॥ अथ वैशाखमासमाहात्म्य प्रारम्भः ॥ ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥
॥ सूत उवाच ॥ ॥
भूयोऽप्यङ्गभुवं राजा ब्रह्मणः परमेष्ठिनः ॥
पुण्यं माधवमाहात्म्यं नारदं पर्यपृच्छत ॥ १ ॥ ॥
॥ अंवरीष उवाच ॥ ॥
सर्वेषामपि मासानां त्वत्तो माहात्म्यमञ्जसा ॥
श्रुतं मया पुरा ब्रह्मन्यदा चोक्तं तदा त्वया ॥ २ ॥
वैशाखः प्रवरो मासो मासेष्वेतेषु निश्चितम् ॥
इति तस्माद्विस्तरेण माहात्म्यं माधवस्य च ॥ ३ ॥
श्रोतुं कौतूहलं ब्रह्मन्कथं विष्णुप्रियो ह्यसौ ॥
के च विष्णुप्रिया धर्मा मासे माधववल्लभे ॥ ४ ॥
तत्राप्यस्य तु कर्तव्याः के धर्मा विष्णुवल्लभाः ॥
किं दानं किं फलं तस्य कमुद्दिश्याऽऽचरेदिमान् ॥ ॥ ५ ॥
कैर्द्रव्यैः पूजनीयोऽसौ माधवो माधवागमे ॥
एतन्नारद विस्तार्य मह्यं श्रद्धावते वद ॥ ६ ॥
॥ श्रीनारद उवाच ॥ ॥
मया पृष्टः पुरा ब्रह्मा मासधर्मान्पुरातनान् ॥
व्याजहार पुरा प्रोक्तं यच्छ्रियै परमात्मना ॥ ७ ॥
ततो मासा विशिष्योक्ताः कार्तिको माघ एव च ॥
माधवस्तेषु वैशाखं मासानामुत्तमं व्यधात् ॥ ८ ॥
मातेव सर्वजीवानां सदैवेष्ट प्रदायकः ॥
दानयज्ञ्रव्रतस्नानैः सर्वपापविनाशनः ॥ ९ ॥
धर्म यज्ञक्रियासारस्तपःसारः सुरार्चितः ॥
विद्यानां वेदविद्येव मन्त्राणां प्रणवो यथा ॥ 2.7.1.१० ॥
भूरुहाणां सुरतरुर्धेनूनां कामधेनुवत् ॥
शेषवत्सर्वनागानां पक्षिणां गरुडो यथा ॥ ११ ॥
देवानां तु यथा विष्णुर्वर्णानां ब्राह्मणो यथा ॥
प्राणवत्प्रियवस्तूनां भार्येव सुहृदां यथा ॥ १२ ॥
आपगानां यथा गङ्गा तेजसां तु रविर्यथा ॥
आयुधानां यथा चक्रं धातूनां काञ्चनं यथा ॥ १३ ॥
वैष्णवानां यथा रुद्रो रत्नानां कौस्तुभो यथा ॥
मासानां धर्महेतूनां वैशाखश्चोत्तमस्तथा ॥ १४ ॥
नानेन सदृशो लोके विष्णुप्रीतिविधायकः ॥
वैशाखस्नाननिरते मेषे प्रागर्यमोदयात् ॥ १५ ॥
लक्ष्मीसहायो भगवान्प्रीतिं तस्मिन्करोत्यलम् ॥
जन्तूनां प्रीणनं यद्वदन्नेनैव हि जायते ॥ १६ ॥
तद्वद्वैशाखस्नानेन विष्णुः प्रीणात्यसंशयम् ॥
वैशाखस्नाननिरताञ्जनान्दृष्ट्वाऽनुमोदते ॥ १७ ॥
तावतापि विमुक्तोऽघैर्विष्णुलोके महीयते ॥
सकृत्स्नात्वा मेषसंस्थे सूर्ये प्रातः कृताह्निकः ॥ ॥ १८ ॥
महापापैर्विमुक्तोऽसौ विष्णोः सायुज्यमाप्नुयात् ॥
स्नानार्थं मासि वैशाखे पादमेकं चरेद्यदि ॥ १९ ॥
सोऽश्वमेधायुतानां च फलमाप्नोत्यसंशयम् ॥
अथवा कूटचित्तस्तु कुर्यात्सङ्कल्पमात्रकम् ॥ 2.7.1.२० ॥
सोऽपि क्रतुशतं पुण्यं लभेदेव न संशयः ॥
यो गच्छेद्धनुरायामं स्नातुं मेषगते रवौ ॥ २१ ॥
सर्वबन्धविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात् ॥
त्रैलोक्ये यानि तीर्थानि ब्रह्माण्डान्तर्गतानि च ॥ २२ ॥
तानि सर्वाणि राजेन्द्र सन्ति बाह्येऽल्पके जले ॥
तावल्लिखितपापानि गर्जन्ति यमशासने ॥ २३ ॥
यावन्न कुरुते जन्तुर्वैशाखे स्नानमम्भसि ॥
तीर्थादिदेवताः सर्वा वैशाखे मासि भूमिप ॥ २४ ॥
बहिर्जलं समाश्रित्य सदा सन्निहिता नृप ॥
सूर्योदयं समारभ्य यावत्षड्घटिकावधि ॥ २५ ॥
तिष्ठन्ति चाऽऽज्ञया विष्णोर्नराणां हितकाम्यया ॥
तावन्नागच्छतां पुंसां शापं दत्त्वा सुदारुणम् ॥
स्वस्थानं यान्ति राजेन्द्र तस्मात्स्नानं समाचरेत् ॥ ॥ २६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे वैशाखमास प्रशंसापूर्वक वैशाखस्नानमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥