॥ श्रीभगवानुवाच ॥ ॥
ये त्वया वै कृताः प्रश्नाः पूर्वं प्रश्नविदां वर ॥
तान्वर्णयिष्ये क्रमशो निशामय सुनिश्चितम् ॥१ ॥
सहोमासे च देवो वै कीर्तियुक्तो हि केशवः ॥
तस्य पूजा प्रकर्तव्या यथापूर्वं प्रभाषितम् ॥ २ ॥
ब्राह्मणं केशवं स्मृत्वा तत्पत्नीं कीर्तिमेव च ॥
दम्पती विधिवत्पूज्यौ वस्त्राभरणधेनुभिः ॥ ३ ॥
दम्पती पूजितौ वत्स पूजितोऽहं न संशयः॥
तस्मादवश्यं सम्पूज्यौ दम्पती मम तुष्टिदौ ॥४॥
दानं च विविधं कार्यं मम तुष्टिकरं परम् ॥
गोदानं भूमिदानं च स्वर्णदानं विशेषतः ॥५॥
वस्त्रदानं तथा शय्या तथाऽलङ्करणानि च ॥
सद्मदानं प्रकर्तव्यं मम सन्तोषकारकम् ॥ ६ ॥
सर्वेषामेव दानानां विशेषं च त्रिकं स्मृतम् ॥
वसुन्धरा तथा धेनुर्विद्यादानं तथैव च ॥७॥
दत्ते दानत्रिके वत्स भवेत्प्रीतिर्ममाऽतुला ॥
तस्मान्नरैस्तु कर्तव्यं सहोमासे त्रिकं शुभम् ॥ ८ ॥
स्नानस्य च विधिः सम्यक्पुरैवोक्तो मयाऽनघ ॥
पूजास्नानं च दानं च विधिरेष न संशयः ॥ ९ ॥
मार्गशीर्षं समग्रं तु एकभक्तेन यः क्षिपेत् ॥
भोजयेद्यो द्विजान्भक्त्या स मुच्येद्व्याधिकिल्विषैः॥2.5.15.१०॥
कृषिभागी बहुधनो बहुधान्यश्च जायते ॥
किमत्र बहुनोक्तेन शृणु गुह्यं पर मम ॥ ११ ॥
हुतभुग्ब्राह्मणश्चैव वदनं मम मानद ॥
ब्राह्मणाख्यं मुखं श्रेष्ठं न तथा हव्यवाहनः ॥ १२ ॥
ब्राह्मणाख्ये मुखे पुत्र हुतं कोटिगुणं भवेत् ॥
अग्न्याख्यं ब्राह्मणाधीनं स्वतन्त्रा ब्राह्मणाः किल ॥ १३ ॥
सशर्करं घृतयुतं पायसं शशिसन्निभम् ॥
होतव्यं ब्राह्मणमुखे मम तुष्टिकरं सुत ॥ १४ ॥
शुभमण्डलमोदककोकरसं सुत फेनिकया घृतपूरयुतम् ॥
यज विप्रमुखे मम तुष्टिकरं यदि चेच्छसि दारसुतादिसुखम् ॥१५॥
कुमुदेन समप्रभसौरभदं शुभभक्तयुतं त्वथ मुद्गयुतम् ॥
सुरभीकृतपुष्कलसर्पिसमं कुरु विप्रमुखे हवनं हि सहे ॥ १६ ॥
पयसा सह सर्पिषि च क्वथितं बहुखारिकचारफलैः सितया ॥
सह कर्पुरनारिफलेन समं युतसीकरकं सुत शुभ्रकरम् ॥ १७ ॥
व्यञ्जनानि च शुभ्राणि मनोज्ञानि प्रियाणि च ॥
कर्त्तव्यानि सहोमासे ब्राह्मणार्थे चतुर्मुख ॥ १८ ॥
प्रिया शिखरिणी कार्या चान्यत्तेषां प्रियं च यत् ॥
कृत्वैवं भोजयेद्विप्राञ्छ्रद्धया परया सुत ॥ १९ ॥
रसास्वादनपूर्वं हि भुञ्जते वै यथायथा ॥
तथातथा मम प्रीतिर्जायते भुवि दुर्लभा ॥2.5.15.२०॥
तस्मात्तत्तत्तथा कार्यं यथा तुष्यन्ति ब्राह्मणाः ॥
तुष्टैस्तैश्चाप्यहं तुष्टो भवामीह न संशयः ॥ २१ ॥
श्रद्धत्स्व त्वं चतुर्वक्त्र न ते मिथ्या ब्रवीम्यहम् ॥
एतद्गुह्यं मया प्रोक्तं श्रेयोर्थं तव मानद ॥ २२ ॥
आक्रोशयन्ति यदि ते अथवा प्रहरन्ति चेत् ॥
तथापि ते नमस्या वै मम प्रीत्या हि मानद ॥ २३ ॥
एवं कार्यं सदा पुत्र मार्गशीर्षे विशेषतः ॥
यदुक्तं भवता ब्रह्मन्भोक्तव्यं किं शृणुष्व तत् ॥ २४ ॥
भोक्तव्यं मम चोच्छिष्टं मम भक्तिपरायणैः ॥
पवित्रकरणं पुत्र पापिनामपि मुक्तिदम् ॥२५॥
ममाशनस्य शेषं च यो भुनक्ति दिनेदिने ॥
सिक्थेसिक्थे भवेत्पुण्यं चान्द्रायणशतोद्भवम् ॥ २६ ॥
अवशिष्टं तथोच्छिष्टं भक्तानां भोजनद्वयम् ॥
नाऽन्यद्वै भोजनं तेषां भुक्त्वा चान्द्रायणं चरेत् ॥ २७ ॥
अनर्पयित्वा यो भुङ्क्ते अन्नपानादिकं च यत् ॥
श्वानविष्ठासमं चान्नं पानं च मदिरासमम् ॥ ॥ २८॥
तस्मान्मामर्पयेत्पुत्र अन्नपानादि चौषधम् ॥
भक्षयेत्परया भक्त्या अशुचेः शुचिकारकम् ॥ २९ ॥
तीर्थयज्ञादिकफलं कलिदोषविनाशनम् ॥
ममोच्छिष्टं सुगतिदमपि दुष्कृतकर्मणाम् ॥ 2.5.15.३० ॥
अन्येषां दैवतानां च न गृह्णीयाच्च भक्षितम् ॥
अभक्तानां च पक्वान्नं भुक्त्वा च नरकं व्रजेत् ॥ ३१ ॥
वक्तव्यमेव यत्प्रोक्तं तच्छृणुष्व समाहितः ॥
कथयिष्ये तव प्रीत्या अपि गुह्यतरं मम ॥ ३२ ॥
मम नाम प्रवक्तव्यं सहे चैव विशेषतः ॥
कृष्णकृष्णेति वक्तव्यं मम प्रीतिकरं परम् ॥३३॥
प्रतिज्ञैषा च मे पुत्र न जानन्ति सुरासुराः ॥
मनसा कर्मणा वाचा यो मे शरणमागतः ॥ ॥ ३४ ॥
स हि सर्वामवाप्नोति कामनामिह लौकिकीम् ॥
सर्वोत्कृष्टं च वैकुण्ठं मत्प्रियां कमलामपि ॥ ३५ ॥
कृष्णकृष्णेति कृष्णेति यो मां स्मरति नित्यशः ॥
जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम्॥३६॥
विनोदेनाऽपि दम्भेन मौढ्याल्लोभाच्छलादपि ॥
यो मां भजत्यसौ वत्स मद्भक्तो नाऽवसीदति ॥ ३७ ॥
ये वै पठन्ति कृष्णेति मरणे पर्युपस्थिते ॥
यदि पापयुताः पुत्र न पश्यन्ति यमं क्वचित् ॥ ३८ ॥
पूर्वे वयसि पापानि कृतान्यपि च कृत्स्नशः ॥
अन्तकाले च कृष्णेति स्मृत्वा मामेत्यसंशयम् ॥ ३९ ॥
नमः कृष्णाय महते विवशोऽपि वदेद्यदि ॥
ध्रुवं पदमवाप्नोति मरणे पर्युपस्थिते ॥ 2.5.15.४० ॥
श्रीकृष्णेति कृतोच्चारैः प्राणैर्यदि वियुज्यते ॥
दूरस्थः पश्यति च तं स्वर्गतं प्रेतनायकः ॥ ४१ ॥
श्मशाने यदि रथ्यायां कृष्णकृष्णेति जल्पति ॥
म्रियते यदि चेत्पुत्र मामेवैति न संशयः ॥ ४२ ॥
दर्शनात्मम भक्तानां मृत्युमाप्नोति यः क्वचित् ॥
विना मत्स्मरणात्पुत्र मुक्तिमेति स मानवः ॥ ४३ ॥
पापानलस्य दीप्तस्य भयं मा कुरु पुत्रक ॥
श्रीकृष्णनाममेघोत्थैः सिच्यते नीरबिन्दुभिः ॥ ४४ ॥
कलिकालभुजङ्गस्य तीक्ष्णदंष्ट्रस्य किं भयम् ॥
श्रीकृष्णनामदारूत्थवह्निदग्धः स नश्यति ॥ ४८ ॥
पापपावकदग्धानां कर्मचेष्टावियोगिनाम् ॥
भेषजं नास्ति मर्त्यानां श्रीकृष्णस्मरणं विना ॥४६॥
प्रयागे वै यथा गङ्गा शुक्लतीर्थे च नर्मदा ॥
सरस्वती कुरुक्षेत्रे तद्वच्छ्रीकृष्णकीर्तनम् ॥४७॥
भवाम्भोधिनिमग्नानां महापापोर्मिपातिनाम् ॥
न गतिर्मानवानां च श्रीकृष्णस्मरणं विना ॥ ४८ ॥
मृत्युकालेऽपि मर्त्यानां पापिनां तदनिच्छताम् ॥
गच्छतां नाऽस्ति पाथेयं श्रीकृष्णस्मरणं विना ॥ ४९ ॥
तत्र पुत्र गया काशी पुष्करं कुरुजाङ्गलम् ॥
प्रत्यहं मन्दिरे यस्य कृष्णकृष्णेति कीर्तनम् ॥ 2.5.15.५० ॥
जीवितं जन्मसाफल्यं सुखं तस्यैव सार्थकम् ॥
सततं रसना यस्य कृष्णकृष्णेति जल्पति ॥ ५१ ॥
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ ५२ ॥
नाम्नोऽस्य यावती शक्तिः पापनिर्दहने मम ॥
तावत्कर्तुं न शक्नोति पातकं पातकी जनः ॥ ५३ ॥
नाऽपविद्धं भवेत्तस्य शरीरं नैव मानसम् ॥
न पापं न च वैक्लव्यं कृष्णकृष्णेति कीर्तनात् ॥ ५४ ॥
श्रीकृष्णेति वचः पथ्यं न त्यजेद्यः कलौ नरः ॥
पापामयो वै न भवेत्कलौ तस्यैव मानसे ॥ ५५ ॥
श्रीकृष्णेति प्रजल्पन्तं दक्षिणाशापतिर्नरम् ॥
श्रुत्वा मार्जयते पापं तस्य जन्मशतार्जितम् ॥ ५६ ॥
चान्द्रायणशतैः पापं पराकाणां सहस्रकैः ॥
यन्नापयाति तद्याति कृष्णकृष्णेति कीर्तनात् ॥ ॥ ५७ ॥
नान्याभिर्नामकोटीभिस्तोषो मम भवेत्क्वचित् ॥
श्रीकृष्णेति कृतोच्चारे प्रीतिरेवाऽधिकाधिका ॥ ५८ ॥
चन्द्रसूर्योपरागैस्तु कोटीभिर्यत्फलं स्मृतम् ॥
तत्फलं समवाप्नोति कृष्णकृष्णेति कीर्तनात् ॥ ५९ ॥
गुरुदाराभिगमनं हेमस्तेयादि पातकम् ॥
श्रीकृष्णकीर्तनाद्याति घर्मतप्तं हिमं यथा ॥ 2.5.15.६० ॥
युक्तो यदि महापापैरगम्यागमनादिभिः ॥
मुच्यते चान्तकालेऽपि सकृच्छ्रीकृष्णकीर्तनात् ॥ ॥ ६१ ॥
अविशुद्धमना यस्तु विनाप्याचारवर्तनात् ॥
प्रेतत्वं सोऽपि नाप्नोति अन्ते श्रीकृष्णकीर्तनात् ॥ ६२ ॥
मुखे भवतु मा जिह्वाऽसती यातु रसातलम् ॥
न सा चेत्कलिकाले या श्रीकृष्णगुणवादिनी ॥ ६३ ॥
स्ववक्त्रे परवक्त्रे च वन्द्या जिह्वा प्रयत्नतः ॥
कुरुते या कलौ पुत्र श्रीकृष्ण गुणकीर्तनम् ॥ ६४ ॥
पापवल्ली मुखे तस्य जिह्वारूपेण कीर्त्यते ॥
या न वक्ति दिवारात्रौ श्रीकृष्णगुणकीर्तनम् ॥ ६५ ॥
पततां शतखण्डा तु सा जिह्वा रोगरूपिणी ॥
श्रीकृष्णकृष्णकृष्णेति श्रीकृष्णेति न जल्पति ॥ ६६ ॥
श्रीकृष्णनाममाहात्म्यं प्रातरुत्थाय यः पठेत् ॥
तस्याऽहं श्रेयसां दाता भवाम्येव न संशयः ॥ ६७ ॥
श्रीकृष्णनाममाहात्म्यं त्रिसन्ध्यं हि पठेत्तु यः ॥
सर्वान्कामानवाप्नोति स मृतः परमां गतिम् ॥ ६८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये श्रीकृष्णनाममाहात्म्यवर्णनन्नाम पञ्चदशोऽध्यायः ॥१५॥