०१३ एकादशीव्रतजागरणफलकथनम्

॥ श्रीभगवानुवाच ॥ ॥
शृणु पुत्र प्रवक्ष्यामि जागरस्य च लक्षणम् ॥
येन विज्ञातमात्रेण सुलभोऽहं सदा कलौ ॥ १ ॥
गीतं वाद्यं च नृत्यं च पुराणपठनं तथा ॥
धूपं दीपं च नैवेद्यं पुष्पं गन्धानुलेपनम् ॥ २ ॥
फलार्पणं च श्रद्धां च दानमिन्द्रियसंयमम् ॥
सत्यान्वितं विनिद्रं च मुदा मद्यजनान्वितम् ॥ ३ ॥
साश्चर्यं चैव सोत्साहं पापालस्यादिवर्जनम् ॥
प्रदक्षिणासमायुक्तं नमस्कारपुरःसरम् ॥ ४ ॥
नीराजनसमायुक्तमतिहृष्टेन चेतसा ॥
यामेयामे महाभाग कुर्यादारार्तिकं मम ॥ ५ ॥
षड्विंशद्गुणसंयुक्तमेकादश्यां च जागरम् ॥
यः करोति नरो भक्त्या न पुनर्जायते भुवि ॥ ६ ॥
य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः ॥
जागरं परया भक्त्या स लीनो जायते मयि ॥ ७ ॥
दष्टाः कलिभुजङ्गेन स्वपन्ते ये दिने मम ॥
कुर्वन्ति जागरं नैव मायापाशविमोहिताः ॥ ८ ॥
प्राप्ताप्येकादशी येषां कलौ जागरणं विना ॥
ते विनष्टा न सन्देहो यस्माज्जीवितमध्रुवम् ॥ ९ ॥
उद्धृतं नेत्रयुग्मं च दत्त्वा वै हृदये पदम् ॥
कृतं ये नैव पश्यन्ति पापिनो मम जागरम् ॥ 2.5.13.१० ॥
अभावे वाचकस्याऽथ गीतं नृत्यं च कारयेत् ॥
वाचके सति देवेश पुराणं प्रथमं पठेत् ॥ ११ ॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥
पुण्यं कोटिगुणं पुत्र मम जागरणे कृते ॥ १२ ॥
पितृपक्षे मातृपक्षे भार्यापक्षे च मानद ॥
कुलान्युद्धरते चैतन्मम जागरणे कृते ॥ ॥ १३ ॥
उपोषणदिने विघ्ने प्रारब्धे जागरे सति ॥
विहाय स्थानं तत्राहं शापं दत्त्वा व्रजाम्यहम् ॥ १४ ॥
अविद्धवासरे ये मे प्रकुर्वन्ति हि जागरम् ॥
तेषां मध्ये प्रहृष्टः सन्नृत्यं वै प्रकरोम्यहम् ॥ १५ ॥
यावद्दिनानि कुरुते जागरं मम सन्निधौ ॥
युगाऽयुतानि तावन्ति वसते मम वेश्मनि ॥॥ १६ ॥
न गयापिण्डदानेन न तीर्थैर्बहुभिर्मखैः ॥
पूर्वजा मुक्तिमायान्ति विनैकादशिजागरात् ॥ १७ ॥
यः कुर्याज्जागरे पूजां कुसुमैर्मम वासरे ।
पुष्पेपुष्पेऽश्वमेधस्य फलमाप्नोति मानवः ॥१-॥
यः कुर्याद्दीपदानं च रात्रौ जागरणे मम ॥
निमिषे निमिषे पुत्र लभते गोऽयुतं फलम् ॥ १९ ॥
यो दद्याज्जागरे पुत्र हविष्यान्नसमुद्भवम् ॥
नैवेद्यं लभते पुण्यं शालिशैलसमुद्भवम् ॥ 2.5.13.२० ॥
पक्वान्नानि च यो दद्यात्फलानि विविधनि च ॥
जागरे मे चतुर्वक्त्र लभते गोशतं फलम् ॥ २१ ॥
कर्पूरेण च ताम्बूलं ददाति मम जागरे ॥
मद्भक्तो मत्प्रसादेन सप्तद्वीपाऽधिपो भवेत्॥ २२ ॥
जागरे मम देवेश यः कुर्यात्पुष्पमण्डपम् ॥
स पुष्पकविमानेन क्रीडते मम सद्मनि ॥ २३ ॥
जागरे मे तु यो धूपं सकर्पूरं सगुग्गुलम्॥
ददाति दहते पापं जन्मलक्षसमुद्भवम् ॥ २४ ॥
स्नापयेज्जागरे यो मां दधिक्षीरघृताम्बुकैः ॥
भोगानिह लभेद्वै स ह्यन्ते च परमां गतिम् ॥ २५ ॥
दिव्यांऽबराणि यो दद्यात्फलानि विविधानि च ॥
स चिरं वसते स्वर्गे तं तु सङ्ख्यासमानि वै ॥ २६ ॥
दद्यादाभरणं यो मे हेमजं रत्नसम्भवम् ॥
सप्तकल्पानि वसते सोत्सङ्गे मत्प्रियो मम ॥ २७ ॥
घृतेन दीपकं यो मे गव्येन च विशेषतः ॥
ज्वालयेज्जागरे रात्रौ निमिषे गोयुतं फलम् ॥ २८ ॥
जागरे मे चतुर्वक्त्र कर्पूरेण च दीपकम् ॥
यो ज्वालयेत नीराजं कपिलादानजं फलम्॥ २९ ॥
यः पुनः कुरुते दीपं गीतं नृत्यं च पूजनम् ॥
शतक्रतुसमं पुण्यं व्रतैर्दानशतैरपि ॥ 2.5.13.३० ॥
स्वयं यः कुरुते गीतं विलज्जो नृत्यते यदि ॥
स लभेन्निमिषार्धेन कोटियज्ञकृतं फलम् ॥ ३१ ॥
निवारयति यो गीतं नृत्यं जागरणे मम ॥
षष्टियुगसहस्राणि पच्यते रौरवादिषु ॥ ३२ ॥
नृत्यमानस्य मर्त्यस्य ये केचिन्निकटे गताः ॥
विमुक्ता धर्मराजेन मुक्ता यान्ति च मत्पदम् ॥३३॥
नृत्यमानस्य मर्त्यस्य उपहासं करोति यः ॥
जागरे यान्ति निरयं यावदिन्द्राश्चतुर्दश ॥ ॥ ३४ ॥
जागरे मम यः कुर्याद्भक्त्या पुस्तकवाचनम् ॥
श्लोकसङ्ख्यायुगान्येव स वसेन्मम सन्निधौ ॥ ३५ ॥
प्रदक्षिणाप्रदानेन यत्फलं कथितं बुधैः ॥
न तत्कोटिमखैः पुण्यं युगसङ्ख्यैरवाप्यते ॥ ३६ ॥
दीपमाला ममाग्रे वै यः कुर्याज्जागरे सुत ॥
विमानकोटिसंयुक्त आकल्पं वसते दिवि ॥॥ ३७ ॥।
मम बालचरित्राणि जागरे पठते हि यः॥
युगकोटिसहस्राणि श्वेतद्वीपे वसेन्नरः॥३८॥
तस्माज्जागरणं कार्यं पक्षयोः शुक्लकृष्णयोः ॥ ३९॥
यो गीतां पठते रात्रौ मम नामसहस्रकम्॥
वेदोक्तानां पुराणानां जागरात्पुण्यमाप्नुयात्॥ 2.5.13.४०॥
धेनुदानं तु यः कुर्याज्जागरे मम पु्त्रक॥
लभते नात्र सन्देहः सप्तद्वीपवतीफलम् ॥ ४१ ॥
सर्वेषामेव पुण्यानां महत्पुण्यं महीतले ॥
द्वादशीजागरं पुत्र प्रसिद्धं भुवनत्रये ॥ ४२ ॥
जागरं ये च कुर्वन्ति कर्मणा मनसा गिरा ॥
न तेषां पुनरावृत्तिर्मम लोकात्कथञ्चन ॥ ४३ ॥
प्रोत्साहयित्वा लोकान्यः कुरुते जागरं निशि ॥
प्राप्नोति चक्रवर्तित्वं सत्यं मे व्याहृतं सुत ॥४४ ॥
सम्मानिताः ककुत्स्थेन रात्रौ जागरकारिणः॥
स्वशक्त्या चैव दानेन प्राप्तं राज्यं सुदुर्लभम्॥ ४५॥
ये केचिद्गायका विप्रा वादका नर्तकाश्च ये ॥
नर्तकीसहिता यान्ति मम लोके सनातने॥४६॥
दुर्योनिषु गतैः सर्वैः कृत्वा जागरणं मम॥
सम्प्राप्तं पृथिवीशत्वं कामुकैर्मुनिसत्तम॥४७॥
निष्कामा मुक्तिमापन्नाः श्वपचाद्याश्च जागरात्॥
विवेको नास्ति वर्णानां मम जागरकारिणाम्॥ ॥ ४८ ॥
न कलौ पावनं ध्यानं न कलौ जाह्नवीजलम् ॥
न कलौ पावनं जाप्यं मुक्त्वैकं जागरं मम ॥ ४९ ॥
द्वादशीदिवसे प्राप्ते ये कुर्वन्ति हि जागरम् ॥
ते धन्यास्ते कृतार्था वै कलिकाले न संशयः ॥ 2.5.13.५० ॥
न भूयान्मानुषे लोके द्वादशीविमुखो नरः ॥
अतीतानागतान्वाऽपि पातयेन्नरके हि सः ॥ ५१ ॥
वरमेको गुणैर्युक्तः किं जातैर्बहुभिः सुतैः ॥
द्वादशीजागरात्सर्वांस्तारयेद्यो हि पूर्वजान् ॥ ५२ ॥
माहात्म्यं पठते भक्त्या मयोक्तं जागरोद्भवम् ॥
द्वादशीसम्भवः पुत्रः कुलानां तारयेच्छतम् ॥ ५३ ॥
अगम्यागमने पापमभक्ष्यस्यापि भक्षणे ॥
पापं विलयमायाति कृते जागरणे सुत ॥ ५४ ॥
अज्ञानाद्यत्कृतं पापं ज्ञात्वा यत्पातकं कृतम् ॥
पूर्वजन्मार्जितं पापमिह जन्मनि यत्कृतम् ॥ ॥ ५५ ॥
सिद्ध्यन्ति सर्वकार्याणि मनसा चिन्तितान्यपि ॥
द्वादश्यां वै चतुर्वक्त्र रात्रौ जागरणे कृते ॥ ५६ ॥
द्वादशीजागरेणैव मुक्तिं गच्छन्ति मानवाः ॥ ५७ ॥
न तत्पुण्यं कुरुक्षेत्रे प्रयागे वसतां कलौ ॥
माहात्म्यं वसतां पुंसां यत्फलं द्वादशीषु च ॥ ५८ ॥
नाऽश्वमेधसहस्रैस्तु तीर्थकोट्यवगाहनात् ॥
तत्फलं प्राप्यते पुत्र द्वादशीजागरे कृते ॥ ५९ ॥
पठेद्वा शृणुयाद्वाऽपि माहात्म्यं द्वादशीभवम् ॥
सर्वपापविशुद्धात्मा स लभेच्छाश्वतीं गतिम् ॥ 2.5.13.६० ॥
सर्वे दुष्टाः समस्ताश्च सौम्यास्तस्य सदा ग्रहाः ॥
सन्ततेर्न वियोगस्तु द्वादशी यस्य कारणम् ॥ ६१ ॥
मम कीर्तिरुचिर्नित्यं न विपद्येत कर्हिचित् ॥
रणे राजकुले चैव सर्वदा विजयी भवेत् ॥ ६२ ॥
धर्मोपरि मतिर्नित्यं भक्तिर्मयि सुनिर्मला ॥
पातकं नैव लिप्येत द्वादशीभक्तितो नरम् ॥ ६३ ॥
प्रेतत्वं नैव तस्याऽस्ति कृते जागरणे मम ॥
एकादश्या विहीनस्य परलोकगतिर्नहि ॥
तस्मात्सर्वप्रयत्नेन कलौ कार्यं हि तद्दिनम् ॥ ६४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णु संवादे मार्गशीर्षमासमाहात्म्य एकादशीव्रतजागरणफलकथनन्नाम त्रयोदशोऽध्यायः ॥ १३ ॥