॥श्रीभगवानुवाच॥ ॥
शृणु ध्यानं चतुर्वक्त्र वक्ष्यामि प्रीतमानसः ॥
श्रुतेनैव च सौभाग्यं लभते मानवो भुवि ॥१॥
अथ श्रीमदुद्यानसंवीतहैमस्थलोद्भासिरत्नस्फुरन्मण्डपान्तः ॥
लसत्कल्पवृक्षोदितोद्दीप्तरत्नस्थलाधिष्ठिताम्भोजपीठाऽधिरूढम् ॥ २ ॥
महानीलनीलाभमत्यन्तबालं गुडस्निग्धवक्त्रान्तविस्रस्तकेशम् ॥
अलिव्रातपर्याकुलोत्फुल्लपद्मप्रमुग्धाननं श्रीमदिन्दीवराक्षम् ॥ ३ ॥
चलत्कुण्डलोल्लासितोत्फुल्लगल्लं सुघोणं सुशोणाधरं सुस्मितास्यम् ॥
अनेकोल्लसत्कण्ठभूषालसन्तं वहन्तं नखं पौण्डरीकं सुनेत्रम् ॥ ४ ॥
समुद्धूसरोरःस्थलं धेनुधूल्या सुपुष्टाङ्गमष्टापदाकल्पदीप्तम् ॥
कटीरस्थले चारुजङ्घोरुयुग्मे पिनद्धं क्वणत्किङ्किणीजालदाम्ना ॥ ५ ॥
हसन्तं लसद्बन्धुजीवप्रसूनप्रभापाणिपादाम्बुजोदारकान्त्या ॥
करे दक्षिणे पायसं वामहस्ते दधानं नवं शुद्धहैयङ्गवीनम् ॥ ६ ॥
महीभारभूताऽमरारातियूथाऽनलं पूतनादीन्निहन्तुं प्रवृत्तम् ॥
प्रभुं गोपिकागोपवृन्देन वीतं सुरेन्द्रादिभिर्वन्दितं देवदेवम् ॥ ७ ॥
प्रगे पूजयित्वा त्वनुस्मृत्य कृष्णं भुजङ्गेन्द्रवज्रादिभिर्भक्तिनम्रः ॥
सिताम्भोजहैयङ्गवीनैश्च दध्ना विमिश्रेण दुग्धेन सम्प्रीणयेत्तम् ॥ ८ ॥
इति प्रातरेवाऽर्चयेदत्युतं यो नरः प्रत्यहं शश्वदास्तिक्ययुक्तः ॥
लभेत्सोऽचिरेणैव लक्ष्मीं समग्रामिह प्रेत्य शुद्धं परं धाम भूयात् ॥ ९ ॥
मन्त्रश्चोक्तः पुरा पुत्र आदौ लोकमनोहरः ॥
श्रीमद्दामोदराख्यो हि शृणु तस्याधिकारिणः ॥ 2.5.16.१० ॥
अयोग्याय न दातव्यो मन्त्रराजस्त्वया सुत ॥
यत्नेन गोपनीयं च रहस्यं शीघ्रसिद्धिदम् ॥ ११ ॥
अलसं मलिनं क्लिष्टं दम्भमोहसमन्वितम् ॥
दरिद्रं रोगिणं क्रुद्धं रागिणं भोगलालसम् ॥ १२ ॥
असूयामत्सरग्रस्तं शठं परुषवादिनम् ॥
अन्यायेनाऽर्जितधनं परदाररतं सदा ॥ १३ ॥
विदुषां वैरिणं नित्यमज्ञं पण्डितमानिनम् ॥
भ्रष्टव्रतं क्लिष्टवृत्तिं पिशुनं दुष्टमानसम् ॥ १४ ॥
बह्वाशिनं क्रूरचेष्टमग्रगण्यं दुरात्मनाम् ॥
कृपणं पापिनं रौद्रमाश्रितानां भयङ्करम् ॥ १५ ॥
एवमादिगुणैर्युक्तं शिष्यं नैव परिग्रहेत् ॥
गृह्णीयाद्यदि तद्दोषः प्रायो गुरुमुपस्पृशेत् ॥ १६ ॥
अमात्यदोषो राजानं जायादोषः पतिं यथा ॥
तथा शिष्यकृतो दोषो गुरुं प्राप्नोत्यसंशयम् ॥ १७ ॥
तस्माच्छिष्यं गुरुर्नित्यं परीक्ष्यैव परिग्रहेत् ॥
कायेन मनसा वाचा गुरुशुश्रूषणे रतम् ॥ १८ ॥
अस्तेयवृत्तिमास्तिक्ययुक्तं मोक्षकृतोद्यमम् ॥
ब्रह्मचर्यरतं नित्यं दृढव्रतमकल्मषम् ॥ १९ ॥
प्रसन्नहृदयं शुद्धमशठं विमलाशयम् ॥
परोपकारनिरतं स्वार्थे च विगतस्पृहम् ॥ 2.5.16.२० ॥
स्वचित्तवित्तदेहैस्तु परितोषकरं गुरोः ॥
आश्रितानां तथा पुत्र परितोषकरं शुचिम् ॥ २१ ॥
ईदृग्विधाय शिष्याय मन्त्रं दद्याच्च नान्यथा ॥
यद्यन्यथा वदेत्तस्मिन्देवताशाप आपतेत् ॥ २२ ॥
शृणु पुत्र प्रवक्ष्यामि गुरोरपि च लक्षणम् ॥
एभिस्तु लक्षणैर्युक्तो गुरुरेव भवेन्नृणाम् ॥ २३ ॥
समचेताः प्रशान्तात्मा विमन्युश्च सुहृन्नृणाम् ॥
साधुर्महान्समो लोके स गुरुः परिकीर्तितः ॥ २४ ॥
मम व्रतधरो नित्यं वैष्णवानां सुसम्मतः ॥
मदाश्रयकथासक्तो ममोत्सवरतः सदा ॥ २५ ॥
कृपासिन्धुः सुपूर्णार्थः सर्वसत्त्वोपकारकः ॥
निःस्पृहः सर्वतः सिद्धः सर्वविद्याविशारदः ॥ २६ ॥
सर्वसंशयसञ्छेत्ताऽनलसो गुरुरादृतः ॥
ब्राह्मणः सर्वकालज्ञः कुर्यात्सर्वेष्वनुग्रहम् ॥ २७ ॥
पूर्वोक्तलक्षणैर्युक्तः शिष्य ईदृग्विधाद्गुरोः ॥
गृह्णीयात्पुत्र तन्मन्त्रं मार्गशीर्षे मदायने ॥ २८ ॥
वैष्णवानां व्रतानां च कुर्यात्स्वीकरणं बुधः ॥
मत्प्रियं शृणुयाच्छश्वच्छ्रीमद्भागवतं परम् ॥२९॥
श्रीमद्भागवतन्नाम पुराणं लोकविश्रुतम् ॥
शृणुयाच्छ्रद्धया युक्तो मम सन्तोषकारणम् ॥ 2.5.16.३० ॥
नित्यं भागवतं यस्तु पुराणं पठते नरः ॥
प्रत्यक्षरं भवेत्तस्य कपिलादानजं फलम् ॥ ३१ ॥
श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम् ॥
पठते शृणुयाद्यस्तु गोसहस्रफलं लभेत् ॥ ३२ ॥
यः पठेत्प्रयतो नित्यं श्लोकं भागवतं सुत ॥
अष्टादशपुराणानां फलमाप्नोति मानवः ॥ ३३ ॥
नित्यं मम कथा यत्र तत्र तिष्ठन्ति वैष्णवाः ॥
कलिबाह्या नरास्ते वै येऽर्चयन्ति सदा मम ॥ ३४ ॥
वैष्णवानां तु शास्त्राणि येऽर्चयन्ति गृहे नराः ॥
सर्वपापविनिर्मुक्ता भवन्ति सुरवन्दिताः ॥ ३५ ॥
येऽर्चयन्ति गृहे नित्यं शास्त्रं भागवतं कलौ ॥
आस्फोटयन्ति वल्गन्ति तेषां प्रीतो भवाम्यहम् ॥ ३६ ॥
यावद्दिनानि हे पुत्र शास्त्रं भागवतं गृहे ॥
तावत्पिबन्ति पितरः क्षीरं सर्पिर्मधूदकम् ॥ ३७ ॥
यच्छन्ति वैष्णवे भक्त्या शास्त्रं भागवतं हि ये ॥
कल्पकोटिसहस्राणि मम लोके वसन्ति ते ॥ ३८ ॥
येऽर्चयन्ति सदा गेहे शास्त्रं भागवतं नराः ॥
प्रीणितास्तैश्च विबुधा यावदाऽऽभूतसम्प्लवम् ॥ ३९ ॥
श्लोकार्धं श्लोकपादं वा वरं भागवतं गृहे ॥
शतशोऽथ सहस्रैश्च किमन्यैः शास्त्रसङ्ग्रहैः ॥ 2.5.16.४० ॥
न यस्य तिष्ठते शास्त्रं गृहे भागवतं कलौ ॥
न तस्य पुनरावृत्तिर्याम्यपाशात्कदाचन ॥४१ ॥
कथं स वैष्णवो ज्ञेयः शास्त्रं भागवतं कलौ ॥
गृहे न तिष्ठते यस्य श्वपचादधिको हि सः ॥ ४२ ॥
सर्वस्वेनाऽपि लोकेश कर्तव्यः शास्त्रसङ्ग्रहः ॥
वैष्णवस्तु सदा भक्त्या तुष्ट्यर्थं मम पुत्रक ॥ ४३ ॥
यत्र यत्र भवेत्पुण्यं शास्त्रं भागवतं कलौ ॥
तत्र तत्र सदैवाऽहं भवामि त्रिदशैः सह ॥ ४४ ॥
तत्र सर्वाणि तीर्थानि नदीनदसरांसि च ॥
यज्ञाः सप्तपुरी नित्यं पुण्याः सर्वे शिलोच्चयाः ॥ ४५ ॥
श्रोतव्यं मम शास्त्रं हि यशोधर्मजयार्थिना ॥
पापक्षयार्थं लोकेश मोक्षार्थं धर्मबुद्धिना ॥ ४६ ॥
श्रीमद्भागवतं पुण्यमायुरारोग्यपुष्टिदम् ॥
पठनाच्छ्रवणाद्वाऽपि सर्वपापैः प्रमुच्यते ॥ ४७ ॥
न शृण्वन्ति न हृष्यन्ति श्रीमद्भागवतं परम् ॥
सत्यंसत्यं हि लोकेश तेषां स्वामी सदा यमः ॥ ४८ ॥
न गच्छति यदा मर्त्यः श्रोतुं भागवतं सुत ॥
एकादश्यां विशेषेण नाऽस्ति पापरतस्ततः ॥ ४९ ॥
श्लोकं भागवतं चाऽपि श्लोकार्धं पादमेव वा ॥
लिखितं तिष्ठते यस्य गृहे तस्य वसाम्यहम् ॥ 2.5.16.५० ॥
सर्वाऽऽश्रमाऽभिगमनं सर्वतीर्थाऽवगाहनम् ॥
न तथा पावनं नॄणां श्रीमद्भागवतं यथा ॥ ५१ ॥
यत्र यत्र चतुर्वक्त्र श्रीमद्भागवतं भवेत् ॥
गच्छामि तत्रतत्राऽहं गौर्यथा सुतवत्सला ॥ ५२ ॥
मत्कथावाचकं नित्यं मत्कथाश्रवणे रतम् ॥
मत्कथाप्रीतमनसं नाऽहं त्यक्ष्यामि तं नरम् ॥ ५३ ॥
श्रीमद्भागवतं पुण्यं दृष्ट्वा नोत्तिष्ठते हि यः ॥
सांवत्सरं तस्य पुण्यं विलयं याति पुत्रक ॥ ५४ ॥
श्रीमद्भागवतं दृष्ट्वा प्रत्युत्थानाभिवादनैः ॥
सन्मानयेत तं दृष्ट्वा भवेत्प्रीतिर्ममाऽतुला ॥ ५५ ॥
दृष्ट्वा भागवतं दूरात्प्रक्रमेत्सम्मुखं हि यः ॥
पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ ५६ ॥
उत्थाय प्रणमेद्यो वै श्रीमद्भागवतं नरः ॥
धनं पुत्रांस्तथा दारान्भक्तिं च प्रददाम्यहम् ॥ ५७ ॥
महाराजोपचारैस्तु श्रीमद्भागवतं सुत ॥
शृण्वन्ति ये नरा भक्त्या तेषां वश्यो भवाम्यहम्॥ ५८ ॥
ममोत्सवेषु सर्वेपु श्रीमद्भागवतं परम् ॥
शृण्वन्ति ये नरा भक्त्या मम प्रीत्यै च सुव्रत ॥ ५९ ॥
वस्त्रालङ्करणैः पुष्पैर्धूपदीपोपहारकैः ॥
वशीकृतो ह्यहं तैश्च सत्स्त्रिया सत्पतिर्यथा ॥ 2.5.16.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये भागवतश्रैष्ठ्यमाहात्म्यवर्णनन्नाम पोडशोऽध्यायः ॥ १६ ॥