॥ देवशर्मोवाच ॥ ॥ ॥
तवेदृशी मतिर्जाता सहसा केशवोपरि ॥
एतस्मान्मे गतं पापं पूर्वजन्मशतोद्भवम् ॥ १ ॥
विना व्रतैर्विना तीर्थैर्मुक्तस्त्वं पापकोटिभिः ॥
ममातिथ्येन भक्त्या च जातं तव हरेः पदम् ॥ २ ॥
तेन पुण्यप्रभावेण मतिर्जाता तवेदृशी ॥
ध्यात्वा सञ्चिन्त्य मनसा ज्ञातं पूर्वविचेष्टितम् ॥ ३॥
पूर्वजन्मनि विप्रस्त्वमवन्त्यां धर्मतत्परः ॥
सदाऽध्ययनशीलश्च सुशीलश्च सदा व्रती ॥ ४ ॥
एका तु द्वादशी विष्णोः कृता च दशमीयुता ॥
तत्पापस्य प्रभावेण समस्तं सुकृतं गतम् ॥ ५ ॥
सर्वं तद्विफलं जातं यथा शूद्रापतिर्द्विजः ॥
बहुवर्षसहस्राणि प्राप्ता नरकयातनाः॥ ६ ॥
तस्मादेवं त्वया पूर्वं कृतं दुष्टं चिरं बहु ॥
कृता तु दशमीमिश्रा तिथिर्विष्णोर्महात्मनः ॥ ७ ॥
तेन शूद्रो भवाञ्जातः पापे तव मतिस्तथा ॥
धर्मे न रमते चित्तं दशमीवेधदूषितम्॥ ८ ॥
विदर्भनगरे वत्स अस्ति ते पुत्रिकासुतः ॥
कृतं तेन विधानोक्तं हरेरेकादशीव्रतम् ॥ ९ ॥
प्रदत्तं तेन तत्पुण्यमखण्डैकाशीव्रतम्॥
धर्मोपरि मतिर्जाता जातः पापस्य सङ्क्षयः ॥ 2.5.12.१० ॥
तेन पुण्यप्रभावेण एकादश्या व्रतेन च ॥
दशमीवेधजं पापं यमेन परिमार्जितम् ॥ ११ ॥
इह जन्मनि यत्पापं जन्मायुतकृतानि च ॥
मार्जितानि यमेनैव पापानि तव साम्प्रतम् ॥ १२ ॥
तयोर्विवदतोरेवं विष्वक्सेनः समागतः ॥
वर्णावर स्वागतं ते तुष्टस्तेहं जनार्दनः ॥ १३ ॥
विप्रस्याऽऽतिथ्यहेतुत्वाज्जातः पापस्य सङ्क्षयः ॥
परदत्तेन पुण्येन एकादश्या व्रतेन च ॥ १४ ॥
दशमीवेधजं पापं तव शूद्र लयं गतम् ॥
व्रतं कृत्वा ददौ पुण्यं दौहित्रस्तेन तारितः ॥ १५ ॥
पत्न्या सह महाभाग वैनतेयं समारुह ॥
इत्युक्त्वा देवदेवेन विमाने स्थापितस्तदा ॥ १६ ॥
स्वर्गं ततः सपत्नीकः शूद्रत्वेन नृपोत्तम ॥
देवशर्मा तु विप्रो वै तीर्थराजं ययौ पुनः ॥ १७॥
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥
अखण्डैकादशीपुण्यात्प्राप्तस्याऽऽतिथ्यकारणात् ॥
विष्णुभक्तिमती भार्या राज्यं निहतकण्टकम् ॥ ॥ १८ ॥
॥ राजोवाच ॥ ॥
ब्रह्मन्नखण्डैकादश्या विधिं सम्यक्समादिश ॥
विष्णोः सम्प्रीणनार्थाय प्रसादं कर्तुमर्हसि ॥ १९ ॥
॥ ऋषिरुवाच ॥ ॥
शृणुष्व नृपशार्दूल एकादश्या विधिं शुभम् ॥
पुराऽऽसीद्भगवान्विष्णुर्नारदाय यदुक्तवान् ॥ 2.5.12.२० ॥
तत्तेऽहं सम्प्रवक्ष्यामि उद्यापनविधिं शुभम् ॥
मार्गशीर्षादिमासेषु द्वादशीषु नरोत्तम ॥ २१ ॥
व्रतं शुभमिदं कार्यमखण्डैकादशीव्रतम् ॥
दशम्यां चैव नक्तं च एकादश्यामुपोषणम् ॥ ॥ २२ ॥
द्वादश्यामेकभुक्तं च अखण्डा इति कथ्यते ॥
दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे ॥ २३ ॥
तद्धि नक्तं विजानीयान्न नक्तं निशि भोजनम् ॥
कांस्यं मांसं मसूरांश्च चणकान्कोद्रवांस्तथा ॥ २४ ॥
शाकं मधु परान्नं च पुनर्भोजनमैथुने ॥
विष्णुभक्तो नरो वाऽपि दशम्यां दश वर्जयेत् ॥ २५ ॥
दशम्या विधिरुक्तोऽयमेकादश्यास्तथा शृणु ॥
असकृज्जलपानं च हिंसा शौचमसत्यता ॥ २६ ॥
ताम्बूलं दन्तकाष्ठं च दिवाशयनमैथुने ॥ द्यूतं
क्रीडा निशि स्वापः पतितैः सह भाषणम् ॥
एकादश्यां दशैतानि विष्णुभक्तस्तु वर्जयेत् ॥ २७ ॥
अद्य मे स्त्रीसुखं नास्ति भोजनं नास्ति केशव ॥
प्रीत्यर्थं तव देवेश नियमस्तु दिवानिशि ॥ २८ ॥
सुप्तेन्द्रियैस्तु वैक्लव्यं भोजनं यच्च मैथुनम् ॥
दन्तान्तरविलग्नान्नं क्षमस्व पुरुषोत्तम ॥ २९ ॥
उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह ॥
उपवासः स विज्ञेयो न शरीरस्य शोषणम् ॥ 2.5.12.३० ॥
पूर्वोक्तानि दशैतानि परान्नं च तथा मधु ॥
द्वादश्यां विष्णुभक्तो वै वर्जयेन्मर्दनादिकम् ॥३१॥
अद्य मे द्वादशी पुण्या पवित्रा पापनाशिनी ॥
पारणं च करिष्यामि प्रसीद गरुडध्वज ॥ ३२ ॥
विष्णोः सन्तोषणार्थाय यो मया नियमः कृतः ॥
अद्याहं भोजयिष्यामि त्वत्प्रसादाद्द्विजोत्तमम् ॥ ३३ ॥
अनेन विधिना कुर्याद्यावद्वर्षं समाप्यते ॥
सम्पूर्णे तु ततो वर्षे कुर्यादुद्यापनं बुधः ॥ ३४ ॥
आदौ मध्ये तथा चान्ते व्रतस्योद्यापनं स्मृतम् ॥
उद्यापनं न कुर्याद्यः कुष्ठी चान्धश्च जायते ॥ ३५ ॥
तस्मादुद्यापनं कुर्याद्यथाविभवसारतः ॥
क्रियते शुक्लपक्षे च मासे मार्गशिरे शुभे ॥ ३६ ॥
आमन्त्र्य द्वादशमितान्ब्राह्मणान्विधिकोविदान् ॥
त्रयोदशं सपत्नीकमाचार्यं विधिकोविदम् ॥ ३७॥
यजमानः शुचिः स्नात्वा श्रद्धायुक्तो जितेन्द्रियः ॥
पादशौचार्धवस्त्राद्यैराचार्यादींस्ततोऽर्चयेत् ॥ ३८ ॥
आचार्यस्तु ततः कृत्वा मण्डलं वर्णकैः शुभैः ॥
चक्राब्जं सर्वतोभद्रं श्वेतवस्त्रेण वेष्टितम् ॥ ३९ ॥
जलपूर्णं च कुम्भं तु पञ्चरत्नसमन्वितम् ॥
पञ्चपल्लवसंयुक्तं कर्पूरागुरुवासितम् ॥ 2.5.12.४० ॥
वेष्टितं रक्तवस्त्रेण ताम्रपात्रेण संयुतम् ॥
वेष्टितं पुष्पमालाभिर्मण्डलोपरि विन्यसेत् ॥ ४१ ॥
तस्योपरि न्यसेद्देवं लक्ष्मीनारायणं नृप ॥
सौवर्णी प्रतिमा कार्या एककर्षप्रमाणतः ॥ ४२ ॥
वाहनाऽऽयुधसंयुक्ता प्रमाणं चतुरङ्गुलम् ॥
किंवा शक्त्या प्रकुर्वीत वित्तशाठ्यं विवर्जयेत् ॥ ४३ ॥
ततः संस्थापयेन्मूर्तिं मण्डले द्वादशैव हि ॥
मासानामधिपः पूज्यश्चाखण्डव्रतहेतवे ॥४४॥
मण्डलात्पूर्वदिग्भागे शङ्खं संस्थापयेच्छुभम् ॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ॥
निर्मितः सर्वदेवैस्त्वं पाञ्चजन्य नमोऽस्तु ते ॥ ४५ ॥
ततस्तु स्थण्डिलं कार्यं मण्डलादुत्तरां दिशम् ॥
सङ्कल्प्य हवनं कार्यं मन्त्रैर्वेदोक्तवैष्णवैः ॥ ४६ ॥
स्वस्थाने स्थापयेद्विष्णुं स्थापयेच्च हरिं प्रति ॥
पूजयेत्पुरुषसूक्तेन मन्त्रैः पौराणिकैः शुभैः ॥ ४७ ॥
नैवेद्यार्थं च वै कार्या मोदका बहवोऽपि च ॥
धूपदीपोपहाराणि कृत्वा नीराजनं ततः ॥ ४८ ॥
यक्षकर्दमेन सम्पूज्य ततः कुर्यात्प्रदक्षिणाम् ॥
स्वस्तिवाचनकैर्विप्रैर्नमस्कारं ततो नृप ॥ ४९ ॥
ततस्तु ब्राह्मणैः कार्य आचार्यक्रमशो जपः ॥
जपश्च पावमानीयो मण्डलब्राह्मणं मधु ॥ 2.5.12.५०॥
तेजोऽसि शुक्रजं वाचं ब्रह्मसामादनन्तरम् ॥
पवित्रवन्तं सूर्यस्य विष्णोर्महसि संहिताम् ॥ ५१ ॥
जपान्ते कलशे विष्णुं सोपाङ्गमुपरि न्यसेत् ॥
दिवसस्योदये चैव होमं कुर्यादनुक्रमम् ॥ ५२ ॥
संस्थाप्य प्रथमं पात्रं पूजयित्वा विधानतः ॥
स्तवनं च ततो होमः कर्तव्यश्चरुपूर्वकः ॥ ५३ ॥
स्वगृह्योक्तविधानेन यजनाग्निक्रियापरः ॥
चरुद्वयं च कुर्वीत पायसं वैष्णवं चरुम् ॥ ५४ ॥
जुहुयात्पुरुषसूक्तेन चरोः षोडश चाहुतीः ॥
तथा चतुर्गृहीतेन घृतयुक्तावराहुतिम् ॥ ५५ ॥
प्रादेशमात्राः पालाशसमिधश्च घृतप्लुताः॥
इदं विष्ण्विति मन्त्रेण होतव्याः कर्मसिद्धये ॥५६॥
शतमेकं तु जुहुयाद्द्विगुणाश्च तिलाऽऽहुतीः ॥
कृते च वैष्णवे होमे ग्रहयज्ञं समारभेत् ॥ ५७ ॥
समिद्भिश्चरुहोमं च तिलहोमं क्रमेण तु ॥
उभयोः स्वस्तिकं वाच्यं ततः पूजां समाचरेत् ॥ ५८ ॥
ऋत्विजां च ततो दद्याद्धेन्वादिग्रहदक्षिणाः ॥
देवस्य तृप्त्यै दद्याच्च ब्राह्मणाय यथाविधि ॥ ५९ ॥
गां वै पयस्विनीं दद्याद्वृषभं च सुशोभनम् ॥
ब्राह्मणानां ततो दद्यात्त्रयोदश पदानि च ॥2.5.12.६०॥
आचार्यं तु सपत्नीकं वस्त्रैश्च परितोषयेत् ॥
तोषयित्वा महादानैस्तं सार्थं च समर्पयेत् ॥ ६१ ॥
पञ्चविंशतिकुम्भांश्च सोदकान्वस्त्रवेष्टितान् ॥
ब्राह्मणांश्च ततो दद्यात्कृते पारणके निशि ॥ ६२ ॥
भूरिदानं च दातव्यं बन्धूनामिष्टभोजनम् ॥
पूर्णपात्रं ततो दद्यादाचार्याय सदक्षिणम् ॥ ६३ ॥
पूर्णपात्रप्रदानेन कार्यं सम्पूरितं भवेत् ॥
उपवासव्रतं चैव स्नानं तीर्थफलं भवेत् ॥ ६४ ॥
विप्रैः सम्भाषितं तस्य सम्पूर्णं तद्भवेत्फलम् ॥
वित्त शक्तिर्गृहे नास्ति कृतं चैकादशीव्रतम् ॥ ६५ ॥
स्वशक्त्या चैव कर्तव्यं तथा चोद्यापनादिकम् ॥
एतत्ते सर्वमाख्यातमखण्डैकादशीव्रतम् ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्येऽखण्डैकादशीव्रतकथनं नाम द्वादशोऽध्यायः ॥ १२ ॥ ॥ छ ॥