००२ परीक्षिदादीनामुद्धवदर्शनवर्णनः

॥ श्रीऋषय ऊचुः ॥ ॥
शाण्डिल्ये तौ समादिश्य परावृत्ते स्वमाश्रमम् ॥
कि कथं चक्रतुस्तौ तु राजानौ सूत तद्वद ॥ १ ॥ ॥
॥ श्रीसूत उवाच ॥ ॥
ततस्तु विष्णुरातेन श्रेणीमुख्वाः सहस्रशः ॥
इन्द्रप्रस्थात्समानाय्य मथुरास्थानमापिताः ॥ २ ॥
माथुरान्ब्राह्मणांस्तत्र वानरांश्च पुरातनान् ॥
विज्ञाय माननीयत्वं तेषु स्थापितवान्स्वरादट् ॥ ३ ॥
वज्रस्तु तत्सहायेन शाण्डिल्यस्याऽप्यनुग्रहात् ॥
गोविन्दगोपगोपीनां लीलास्थानान्यनुक्रमात् ॥ ४ ॥
विज्ञायाऽभिधयाऽऽस्थाप्य ग्रामानावासयद्बहून् ॥
कुण्डकूपादिपूर्तेन शिवादिस्थापनेन च ॥ ५ ॥
गोविन्दहरिदेवादिस्वरूपाऽऽरोपणेन च ॥
कृष्णैकभक्तिं स्वे राज्यं ततान च मुमोद ह ॥ ६ ॥
प्रजास्तु मुदितास्तस्य कृष्णकीर्तनतत्पराः॥
परमानन्दसम्पन्ना राज्यं तस्यैव तुष्टुवुः ॥ ७ ॥
एकदा कृष्णपत्न्यस्तु श्रीकृष्णविरहातुराः ॥
कालिन्दीं मुदिता वीक्ष्य पप्रच्छुर्गतमत्सराः ॥ ८ ॥॥
॥ श्रीकृष्णपत्न्य ऊचुः ॥ ॥
यथा वयं कृष्णपत्न्यस्तथा त्वमपि शोभने ॥
वयं विरहदुःखार्तास्त्वं न कालिन्दि तद्वद ॥ ९ ॥
तच्छ्रुत्वा स्मयमाना सा कालिन्दी वाक्यमब्रवीत् ॥
सापत्न्यं वीक्ष्य तत्तासां करुणापरमानसा ॥ 2.6.2.१० ॥ ॥
श्रीकालिन्द्युवाच ॥ ॥
आत्मारामस्य कृष्णस्य ध्रुवमात्मास्ति राधिका ॥
तस्या दास्यप्रभावेण विरहोऽस्मान्न संस्पृशेत् ॥ ११ ॥
तस्या एवांशविस्ताराः सर्वाः श्रीकृष्णनायिकाः ॥
नित्यसम्भोग एवास्ति तस्याः साम्मुख्ययोगतः ॥ १२ ॥
स एव सा स सैवास्ति वशी तत्प्रेमरूपिका ॥
श्रीकृष्णनखचन्द्रालिसङ्गाच्चन्द्रावली स्मृता ॥ १३ ॥
रूपान्तरं च गृह्णाना तयोः सेवातिलालसा ॥
रुक्मिण्यादिसमावेशो मयात्रैव विलोकितः ॥ १४ ॥
युष्माकमपि कृष्णेन विरहो नैव सर्वतः ॥
किन्तु एवं न जानीथ तस्माद्व्याकुलतामिताः ॥ १५ ॥
एवमेवात्र गोपीनामक्रूरावसरे पुरा ॥
विरहाभास एवासीदुद्धवेन समाहितः ॥ १६ ॥
तेनैव भवतीनां चेद्भवेदत्र समागमः ॥
तर्हि नित्यं स्वकान्तेन विहारमपि लप्स्यथ ॥ १७ ॥
॥ श्रीसूत उवाच ॥ ॥
एवमुक्तास्तु ताः पत्न्यः प्रसन्नां पुनरब्रुवन् ॥
उद्धवालोकनेनात्मप्रेष्ठसङ्गमलालसाः ॥ १८ ॥
॥ श्रीकृष्णपत्न्य ऊचुः ॥ ॥
धन्यासि सखि कान्तेन यस्या नैवास्ति विच्युतिः ॥
यतस्ते स्वार्थसंसिद्धिस्तस्या दास्यो बभूविम ॥ १९ ॥
परन्तूद्धवलाभे स्यादस्मत्सर्वार्थसाधनम् ॥
तथा वदस्व कालिन्दि तल्लाभोऽपि यथा भवेत् ॥ 2.6.2.२० ॥
॥ श्रीसूत उवाच ॥ ॥
एवमुक्ता तु कालिन्दी प्रत्युवाचाथ तास्तथा ॥
स्मरन्ती कृष्णचन्द्रस्य कलाषोडशरूपिणी ॥ २१ ॥
साधनभूमिर्बदरी व्रजता कृष्णेन मन्त्रिणे प्रोक्ता ॥
तत्रास्ते स तु साक्षात्तद्वयुनं ग्राहयल्ँलोकान् ॥ २२ ॥
फलभूमिर्व्रजभूमिर्दत्ता तस्मै पुरैव सरहस्यम् ॥
फलमिह तिरोहितं सत्तदिहेदानीं स उद्धवोऽलक्ष्यः ॥ २३ ॥
गोवर्द्धनगिरिनिकटे सखीस्थले तद्रजःकामः ॥
तत्रत्याङ्कुरवल्लीरूपेणास्ते स उद्धवो नूनम् ॥ २४ ॥
आत्मोत्सवरूपत्वं हरिणा तस्मै समर्पितं नियतम् ॥
तस्मात्तत्र स्थित्वा कुसुमसरःपरिसरे सवज्राभिः ॥ २५ ॥
वीणावेणुमृदङ्गैः कीर्तनकाव्यादिसरससङ्गीतैः ॥
उत्सव आरब्धव्यो हरिरतलोकान्समानाय्य ॥ २६ ॥
तत्रोद्धवावलोको भविता नियतं महोत्सवे वितते ॥
यौष्माकीणामभिमतसिद्धिं सविता स एव सवितानाम् ॥ २७ ॥
॥ श्रीसूत उवाच ॥ ॥
इति श्रुत्वा प्रसन्नास्ताः कालिन्दीमभिवन्द्य तत् ॥
कथयामासुरागत्य वज्रं प्रति परीक्षितम् ॥ २८ ॥
विष्णुरातस्तु तच्छ्रुत्वा प्रसन्नस्तद्युतस्तदा ॥
तत्रैवागत्य तत्सर्वं कारयामास सत्वरम् ॥ २९ ॥
गोवर्धनाददूरेण वृन्दारण्ये सखीस्थले ॥
प्रवृत्तः कुसुमाम्भोधौ कृष्णसङ्कीर्तनोत्सवः ॥ 2.6.2.३० ॥
वृषभानुसुताकान्तविहारे कीर्तनश्रिया ॥
साक्षादिव समावृत्ते सर्वेऽनन्यदृशोऽभवन् ॥ ३१ ॥
ततः पश्यत्सु सर्वेषु तृणगुल्मलताचयात् ॥
आजगामोद्धवः स्रग्वी श्यामः पीताम्बरावृतः ॥ ३२ ॥
गुञ्जामालाधरो गायन्बल्लवीवल्लभं मुहुः ॥
तदागमनतो रेजे भृशं सङ्कीर्तनोत्सवः ॥ ३३ ॥
चन्द्रिकागमतो यद्वत्स्फाटिकाट्टालभूमणिः ॥
अथ सर्वे सुखाम्भोधौ मग्नाः सर्वं विसस्मरुः ॥ ३४ ॥
क्षणेनागतविज्ञाना दृष्ट्वा श्रीकृष्णरूपिणम् ॥
उद्धवं पूजयाञ्चक्रुः प्रतिलब्धमनोरथाः ॥ ३५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद्भागवतमाहात्म्ये गोवर्द्धनपर्वतसमीपे परीक्षिदादीनामुद्धवदर्शनवर्णनोनाम द्वितीयोऽध्यायः ॥ २ ॥