॥ ब्रह्मोवाच ॥ ॥
कस्मिन्क्षेत्रे हि देवेश मार्गशीर्षोऽधिकः स्मृतः ॥
किं फलं च भवेत्तस्मिन्नेतत्सर्वं वद प्रभो ॥ १ ॥
॥ श्रीभगवानुवाच ॥ ॥
मधुरेति सुविख्यातमस्ति क्षेत्रं परं मम ॥
सुरम्या च प्रशस्ता च जन्मभूमिः प्रिया मम ॥ २ ॥
पदेपदे तीर्थफलं मधुरायां चतुर्मुख ॥
यत्रयत्र नरः स्नातो मुच्यते घोरकिल्बिषात् ॥ ३ ॥
सर्वधर्मविहीनानां पुरुषाणां दुरात्मनाम् ॥
नरकार्तिहरा पुत्र मधुरा पापनाशिनी ॥ ४ ॥
कृतघ्नश्च सुरापश्च चौरो भग्नव्रतस्तथा ॥
मधुरां प्राप्य मनुजो मुच्यते घोरपातकात् ॥ ५ ॥
सूर्यौदये तमो नश्येद्यथा वज्रभयान्नगाः ॥
तार्क्ष्यं दृष्ट्वा यथा सर्पा मेघा वातहता यथा ॥ ६ ॥
तत्त्वज्ञानाद्यथा दुःखं हरिं दृष्ट्वा यथा गजाः ॥
तथा पापानि नश्यन्ति मथुरादर्शनात्सुत ॥ ७ ॥
श्रद्धया भक्तियुक्तस्तु दृष्ट्वा मधुपुरीं नरः ॥
ब्रह्महाऽपि विशुध्येत किं पुनस्त्वन्यपातकी ॥ ८ ॥
मथुरां स्नातुकामस्य गच्छतस्तु पदेपदे ॥
निराशानि व्रजन्त्येव पापानि च शरीरतः ॥ ९ ॥
अनुषङ्गेण गच्छन्ति वाणिज्येनाऽपि सेवया ॥
मधुरास्नानमात्रेण दिवं यान्ति गतांहसः ॥ 2.5.17.१० ॥
नामाऽपि गृह्णतामस्याः सदा मुक्तिर्न संशयः ॥
सदा कृतयुगं तत्र सदा चैवोत्तरायणम् ॥ ११ ॥
यः शृणोति चतुर्वक्त्र माधुरं मम मन्दिरम् ॥
अन्येनोच्चारिते सद्यः सोऽपि पापात्प्रमुच्यते ॥ १२ ॥
त्रिरात्रमपि ये तत्र वसन्ति मनुजाः सुत ॥
तेषां पुनन्ति सहृष्टाः स्पृष्टाश्चरणरेणवः ॥ १३ ॥
यथा तृणसमूहं तु ज्वलयन्ति स्फुलिङ्गकाः ॥
तथा महान्ति पापानि दहते मथुरा पुरी ॥ १४ ॥
स्नानेन सर्वतीर्थानां यः स्यात्सुकृतसञ्चयः ॥
ततोऽधिकतरं प्रोक्ता मथुरा सर्वमण्डले ॥ १५ ॥
चतुर्णामपि वेदानां पुण्यमध्ययनाच्च यत् ॥
तत्पुण्यं जायते तत्र मथुरां स्मरतां नृणाम् ॥ १६ ॥
अन्यत्र हि कृतं पापं तीर्थमासाद्य नश्यति ॥
तीर्थेषु यत्कृतं पापं वज्रलेपो भविष्यति ॥ १७ ॥
मथुरायां कृतं पापं मथुरायां प्रणश्यति ॥
धर्मार्थकाममोक्षाख्यं स्थित्वा तत्र लभेन्नरः ॥ १८ ॥
अन्यत्र दशभिर्वर्षैः प्रारब्धं भुज्यते हि यत् ॥
किल्विषं च चतुर्वक्त्र माथुरे दशभिर्दिनैः ॥१९॥
दिवि नैव न पाताले नान्तरिक्षे न मानुषे ॥
समं तु मथुरायां हि प्रियं मम सदैव हि ॥ 2.5.17.२० ॥
सर्वेषामेव तीर्थानां माथुरं परमं महत् ॥
बालक्रीडनरूपाणि कृतानि सह गोपकैः ॥ २१ ॥
त्रिंशद्वर्षसहस्राणि त्रिंशद्वर्षशतानि च ॥
यत्फलं भारते वर्षे तत्फलं मथुरां स्मरन् ॥ २२ ॥
सन्निहत्यां तु यत्पुण्यं राहुग्रस्ते दिवाकरे ॥
ततोधिकं लभेत्पुत्र मथुरायां दिनेदिने ॥ २३ ॥
पूर्णे वर्षसहस्रे तु तीर्थराजे तु यत्फलम् ॥
तत्फलं लभते पुत्र सहोमासे मधोः पुरे ॥ २४ ॥
पूर्णे वर्षसहस्रे तु वाराणस्यां च यत्फलम् ॥
तत्फलं लभते पुत्र मथुरायां सहो दिने ॥ २५ ॥
गोदावरीद्वारकयोर्नरो यः क्षेत्रे कुरूणां क्षितिदायको यः ॥
षण्मासकात्साधयते गयायां समं भवेन्नो दिनमेकमाथुरम् ॥ २६ ॥
न द्वारका काशिकाञ्ची न माया गदाधरो यस्य समं न तीर्थम् ॥
सन्तर्पिता यद्यमुनाजलेन वाञ्छन्ति नो वै पितरः पिण्डदानम् ॥ २७ ॥
मथुरायां प्रकुर्वन्ति पुरीसाधारणीदृशम् ॥
ये नरास्तेऽपि विज्ञेयाः पापराशिभिरन्विताः ॥ २८ ॥
न दृष्टा मथुरा येन दिदृक्षा यस्य जायते ॥
यत्र तत्र मृतस्याऽपि माथुरे जन्म जायते ॥ २९ ॥
भूमे रजांसि गणयेत्कालेनाऽपि चतुर्मुख ॥
माथुरे यानि तीर्थानि तेषां सङ्ख्या न विद्यते ॥ 2.5.17.३० ॥
कुरु भोः कुरु भो वासं मथुराख्यां पुरीं प्रति ॥
वसामि सततं तस्यां गोपकन्याभिरावृतः ॥ ३१ ॥
रेरे संसारमग्नाश्च शिष्या मे शृणुताऽपरे ॥
यदीच्छथ सुखं सान्द्रं वासं कुरुत मत्पुरीम् ॥ ३२ ॥
अहो लोको महानन्दो नेत्रयुक्तो न पश्यति ॥
माथुरे विद्यमानेऽपि संसृतिं भजते सदा ॥ ३३ ॥
मानुषीं योनिमतुलां लब्ध्वा भाग्यस्य योगतः ॥
वृथैवायुर्गतं तेषां न दृष्टा मथुरापुरी ॥ ३४ ॥
अहो मतेः सुदौर्बल्यमहो भाग्यस्य दुर्विधिः ॥
अहो मोहस्य महिमा मथुरा नैव सेव्यते ॥ ३५ ॥
मथुरां तु परित्यज्य योऽन्यत्र कुरुते मतिम् ॥
मूढो भ्रमति संसारे मोहितो मम मायया ॥ ३६ ॥
मथुरामपि सम्प्राप्य योऽन्यत्र कुरुते स्पृहाम् ॥
दुर्बुद्धेस्तस्य किं ज्ञानं सोऽज्ञानेन विजृम्भितः ॥ ॥ ३७ ॥
मात्रा पित्रा परित्यक्ता ये त्यक्ता निजबन्धुभिः ॥
येषां क्वापि गतिर्नास्ति तेषां मम पुरी गतिः ॥ ३८ ॥
पापराशिभिराक्रान्ता ये दारिद्र्य पराजिताः ॥
येषां क्वापि गतिर्नास्ति तेषां मम पुरी गतिः ॥ ३९ ॥
सारात्सारतरं स्थानं गुह्याद्गुह्यतरं परम् ॥
गतिमन्वेषमाणानां मथुरा परमा गतिः ॥ 2.5.17.४० ॥
न तत्पुण्यैर्न तद्दानैर्न तपोभिर्न तु स्तवैः ॥
न लभ्यं विविधैर्योगैर्लभ्यं मदनुभावतः ॥ ४१ ॥
मयि येषां स्थिरा भक्तिर्भूयसी येषु मत्कृपा ॥
तेषामेव हि धन्यानां मथुरायां भवेद्गतिः ॥ ४२ ॥
या गतिर्योगयुक्तस्य ब्रह्मज्ञस्य मनीषिणः ॥
सा गतिस्त्यजतः प्राणान्मथुरायां नरस्य च ॥ ४३ ॥
काश्यादिपुर्यो यदि सन्ति लोके तासां तु मध्ये मथुरैव धन्या ॥
या जन्ममौञ्जीव्रतमुक्तिदानैर्नृणां चतुर्धा विदधाति मुक्तिम् ॥ ॥ ४४ ॥
न योगैर्या गतिर्लभ्या मन्वन्तरशतैरपि ॥
अन्यत्र हेलया साऽत्र लभ्यते मत्प्रसादतः ॥४५॥
न पापेभ्यो भयं यत्र न भयं यत्र वै यमात् ॥
न गर्भवासभीर्यत्र तत्क्षेत्रं को न संश्रयेत्॥ ४६॥
मथुरायां च यत्पुण्यं तत्पुण्यस्य फलं शृणु ॥
मथुरायां समासाद्य मथुरायां मृता हि ये ॥ ४७ ॥
अपि कीटपतङ्गाद्या जायन्ते ते चतुर्भुजाः ॥
कूलात्पतन्ति ये वृक्षास्तेऽपि यान्ति परां गतिम् ॥ ४८ ॥
मूका जडान्धबधिरास्तपोनियमवर्जिताः ॥
कालेनैव मृता ये च मम लोकं व्रजन्ति ते ॥ ४९ ॥
सर्पदष्टाः पशुहताः पावकाम्बुविनाशिताः॥
लब्धाऽपमृत्यवो ये च माथुरे मम लोकगाः ॥ 2.5.17.५० ॥
सत्यं सत्यं मुनिश्रेष्ठ ब्रुवे शपथपूर्वकम् ॥
सर्वाऽभीष्टप्रदं नान्यन्मथुरायाः समं क्वचित् ॥ ६१ ॥
त्रिवर्गदा कामिनां या मुमुक्षूणां च मुक्तिदा ॥
भक्तीच्छोर्भक्तिदा कस्तां मथुरां नाऽऽश्रयेद्बुधः ॥ ५२ ॥
एतादृशी मधुपुरी कर्त्तव्या मार्गशीर्षके ॥
तदभावे पुष्करं हि कर्तव्यं विधिपूर्वकम् ॥ ५३ ॥
ज्येष्ठं हि ब्रह्मणः कुण्डं मध्यं कुण्डं च वैष्णवम् ॥
कनिष्ठं रुद्रदैवत्यमिति जानीहि बुद्धिमन् ॥५४॥
एषु स्नानं च दानं च श्राद्धं च विधिपूर्वकम् ॥
पूजा च महती कार्या मम प्रीतिकरा सुत ॥ ५५ ॥
पूर्णा या तु भवेत्पुत्र सहोमासे मम प्रिया ॥
तस्यां यत्क्रियते पुण्यं मम प्रीतिकरं भवेत् ॥ ५६ ॥
गोदानमन्नदानं च हेमदानं च पुत्रक ॥
धरादानं च कर्तव्यं पूर्णायां विधिपूर्वकम् ॥ ५७ ॥
सहोमासे हि पूर्णायां सद्मदानं च कारयेत् ॥
यत्किञ्चित्क्रियते पूर्णं तदक्षय्यफलं भवेत् ॥ ५८ ॥
ब्रह्मभोज्यं हि कर्तव्यं यथाविभवसारतः ॥
पूर्णायामेव कर्तव्य उत्सवो व्रतपूर्त्तये ॥ ५९ ॥
यादृशी मथुरा पुत्र सहोमासे मम प्रिया ॥
न तथा तीर्थराजाद्यास्तदभावे च पुष्करम् ॥ 2.5.17.६० ॥
पुष्करे मथुरायां वै पूर्णा कार्या विचक्षणैः ॥
यत्र कुत्रापि वा कार्या विधियुक्ता च पूर्णिमा ॥ ६१ ॥
स्नानं दानं तथा पूजां पूर्णायां न करोति यः ॥
षष्टिवर्षसहस्राणि पच्यते रौरवादिषु ॥ ६२ ॥
तस्मात्सर्वप्रयत्नेन मान्या पूर्णा विचक्षणैः ॥
मार्गशीर्षेण संयुक्ता अनन्तफलदायिनी ॥ ६३ ॥
यथा ते कथितं वत्स मार्गशीर्षं मम प्रियम् ॥
करोति यो नरो भक्त्या तस्य पुण्यफलं शृणु ॥ ६४ ॥
तीर्थायुतेषु यत्पुण्यं यत्पुण्यं व्रतकोटिभिः ॥
सर्वयज्ञेषु यत्पुण्यं तत्पुण्यं समवाप्नुयात् ॥ ६५ ॥
अपुत्रो लभते पुत्रं निर्धनो धनमेव च ॥
विद्यार्थी च तथा विद्यां रूपार्थी रूपमाप्नुयात् ॥ ६६ ॥
ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ॥
वैश्यो निधिपतित्वं च शूद्रः शुद्ध्येत पातकात् ॥ ६७ ॥
यद्दुर्लभं च दुष्प्राप्यं त्रिषु लोकेषु मानद ॥
तत्सर्वं प्राप्नुयान्मर्त्यः सहोमासे न संशयः ॥ ६८ ॥
यद्यप्येतेषु कामेषु सक्ता ये मानवाः सुत ॥
तुष्टा ह्यन्ते चतुर्वक्त्र न कामार्हा महाभुज ॥ ६९ ॥
सुदुर्लभा हि सद्भक्तिर्मम वश्यकरी शुभा ॥
सा वै सम्प्राप्यते पुत्र सहोमासे श्रुते तथा ॥ 2.5.17.७० ॥
मम प्रीतिकरं मासं सर्वदा मम वल्लभम् ॥
सर्वं सम्प्राप्यतेऽमुष्मान्मत्प्रसादाच्चतुर्मुख ॥ ७१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये मथुरामाहात्म्यवर्णनन्नाम सप्तदशोऽध्यायः ॥ १७ ॥