००१ शाडिल्योपदिष्टव्रजभूमिमाहात्म्यवर्णनम्

अथ श्रीमद्भागवतमाहात्म्यं प्रारभ्यते ॥
॥ व्यास उवाच ॥ ॥
श्रीसच्चिदानन्दघनस्वरूपिणे कृष्णाय चानन्तसुखाभिवर्षिणे ॥
विश्वोद्भवस्थाननिरोधहेतवे नुमो वयं भक्तिरसाप्तयेऽनिशम् ॥ १ ॥
नैमिषे सूतमासीनमभिवाद्य महामतिम् ॥
कथामृतरसास्वादकुशला ऋषयोऽब्रुवन् ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
वज्रं श्रीमाथुरे देशे स्वपौत्रं हस्तिनापुरे ॥
अभिषिच्य गते राज्ञि तौ कथं किं च चक्रतुः ॥ ३ ॥
॥ सूत उवाच ॥ ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ४ ॥
महापथं गते राज्ञि परीक्षित्पृथिवीपतिः ॥
जगाम मथुरां विप्रा वज्रनाभदिदृक्षया ॥ ५ ॥
पितृव्यमागतं ज्ञात्वा वज्रः प्रेमपरिप्लुतः ॥
अभिगम्याभिवाद्याथ निनाय निजमन्दिरम् ॥ ६ ॥
परिष्वज्य स तं वीरः कृष्णैकगतमानसः ॥
रोहिण्याद्या हरेः पत्नीर्ववन्दायतनागतः ॥ ७ ॥
ताभिः सम्मानितोऽत्यर्थं परीक्षित्पृथिवीपतिः ॥
विश्रान्तः सुखमासीनो वज्रनाभमुवाच ह ॥ ८ ॥
॥ श्रीपरीक्षिदुवाच ॥ ॥
तात त्वत्पितृभिर्नूनमस्मत्पितृपितामहाः ॥
उद्धृता भूरिदुःखौघादहं च परिरक्षितः ॥ ९ ॥
न पारयाम्यहं तात साधु कृत्वोपकारतः॥
त्वामतः प्रार्थयाम्यङ्ग सुखं राज्येऽनुयुज्यताम् ॥ 2.6.1.१० ॥
कोशसैन्यादिजा चिन्ता तथारिदमनादिजा ॥
मनागपि न कार्या ते सुसेव्याः किन्तु मातरः ॥ ११ ॥
निवेद्य मयि कर्तव्यं सर्वाधिपरिवर्ज्जनम् ॥
श्रुत्वैतत्परमप्रीतो वज्रस्तं प्रत्युवाच ह ॥ १२ ॥
॥ श्रीवज्रनाभ उवाच ॥ ॥
राजन्नुचितमेतत्ते यदस्मासु प्रभाषते ॥
त्वत्पित्रोपकृतश्चाहं धनुर्विद्याप्रदानतः ॥ १३ ॥
तस्मान्नाल्पापि मे चिन्ता क्षात्रं दृढमुपेयुषः ॥
किन्त्वेका परमा चिन्ता तत्र किञ्चिद्विचार्य्यताम् ॥ १४ ॥
माथुरे त्वभिषिक्तोऽपि स्थितोऽहं निर्जने वने ॥
क्व गता वै प्रजाऽत्रत्या यत्र राज्यं प्ररोचते ॥ १५ ॥
इत्युक्तो विष्णुरातस्तु नन्दादीनां पुरोहितम् ॥
शाण्डिल्यमाजुहावाशु वज्रसन्देहनुत्तये ॥ १६ ॥
अथोटजं विहायाशु शाण्डिल्यः समुपागतः ॥
पूजितो वज्रनाभेन निषसादासनोत्तमे ॥ १७ ॥
उपोद्घातं विष्णुरातश्चकाराशु ततस्त्वसौ ॥
उवाच परमप्रीतस्तावुभौ परिसान्त्वयन् ॥ १८ ॥
॥ श्रीशाण्डिल्य उवाच ॥ ॥
शृणुतं दत्तचित्तौ मे रहस्यं व्रजभूमिजम् ॥
व्रजनं व्याप्तिरित्युक्त्या व्यापनाद्व्रज उच्यते ॥ १९ ॥
गुणातीतं परं ब्रह्म व्यापकं व्रज उच्यते ॥
सदानन्दं परं ज्योतिर्मुक्तानां पदमव्ययम् ॥ 2.6.1.२० ॥
तस्मिन्नन्दात्मजः कृष्णः सदानन्दाङ्गविग्रहः ॥
आत्मारामश्चाप्तकामः प्रेमाक्तैरनुभूयते ॥ २१ ॥
आत्मा तु राधिका तस्य तयैव रमणादसौ ॥
आत्मारामतया प्राज्ञैः प्रोच्यते गूढवेदिभिः ॥ २२ ॥
कामास्तु वाञ्छितास्तस्य गावो गोपाश्च गोपिकाः ॥
नित्याः सर्वे विहाराद्या आप्तकामस्ततस्त्वयम् ॥ २३ ॥
रहस्यं त्विदमेतस्य प्रकृतेः परमुच्यते ॥
प्रकृत्या खेलतस्तस्य लीलाऽन्यैरनुभूयते ॥ २४ ॥

b
सर्गस्थित्यप्यया यत्र रजःसत्त्वतमोगुणैः ॥
लीलैवं द्विविधा तस्य वास्तवी व्यावहारिकी ॥ २५ ॥
वास्तवी तत्स्वसंवेद्या जीवानां व्यावहारिकी ॥
आद्यां विना द्वितीया न द्वितीया नाद्यगा क्वचित् ॥ २६ ॥
आवयोर्गोचरेयं तु तल्लीला व्यावहारिकी ॥
यत्र भूरादयो लोका भुवि माथुरमण्डलम् ॥ २७ ॥
अत्रैव व्रजभूमिः सा यत्र तत्त्वं सुगोपितम् ॥
भासते प्रेमपूर्णानां कदाचिदपि सर्वतः ॥ ॥ २८ ॥
कदाचिद्द्वापरस्यान्ते रहोलीलाधिकारिणः ॥
समवेता यदाऽत्र स्युर्यथेदानीं तदा हरिः ॥ २९ ॥
स्वैः सहावतरेत्स्वेषु समावेशार्थमीप्सिताः ॥
तदा देवादयोऽप्यन्येऽवतरन्ति समन्ततः ॥ 2.6.1.३० ॥
सर्वेषां वाञ्छितं कृत्वा हरिरन्तर्हितोऽभवत् ॥
तेनात्र त्रिविधा लोकाः स्थिताः पूर्वं न संशयः ॥ ३१ ॥
नित्यास्तल्लिप्सवश्चैव देवाद्याश्चेति भेदतः ॥
देवाद्यास्तेषु कृष्णेन द्वारिकां प्रापिताः पुरा ॥ ३२ ॥
पुनर्मौशलमार्गेण स्वाधिकारेषु चापिताः ॥
तल्लिप्सूंश्च सदा कृष्णः प्रेमानन्दैकरूपिणः ॥ ३३ ॥
विधाय स्वीयनित्येषु समावेशितवांस्तदा ॥
नित्याः सर्वेऽप्ययोग्येषु दर्शनाभावतां गताः ॥ ३४ ॥
व्यावहारिकलीलास्थास्तत्र यन्नाधिकारिणः ॥
पश्यन्त्यत्रागतास्तस्मान्निर्ज्जनत्वं समन्ततः ॥ ३५ ॥
तस्माच्चिन्ता न ते कार्या वज्रनाभ मदाज्ञया ॥
वासयात्र बहून्ग्रामान्संसिद्धिस्ते भविष्यति ॥ ३६ ॥
कृष्णलीलानुसारेण कृत्वा नामानि सर्वतः ॥
त्वया वासय ता ग्रामान्संसेव्या भूरियं परा ॥ ३७ ॥
गोवर्द्धने दीर्घपुरे मथुरायां महावने ॥
नन्दिग्रामे बृहत्सानौ कार्या राज्यस्थितिस्त्वया ॥ ३८ ॥
नद्यद्रिद्रोणिकुण्डादिकुञ्जान्संसेवतस्तव ॥
राज्ये प्रजाः सुसम्पन्नास्त्वं च प्रीतो भविष्यसि ॥ ३९ ॥
सच्चिदानन्दभूरेषा त्वया सेव्या प्रयत्नतः ॥
तव कृष्णस्थलान्यत्र स्फुरन्तु मदनुग्रहात् ॥ 2.6.1.४० ॥
वज्र संसेवनादस्या उद्धवस्त्वां मिलिष्यति ॥
ततो रहस्यमेतस्मात्प्राप्स्यसि त्वं समातृकः ॥४१॥
एवमुक्त्वा तु शाण्डिल्यो गतः कृष्णमनुस्मरन् ॥
विष्णुरातोऽथ वज्रश्च परां प्रीतिमवापतुः ॥ ४२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद्भागवतमाहात्म्ये शाडिल्योपदिष्टव्रजभूमिमाहात्म्यवर्णनन्नाम प्रथमोऽध्यायः ॥ १ ॥