॥ श्रीभगवानुवाच ॥ ॥
ततः प्रभाते द्वादश्यां कार्यो मत्स्योत्सवो बुधैः ॥
मार्गशीर्षे शुक्लपक्षे यथाविध्युपचारतः ॥ १ ॥
अथ मार्गशिरे मासे दशम्यां नियतात्मवान् ॥
कृत्वा देवार्चनं धीमानग्निकार्यं यथाविधि ॥ २ ॥
शुचिवासाः प्रसन्नात्मा हव्यमन्नं सुसंस्कृतम् ॥
पक्त्वा पञ्चपदे गत्वा पुनः शौचं तु पादयोः ॥ ३ ॥
कृत्वाऽष्टाङ्गुलमानं तु क्षीरवृक्षे समुद्भवम् ॥
भक्षयेद्दन्तकाष्ठं तु ततश्चाचम्य यत्नतः ॥ ४ ॥
दृष्ट्वाऽऽकाशानि सर्वाणि ध्यात्वा वै मां गदाधरम् ॥
शङ्खचक्रगदापाणिकिरीटं पीतवाससम् ॥ ५ ॥
प्रसन्नवदनांऽभोजं सर्वलक्षणलक्षितम् ॥
ध्यात्वा पुनर्जलं हस्ते गृहीत्वा भानुमध्यगम् ॥ ६ ॥
ध्यात्वाऽर्घ्यं दापयेत्तत्र करतोयेन मानवः ॥
एवमुच्चारयेद्वाचं तस्मिन्काले चतुर्मुख॥७॥
एकादश्यां निराहारः स्थित्वाऽहनि परे ह्यहम् ॥
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाऽच्युत ॥ ८ ॥
एवमुक्त्वा ततो रात्रौ मम मूर्तेश्च सन्निधौ ॥
जपेन्नारायणायेति स्वयं तत्र विधानतः ॥ ९ ॥
ततः प्रभाते विमलां नदीं गत्वा समुद्रगाम् ॥
इतरां वा तडागं वा गृहे वा नियतात्मवान् ॥2.5.14.१०॥
आनीय मृत्तिकां शुद्धां मन्त्रेणाऽनेन मानवः॥
वन्दयेद्देवदेवेशं तदा शुद्धो भवेन्नरः ॥ ११ ॥
धारणं पोषणं त्वत्तो भूतानां देवि सर्वदा ॥
तेन सत्येन मे पापं यावन्मोचय सुव्रते ॥१२॥
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि दैवतैः ॥
तेनेमां मृत्तिकां स्पृष्टा माऽऽलभामि त्वयोद्धृताम् ॥ १३ ॥
त्वयि नित्यं रसाः सर्वे स्थिता वरुण सर्वदा ॥
तेनेमां मृत्तिकां प्लाव्य पूतां कुरुष्व माचिरम् ॥१४॥
एवं मृदं तथा तोयं प्रसाद्याऽऽत्मानमालभेत् ॥
त्रिःकृत्वाऽशेषमृदया पिण्डमालिप्य वै जले ॥ १५ ॥
तस्मिन्नरः सदा सम्यङ्नक्रकच्छपदूरतः ॥
स्नात्वा चावश्यकं कृत्वा पुनर्मम गृहं व्रजेत् ॥ १६ ॥
तत्राऽऽराध्य महायोगिन्देवं नारायणं हरिम् ॥
केशवाय नमः पादौ कटिं दामोदराय च ॥१७॥
जानुयुग्मं नृसिंहाय उरः श्रीवत्सधारिणे ॥
कण्ठे कौस्तुभनाभाय वक्षः श्रीपतये तथा ॥ १८ ॥
त्रैलोक्यविजयायेति बाहुं सर्वात्मने शिरः ॥
रथाङ्गधारिणे वक्त्रं श्रीकरायेति वारिजम् ॥ १९॥
गम्भीरायेति च गदामम्भोजं शान्तमूर्तये ॥
एवमभ्यर्च्य देवेशं देवं नारायणं प्रभुम् ॥ 2.5.14.२० ॥
पुनस्तस्याऽग्रतः कुम्भांश्चतुरः स्थापयेद्बुधः ॥
जलपूर्णान्समाल्यांश्च सितचन्दनलेपितान् ॥ २१ ॥
चूतपल्लवसंयुक्तान्सितवस्त्रावगुण्ठितान् ॥
छादितांस्ताम्रपात्रैश्च तिलपूर्णैः सकाञ्चनैः ॥२२॥
चत्वारस्तु समुद्राश्च कलशाः सम्प्रकीर्तिताः ॥
तेषां मध्ये शुभं पीठं स्थापयेद्वस्त्रगर्भितम् ॥२३॥
तस्मिन्सुवर्णं रौप्यं वा ताम्रं वा दारवं तथा ॥
अलाभे सर्वपात्राणां पालाशं पात्रमिष्यते ॥ २४ ॥
तोयपूर्णं च तत्कृत्वा तस्मिन्पात्रे ततो न्यसेत् ॥
सौवर्णं मत्स्यरूपं च कृत्वा देवं जनार्दनम् ॥२५॥
देवदेवाङ्गसंयुक्तं श्रुतिस्मृतिविभूषितम् ॥
तत्राऽनेकविधैर्भक्ष्यैः फलैः पुष्पैश्च शोभितम् ॥२६॥
गन्धैर्धूपैश्च वस्त्रैश्च अर्चयित्वा यथाविधि ॥
रसातलगता वेदा यथादेव त्वयोद्धृताः ॥ २७ ॥
मत्स्यरूपेण तद्वन्मां भवादुद्धर केशव ॥
एवमुच्चार्य तस्याग्रे जागरं तत्र कारयेत् ॥ ॥ २८ ॥
यथाविभवसारेण प्रभाते विमले तथा ॥
चतुर्णां ब्राह्मणानां च चतुरो दापयेद्घटान् ॥ २९ ॥
पूर्वं च बह्वृचे दद्याच्छान्दोग्ये दक्षिणं तथा ॥
यजुःशाखान्विते दद्यात्पश्चिमं घटमुत्तमम् ॥ 2.5.14.३० ॥
उत्तरं कामतो दद्यादेष एव विधिः स्मृतः ॥
ऋग्वेदः प्रीयतां पूर्वं सामवेदस्तुदक्षिणे ॥ ३१ ॥
यजुर्वेदः पश्चिमतो ह्यथर्वश्चोत्तरेण तु ॥
अनेन क्रमयोगेन प्रीयतामिति वाचयेत् ॥ ३२ ॥
मत्स्यरूपं तु सौवर्णमाचार्याय निवेदयेत् ॥
गन्धधूपादि वस्त्रैस्तु सम्पूज्य विधिवत्क्रमात् ॥ ३३ ॥
यस्त्विमं सरहस्यं च मन्त्रेणैवोपपादयेत् ॥
विधानं विधिवद्दत्त्वा दाता कोटिगुणोत्तरम् ॥ ३४ ॥
प्रतिपद्य गुरुं यस्तु मोहाद्विप्रतिपद्यते ॥
स जन्मकोटिं नरके पच्यते पुरुषाधमः ॥ ३५ ॥
विधानस्य प्रदाता यो गुरुरित्युच्यते बुधैः ॥
एवं दत्वा विधानेन द्वादश्यां मां समर्चयेत् ॥ ३६ ॥
विप्राणां भोजनं दद्याद्यथाशक्त्या च दक्षिणाम् ॥
भूरिणा परमान्नेन ततः पश्चात्स्वयं नरः ॥ ३७ ॥
भुञ्जीत सहितो विप्रैर्वाग्यतः संयतेन्द्रियः ॥
अनेन विधिना यस्तु कुर्यान्मत्स्योत्सवं नरः ॥ ३८ ॥
तस्य पुण्यफलं चाग्रे शृणु सत्यवतां वर ॥
यदि वक्त्र सहस्राणां सहस्राणि भवन्ति हि ॥ ३९ ॥
आयुश्च ब्रह्मणा तुल्यं लभेद्यदि महाव्रत ॥
तदा वै ह्यस्य धर्मस्य फलं कथयितुं भवेत् ॥ 2.5.14.४० ॥
य इमं श्रावयेद्भक्त्या द्वादशीकल्पमुत्तमम् ॥
शृणोति वा स पापैस्तु सर्वैरेव विमुच्यते ॥ ४१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये मत्स्योत्सवकथनन्नाम चतुर्दशोऽध्यायः ॥ १४ ॥