॥ श्रीसूत उवाच ॥ ॥
अथोद्धवस्तु तान्दृष्ट्वा कृष्णकीर्तनतत्परान् ॥
सत्कृत्याथ परिष्वज्य परीक्षितमुवाच ह ॥ १ ॥
॥ उद्धव उवाच ॥ ॥
धन्योऽसि राजन्कृष्णैकभक्त्या पूर्णोऽसि नित्यदा ॥
यस्त्वं निमग्नचित्तोऽसि कृष्णसङ्कीर्तनोत्सवे ॥ २ ॥
कृष्णपत्नीषु वज्रे च दिष्ट्या प्रीतिः प्रवर्तिता ॥
तवोचितमिदं तात कृष्णदत्ताङ्ग वैभव ॥ ३ ॥
द्वारकास्थेषु सर्वेषु धन्या एते न संशयः ॥
येषां व्रजनिवासाय पार्थमादिष्टवान्प्रभुः ॥ ४ ॥
श्रीकृष्णस्य मनश्चन्द्रो राधास्यप्रभयान्वितः ॥
तद्विहारवनं गोभिर्मण्डयन्रोचते सदा ॥ ५ ॥
कृष्णचन्द्रः सदा पूर्णस्तस्य षोडश याः कलाः ॥
चित्सहस्रप्रभाभिन्ना अत्रास्ते तत्स्वरूपता ॥ ६ ॥
एवं वज्रस्तु राजेन्द्र प्रपन्नभयभञ्जकः ॥
श्रीकृष्णदक्षिणे पादे स्थानमेतस्य वर्तते ॥ ७ ॥
अवतारेऽत्र कृष्णेन योगमायाऽति भाविता ॥
तद्बलेनात्मविस्मृत्या सीदन्त्येते न संशयः ॥ ८ ॥
ऋते कृष्णप्रकाशं तु स्वात्मबोधो न कस्यचित् ॥
तत्प्रकाशस्तु जीवानां मायया पिहितः सदा ॥ ९ ॥
अष्टाविंशे द्वापरान्ते स्वयमेव यदा हरिः ॥
उत्सारयेन्निजां मायां तत्प्रकाशो भवेत्तदा ॥ 2.6.3.१० ॥
स तु कालो व्यतिक्रान्तस्तेनेदमपरं शृणु ॥
अन्यदा तत्प्रकाशस्तु श्रीमद्भागवताद्भवेत् ॥ ११ ॥
श्रीमद्भागवतं शास्त्रं यत्र भागवतैर्यदा ॥
कीर्त्यते श्रूयते चापि श्रीकृष्णस्तत्र निश्चितम् ॥ १२ ॥
श्रीमद्भागवतं यत्र श्लोकं श्लोकार्द्धमेव च ॥
तत्रापि भगवान्कृष्णो बल्लवीभिर्विराजते ॥ १३ ॥
भारते मानवं जन्म प्राप्य भागवतं न यैः ॥
श्रुतं पापपराधीनैरात्मघातस्तु तैः कृतः ॥ १४ ॥
श्रीमद्भागवतं शास्त्रं नित्यं यैः परिसेवितम् ॥
पितुर्मातुश्च भार्यायाः कुलपङ्क्तिः सुतारिता ॥ १५ ॥
विद्याप्रकाशो विप्राणां राजां शत्रुजयो विशाम् ॥
धनं स्वास्थ्यं च शूद्राणां श्रीमद्भागवताद्भवेत् ॥ १६ ॥
योषितामपरेषां च सर्ववाञ्छितपूरणम् ॥
अतो भागवतं नित्यं को न सेवेत भाग्यवान् ॥ १७ ॥
अनेकजन्मसंसिद्धः श्रीमद्भागवतं लभेत् ॥
प्रकाशो भगवद्भक्तेरुद्भवस्तत्र जायते ॥ १८ ॥
साङ्ख्यायनप्रसादाप्तं श्रीमद्भागवतं पुरा ॥
बृहस्पतिर्दत्तवान्मे तेनाहं कृष्णवल्लभः ॥ १९ ॥
आख्यायिका च तेनोक्ता विष्णुरात निबोध ताम् ॥
ज्ञायते सम्प्रदायोऽपि यत्र भागवतश्रुतेः ॥ 2.6.3.२० ॥ ॥
श्रीबृहस्पतिरुवाच ॥ ॥
ईक्षाञ्चक्रे यदा कृष्णो मायापुरुषरूपधृक् ॥
ब्रह्मा विष्णुः शिवश्चापि रजःसत्त्वतमोगुणैः ॥२१॥
पुरुषास्त्रय उत्तस्थुरधिकारांस्तदादिशत् ॥
उत्पत्तौ पालने चैव संहारे प्रक्रमेण तान् ॥ २२ ॥
ब्रह्मा तु नाभिकमलादुत्पन्नस्तं व्यजिज्ञपत् ॥
॥ श्रीब्रह्मोवाच ॥ ॥
नारायणादिपुरुष परमात्मन्नमोऽस्तु ते ॥ २३ ॥
त्वया सर्गे नियुक्तोऽस्मि पापीयान्मां रजोगुणः ॥
त्वत्स्मृतौ नैव बाधेत तथैव कृपया प्रभो ॥ २४ ॥
॥ श्रीबृहस्पतिरुवाच ॥ ॥
यदा तु भगवांस्तस्मै श्रीमद्भागवतं पुरा ॥
उपदिश्याब्रवीद्ब्रह्मन्सेवस्वैनत्स्वसिद्धये ॥ २५ ॥
ब्रह्मा तु परमप्रीतस्तेन कृष्णाप्तयेऽनिशम् ॥
सप्तावरणभङ्गाय सप्ताहं समवर्तयत् ॥ २६ ॥
श्रीभागवतसप्ताहसेवनाप्तमनोरथः ॥
सृष्टिं वितनुते नित्यं ससप्ताहः पुनःपुनः ॥२७॥
विष्णुरप्यर्थयामास पुमांसं स्वार्थसिद्धये ॥
प्रजानां पालने पुंसा यदनेनापि कल्पितः ॥ २८ ॥
॥ श्रीविष्णुरुवाच ॥ ॥
प्रजानां पालनं देव करिष्यामि यथोचितम् ॥
प्रवृत्त्या च निवृत्त्या च कर्मज्ञानप्रयोजनात् ॥२९॥
यदायदैव कालेन धर्मग्लानिर्भविष्यति ॥
धर्मं संस्थापयिष्यामि ह्यवतारैस्तदा तदा ॥ 2.6.3.३० ॥
भोगार्थिभ्यस्तु यज्ञादिफलं दास्यामि निश्चितम् ॥
मोक्षार्थिभ्यो विरक्तेभ्यो मुक्तिं पञ्चविधां तथा ॥ ३१ ॥
येऽपि मोक्षं न वाञ्छन्ति तान्कथं पालयाम्यहम् ॥
आत्मानं च श्रियं चापि पालयामि कथं वद ॥ ३२ ॥
तस्मा अपि पुमानाद्यः श्रीभागवतमादिशत् ॥
उवाच च पठस्वैनत्तव सर्वार्थसिद्धये ॥ ॥ ३३ ॥
ततो विष्णुः प्रसन्नात्मा परमार्थकपालने ॥
समर्थोऽभूच्छ्रिया मासिमासि भागवतं स्मरन् ॥ ३४ ॥
यदा विष्णुः स्वयं वक्ता लक्ष्मीश्च श्रवणे रता ॥
तदा भागवतश्रावो मासेनैव पुनःपुनः ॥ ३५ ॥
यदा लक्ष्मीः स्वयं वक्त्री विष्णुश्च श्रवणे रतः ॥
मासद्वयं रसास्वादस्तदातीव सुशोभते ॥ ३६ ॥
अधिकारे स्थितो विष्णुर्लक्ष्मीर्निश्चिन्तमानसा ॥
तेन भागवतास्वादस्तस्या भूरि प्रकाशते ॥ ३७ ॥
अथ रुद्रोऽपि तं देवं संहाराधिकृतः पुरा ॥
पुमांसं प्रार्थयामास स्वसामर्थ्यविवृद्धये ॥ ३८ ॥
॥ श्रीरुद्र उवाच ॥ ॥
नित्ये नैमित्तिके चैव संहारे प्राकृते तथा ॥
शक्तयो मम विद्यन्ते देवदेव मम प्रभो ॥ ३९ ॥
आत्यन्तिके तु संहारे मम शक्तिर्न विद्यते ॥
महद्दुःखं ममैतत्तु तेन त्वां प्रार्थयाम्यहम् ॥ 2.6.3.४० ॥ ॥
श्रीबृहस्पतिरुवाच ॥ ॥
श्रीमद्भागवतं तस्मा अपि नारायणो ददौ ॥
स तु संसेवनादस्य जिग्ये चापि तमोगुणम् ॥ ४१ ॥
कथा भागवती तेन सेविता वर्षमात्रतः ॥
लये त्वात्यन्तिके तेनावाप शक्तिं सदाशिवः ॥ ४२ ॥
॥ उद्धव उवाच ॥ ॥
श्रीभागवतमाहात्म्य इमामाख्यायिकां गुरोः ॥
श्रुत्वा भागवतं लब्ध्वा मुमुदेऽहं प्रणम्य तम् ॥ ४३ ॥
ततस्तु वैष्णवीं रीतिं गृहीत्वा मासमात्रतः ॥
श्रीमद्भागवतास्वादो मया सम्यङ्निषेवितः ॥ ४४ ॥
तावतैव बभूवाहं कृष्णस्य दयितः सखा ॥
कृष्णेनाथ नियुक्तोऽहं व्रजे स्वप्रेयसीगणे ॥४५॥
विरहार्त्तासु गोपीषु स्वयं नित्यविहारिणा ॥
श्रीभागवतसन्देशो मन्मुखेन प्रयोजितः ॥ ४६ ॥
तं यथामति लब्ध्वा ता आसन्विरहवर्ज्जिताः ॥
नाज्ञासिषं रहस्यं तच्चमत्कारस्तु लोकितः ॥ ४७ ॥
स्वर्वासं प्रार्थ्य कृष्णं च ब्रह्माद्येषु गतेषु मे ॥
श्रीमद्भागवते कृष्णस्तद्रहस्यं स्वयं ददौ ॥४८॥
पुरतोऽश्वत्थमूलस्य चकार मयि तद्दृढम् ॥
तेनात्र व्रजवल्लीषु वसामि बदरीं गतः ॥ ४९ ॥
तस्मान्नारदकुण्डेऽत्र तिष्ठामि स्वेच्छया सदा ॥
कृष्णप्रकाशो भक्तानां श्रीमद्भागवताद्भवेत् ॥2.6.3.५०॥
तदेषामपि कार्य्यार्थं श्रीमद्भागवतं त्वहम् ॥
प्रवक्ष्यामि सहायोऽत्र त्वयैवानुष्ठितो भवेत् ॥५१॥
॥ श्रीसूत उवाच ॥ ॥
विष्णुरातस्तु श्रुत्वा तदुद्धवं प्रणतोऽब्रवीत्॥ ॥
॥ श्रीपरीक्षिदुवाच ॥ ॥
हरिदास त्वया कार्य्यं श्रीभागवतकीर्तनम् ॥५२॥
आज्ञाप्योऽहं यथाकार्य्यं सहायोऽत्र मया तथा ॥
॥श्रीसूत उवाच ॥
श्रुत्वैतदुद्धवो वाक्यमुवाच प्रीतमानसः ॥ ५३ ॥
॥ उद्धव उवाच ॥ ॥
श्रीकृष्णेन परित्यक्ते भूतले बलवान्कलिः ॥
करिष्यति परं विघ्नं सत्कार्ये समुपस्थिते ॥ ५४ ॥
तस्माद्दिग्विजयं याहि कलिनिग्रहमाचर ॥
अहं तु मासमात्रेण वैष्णवीं रीतिमास्थितः ॥ ५५ ॥
श्रीमद्भागवतास्वादं प्रचार्य त्वत्सहायतः ॥
एतान्सम्प्रापयिष्यामि नित्यधाम्नि मधुद्विषः ॥ ५६ ॥
॥ श्रीसूत उवाच ॥ ॥
श्रुत्वैवं तद्वचो राजा मुदितश्चिन्तयातुरः ॥
तदा विज्ञापयामास स्वाभिप्रायं तमुद्धवम् ॥ ५७ ॥
॥ श्रीपरीक्षिदुवाच ॥ ॥
कलिं तु निग्रहीष्यामि तात ते वचसि स्थितः ॥
श्रीभागवतसम्प्राप्तिः कथं मम भविष्यति ॥ ५८ ॥
अहं तु समनुग्राह्यस्तव पादतले श्रितः ॥
॥ श्रीसूत उवाच ॥ ॥
श्रुत्वैतद्वचनं भूयोऽप्युद्धवस्तमुवाच ह ॥ ५९ ॥
॥ ॥ उद्धव उवाच ॥ ॥
राजंश्चिन्ता तु ते काऽपि नैव कार्य्या कथञ्चन ॥
तवैव भगवच्छास्त्रे यतो मुख्याधिकारिता ॥ 2.6.3.६० ॥
एतावत्कालपर्य्यन्तं प्रायो भागवतश्रुतेः ॥
वार्तामपि न जानन्ति मनुष्याः कर्मतत्पराः ॥ ६१ ॥
त्वत्प्रसादेन बहवो मनुष्या भारताजिरे ॥
श्रीमद्भागवतप्राप्तौ सुखं प्राप्स्यन्ति शाश्वतम् ॥ ६२ ॥
नन्दनन्दनरूपस्तु श्रीशुको भगवानृषिः ॥
श्रीमद्भागवतं तुभ्यं श्रावयिष्यत्यसंशयः ॥६३॥
तेन प्राप्स्यसि राजंस्त्वं नित्यं धाम व्रजेशितुः ॥
श्रीभागवतसञ्चारस्ततो भुवि भविष्यति ॥ ६४ ॥
तस्मात्त्वं गच्छ राजेन्द्र कलिनिग्रहमाचर ॥
॥ श्रीसूत उवाच ॥ ॥
इत्युक्तस्तं परिक्रम्य गतो राजा दिशां जये ॥६५॥
वज्रस्तु निजराज्येशं प्रतिबाहुं विधाय च ॥
तत्रैव मातृभिः साकं तस्थौ भागवताशया ॥६६॥
अथ वृन्दावने मासं गोवर्द्धनसमीपतः ॥
श्रीमद्भागवतास्वादस्तूद्धवेन प्रवर्तितः ॥ ६७॥
तस्मिन्नास्वाद्यमाने तु सच्चिदानन्दरूपिणी ॥
प्रचकाशे हरेर्लीला सर्वतः कृष्ण एव च ॥ ६८ ॥
आत्मानं च तदन्तःस्थं सर्वेऽपि ददृशुस्तदा ॥
वज्रस्तु दक्षिणे दृष्ट्वा कृष्णपादसरोरुहे ॥ ६९ ॥
स्वात्मानं कृष्णवैधुर्य्यान्मुक्तस्तद्भुव्यशोभत ॥
ताश्च तन्मातरः कृष्णे रासरात्रिप्रकाशिनि ॥ 2.6.3.७० ॥
चन्द्रे कलाप्रभारूपमात्मानं वीक्ष्य विस्मिताः ॥
स्वप्रेष्ठ विरहव्याधिविमुक्ताः स्वपदं ययुः ॥ ७१ ॥
येऽन्ये च तत्र ते सर्वे नित्यलीलान्तरं गताः ॥
व्यावहारिकलोकेभ्यः सद्योऽदर्शनमागताः ॥ ७२ ॥
गोवर्द्धननिकुञ्जेषु गोषु वृन्दावनादिषु ॥
नित्यं कृष्णेन मोदन्ते दृश्यन्ते प्रेमतत्परैः ॥ ७३ ॥
॥ श्रीसूत उवाच ॥ ॥
य एतां भगवत्प्राप्तिं शृणुयाच्चापि कीर्तयेत् ॥
तस्य वै भगवत्प्राप्तिर्दुःखहानिश्च जायते ॥ ७४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे परीक्षिदुद्धवसंवादे श्रीभागवतमाहात्म्ये तृतीयोऽध्यायः ॥ ३ ॥