वर ॥
छत्रं दद्यात्प्रयत्नेन वैशाखे मासि वासकृत् ॥ २६ ॥
अच्छत्रदो नरो यस्तु वैशाखे माधवप्रिये॥
छायाहीनो महाक्रूरः पिशाचो भुवि जायते ॥ २७ ॥
यो दद्यात्पादुके दिव्ये माधवे माधवप्रिये ॥
यमदूतौ तिरस्कृत्य विष्णुलोकं स गच्छति ॥ २८ ॥
पादत्राणं तु यो दद्याद्वैशाखे माधवागमे ॥
न तस्य नारको लोको न क्लेशा ऐहिकाश्च ये ॥२९॥
पादुके याचमानाय यो दद्याद्ब्राह्मणाय च ॥
स भूपालो भवेद्भूमौ कोटिजन्मस्वसंशयम्॥2.7.2.३०॥
अनाथमण्डपं मार्गे श्रमहारि करोति यः ॥
तस्य पुण्यफलं वक्तुं ब्रह्मणाऽपि न शक्यते ॥३१॥
मध्याह्ने ब्राह्मणं प्राप्तमतिथिं भोजयेद्यदि ॥
न तस्य फलविश्रान्तिर्ब्रह्मणाऽपि निरूपिता ॥ ३२ ॥
सद्यः स्वाप्यायनं नृणामन्नदानं नराधिप ॥
तस्मान्नान्नेन सदृशं दानं लोकेषु विद्यते । ३३ ॥
मार्गश्रान्ताय विप्राय प्रश्रयं प्रददाति यः ॥
तस्य पुण्यफलं वक्तुं ब्रह्मणाऽपि न शक्यते ॥ ॥ ३४ ॥
दारापत्यगृहादीनि वासोऽलङ्कारभूषणम् ॥
असह्यं नाश्नतः पुंसः सह्यं भुक्तवतो ध्रुवम् ॥ ३५ ॥
तस्मादन्नसमं दानं न भूतं न भविष्यति ॥
वैशाखे येन चादत्तं मार्गश्रान्ते च भूसुरे॥३६॥
स पिशाचो भवेद्भूमौ स्वमांसान्येव खादति ॥
यथाविभूति दातव्यं तस्मादन्नं द्विजातये ॥ ३७ ॥
अन्नदो मातृपित्रादीन्विस्मारयति भूमिप ॥
तस्मादन्नं प्रशंसन्ति लोकास्त्रैलोक्यवर्तिनः ॥ ३८ ॥
मातरः पितरश्चापि केवलं जन्महेतवः ॥
अन्नदं पितरं लोके वदन्ति च मनीषिणः ॥३९॥
अन्नदे सर्वतीर्थानि अन्नदे सर्वदेवताः ॥
अन्नदे सर्वधर्माश्च तिष्ठन्त्यरिधराजय ॥2.7.2.४०॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे दाननिरूपणन्नाम द्वितीयोऽध्यायः ॥ २ ॥