०११ एकादश्याख्यानम्

॥ ब्रह्मोवाच ॥ ॥
एकादश्याश्च माहात्म्यं मूर्तीनां च विधानकम् ॥
सर्वं ब्रूहि मम स्वामिन्कृपया भूतभावन ॥ १ ॥
॥ श्रीभगवानुवाच ॥ ॥
शृणुष्व द्विजशार्दूल कथां पापप्रणाशिनीम् ॥
यां श्रुत्वा याति विलयं पापं ब्रह्मवधादिकम् ॥ २ ॥
काम्पिल्ये नगरे राजा वीरबाहुरिति स्मृतः ॥
सत्यवादी जितक्रोधो ब्रह्मज्ञो मम तत्परः ॥ ३ ॥
भाववान्स दयाशीलोरूपवान्बलवान्नरः ॥
भक्तो भागवतानां च सदा मम कथारुचिः ॥ ४ ॥
सदा मम कथाऽऽसक्तः सदा जागरणप्रियः ॥
दाता विद्वान्क्षमाशीलो विक्रमी विजितेन्द्रियः ॥ ५ ॥
विजयी रणशीलश्च ऋद्ध्या च धनदोपमः॥
पुत्रवान्पशुमांश्चैव स्वदारनिरतस्तथा ॥६॥
तस्य भार्या कान्तिमती रूपेणाऽप्रतिमा भुवि ॥
पतिव्रता महासाध्वी मम भक्तिरता सदा ॥ ७ ॥
तया सह विशालाक्षो बुभुजे मेदिनीं युवा ॥
मुक्त्वैकं मां महाबाहो नान्यज्जानाति दैवतम् ॥ ॥। ८ ॥
एकस्मिन्दिवसे पुत्र भारद्वाजो महामुनिः ॥
समागतो गृहे तस्य वीरबाहोर्महात्मनः ॥ ९ ॥
दृष्ट्वा समागतं दूराद्भारद्वाजं महामुनिम् ॥
स्वागतं कारयामास दत्त्वार्घ्यं विधिवत्तदा ॥ 2.5.11.१० ॥
आसनं कल्पयामास स्वयमेव महीपतिः ॥
प्रणम्य परया भक्त्या तस्थौ मुनिवराग्रतः ॥॥। ११ ॥
॥ राजोवाच ॥ ॥
अद्य मे सफलं जन्म अद्य मे सफलं दिनम् ॥
अद्य मे सफलं राज्यमद्य मे सफलं गृहम् ॥ १२ ॥
प्रसन्नो मम विप्रर्षे परमात्मा जनार्दनः ॥
यत्त्वं समागतो ह्यद्य गृहे योगिवरस्तथा ॥ १३ ॥
मुक्तोऽहं पापकोट्याद्य यत्त्वयाऽहं निरीक्षितः ॥
राज्यं लक्ष्मीर्गजाऽश्वाश्च मया तुभ्यं निवेदिताः ॥ १४ ॥
वैष्णवोऽसि मुनिश्रेष्ठ नास्त्यदेयं मया तव ॥
मेरुतुल्यं भवेत्सर्वं वैष्णवस्य वराटिका ॥ ॥ १५ ॥
नाऽऽयाति हि गृहे यस्य वैष्णवो वै द्विजोत्तमः ॥
तद्दिनं विफलं तस्य कथितं ब्राह्मणैर्मम ॥१६॥
विष्णुभक्ताश्च ये केचित्सर्वे वर्णा द्विजातयः ॥
कथितं मम गार्ग्येण गौतमेन सुमन्तुना ॥ १७ ॥
ये त्वभक्ता हृषीकेशे पिशाचास्ते हि मानवाः ॥
महापातकलिप्तास्ते ये भुञ्जन्ति हरेर्दिने ॥ ॥ १८ ॥
शिवव्रतसहस्रैस्तु सौरैर्ब्राह्मैश्च कोटिभिः ॥
यत्फलं कविभिः प्रोक्तं वासरैकेन तद्धरेः ॥ १९ ॥
गर्वमुद्वहते तावत्तिथिर्ब्राह्मी च शाङ्करी ॥
यावन्नायाति विप्रेन्द्र द्वादशी च मम प्रिया ॥ 2.5.11.२० ॥
तावत्प्रभावस्ताराणां यावन्नोदयते शशी ॥
तिथिस्तथा च विप्रेन्द्र यावन्नायाति द्वादशी ॥ २१ ॥
नारदेन पुरा प्रोक्तं वसिष्ठेन ममाग्रतः ॥
त्वं वेत्ता सर्वधर्माणां वैष्णवानां महामुने ॥ २२ ॥
॥ भारद्वाज उवाच ॥ ॥
साधु पृष्टं महाभाग यत्त्वं भक्तोऽसि वैष्णवः ॥
सा सुप्रजा मही धन्या यत्त्वं रक्षसि भूमिप ॥ २३ ॥
तस्मिन्राष्ट्रे न वस्तव्यं यत्र राजा न वैष्णवः ॥
वरं वासो वने तीर्थे न तु राष्ट्रे त्ववैष्णवे ॥ २४ ॥
यत्र भागवतो राजा सम्प्रशास्ति च मेदिनीम् ॥
वैकुण्ठमिति मन्तव्यं तद्राष्ट्रं पापवर्जितम् ॥ २५ ॥
चक्षुर्हीनं यथा देहं पतिहीना यथा स्त्रियः ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥ २६ ॥
यथा पुत्रो महीपाल मातापित्रोरपोषकः ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥ २७ ॥
दानहीनो यथा राजा ब्राह्मणो रसविक्रयी ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥ २८ ॥
दन्तहीनो यथा हस्ती पक्षहीनो यथा खगः ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥ २९ ॥
प्रतिग्रहार्थं वेदादि द्रव्यार्थं सुकृतं यथा ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥ 2.5.11.३० ॥
दर्भहीना यथा सन्ध्या यथा श्राद्धमदक्षिणम् ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥ ३१ ॥
सशिखश्च यथा शूद्रा कपिलाक्षीरपायकः ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥ ३२ ॥
शूद्रश्च ब्राह्मणीगामी हेमघ्नो धर्मदूषकः ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥ ३३ ॥
हरिसूर्यादिवृक्षाणां यथा छेदो नरोत्तम ॥
द्वादशी दशमी युक्ता तथा राष्ट्रमवैष्णवम् ॥ ३४ ॥
यथाऽऽहुतिर्मन्त्रहीना मृतवत्सापयो यथा ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥ ३५ ॥
सकेशा विधवा यद्वद्व्रतं स्नानविवर्जितम् ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥ ३६ ॥
स राजा प्रोच्यते सद्भिर्यो भक्तो मधुसूदने ॥
तद्राष्ट्रं वर्धते नित्यं सुखी भवति सप्रजः ॥ ३७ ॥
दृष्टिर्मे सफला राजन्यन्मया त्वं निरीक्षितः ॥
अद्य मे सफला वाणी जल्पते या त्वया सह ॥ ३८ ॥
दूरमेव हि गन्तव्यं श्रूयते यत्र वैष्णवः ॥
दर्शनात्तु भवेत्पुण्यं तीर्थस्नानसमुद्भवम् ॥ ३९ ॥
स त्वं राजन्मया दृष्टो विष्णुभक्तिरतः शुचिः ॥
स्वस्ति तेऽस्तु गमिष्यामि सुखी भव नराधिप ॥ 2.5.11.४० ॥
एतस्मिन्नन्तरे राज्ञ्या कान्तिमत्या नमस्कृतः ॥
भारद्वाजो मुनिश्रेष्ठः प्रवरः सर्वयोगिनाम् ॥ ४१ ॥
अवैधव्यं वरारोहे भक्ता भव स्वभर्त्तरि ॥
निश्चला केशवे भक्तिः सदा भवतु ते शुभे ॥ ४२ ॥
एतस्मिन्नन्तरे राजा भारद्वाजं महामुनिम् ॥
उवाच प्रीणयन्वाचा मेघनादगभीरया ॥ ४३ ॥
॥ राजोवाच ॥ ॥
विपुला मे कथं लक्ष्मीः किं कृतं पूर्वजन्मनि ॥
सर्वं ब्रूहि मुनिश्रेष्ठ कृपा यदि ममोपरि ॥ ४४ ॥
एतन्मया कथं प्राप्तं राज्यं निहतकण्टकम् ॥
पुत्रो वै गुणवाञ्च्छ्रेष्ठः प्रिया च सुमनोहरा ॥ ४५ ॥
मच्चित्ता मद्गतप्राणा चिन्तयन्ती जनार्दनम् ॥
कोऽहं मुने कथं चैषा कश्च धर्मो मया कृतः ॥ ४६ ॥
किं चाऽनयाऽपि चार्वङ्ग्या मम पत्न्या कृतं मुने ॥
केन पुण्येन मे लक्ष्मीर्मृत्युलोके सुदुर्लभा ॥ ४७ ॥
अशेषा भूमिपाला वै वर्तन्ते यस्य मे वशे ॥
विक्रमं चाऽप्रतिहतं शरीरारोग्यता तथा ॥ ४८ ॥
ममाऽपि विपुलं तेजो न कश्चित्सहते मुने ॥
इच्छाम्यद्य प्रतिज्ञातुं यथा चेयमनिन्दिता ॥ ४९ ॥
मयाऽपि सुकृतं विप्र किं कृतं पूर्वजन्मनि ॥
इति पृष्टो नरेन्द्रेण पूर्वजन्मविचेष्टितम् ॥ 2.5.11.५० ॥
स्वपत्न्याश्चेष्टितं चैव सम्पदां चैव कारणम् ॥
योगोत्थं सुचिरं कालं तथाविन्दत मानसे ॥ ५१ ॥
विज्ञातमेतन्नृपते पूर्वजन्मविचेष्टितम् ॥
तव पत्न्याश्च राजर्षे शृणुष्व कथयाम्यहम् ॥ ५२ ॥
॥भारद्वाज उवाच ॥ ॥
शृणु भूपाल सकलं यस्येदं कर्मणः फलम् ॥
त्वमासीः शूद्रजातीयो जीवहिंसापरायणः ॥ ५३ ॥
नास्तिको दुष्टचारित्रः परदारप्रधर्षकः ॥
कृतघ्नो दुर्विनीतश्च सुष्ठ्वाचारविवर्जितः ॥ ५४ ॥
इयं या भवतो भार्या पूर्वमप्यायतेक्षणा ॥
कर्मणा मनसा वाचा नान्यदस्यास्त्वया विना ॥ ॥ ५५ ॥
पतिव्रता महाभागा भजमाना निरन्तरम् ॥
भावं न कुरुते दुष्टं तवोपरि तथा सति ॥ ५६ ॥
सखिभिस्त्वं परित्यक्तो बन्धुभिः पापकर्मकृत् ॥
क्षयं जगाम चाऽर्थो यः सञ्चितस्तव पूर्वजैः ॥ ५७ ॥
नष्टे द्रव्ये फलाऽऽकाङ्क्षी त्वमासीर्जगतीपते ॥
पूर्वकर्मविपाकेन कृषिश्च विफला गता ॥ ॥ ५८ ॥
ततो वित्ते परिक्षीणे परित्यक्तश्च बान्धवैः ॥
क्षीयमाणाऽपि साध्वीयमत्यजत्त्वां न भामिनी ॥ ५९ ॥
त्वं भग्नः सर्वकामेभ्यो गतवान्निर्जने वने ॥
हत्वा जीवाननेकांश्च चकारात्मविपोषणम् ॥2.5.11.६० ॥
एवं प्रवृत्तस्य तव सह पत्न्या तदा नृप ॥
गतानि बहुवर्षाणि पापवृत्त्या महीतले॥६१॥
अन्यस्मिन्वासरे राजन्मार्गभ्रष्टो महामुनिः ॥
न दिशं विदिशं वेत्ति देवशर्मा द्विजोत्तमः ॥ ६२ ॥
क्षुत्तृषापीडितोऽत्यर्थं मध्याह्नगदिवाकरे ॥
पतितो वनमध्ये तु मार्गभ्रष्टो महीपते ॥ ६३ ॥
दया जाता च ते भूप दृष्ट्वा दुःखेन पीडितम् ॥
ब्राह्मणं वृद्धमज्ञातं गृहीत्वा तु करेण वै ॥ ६४ ॥
उत्थाप्य पतितं भूमौ त्वयोक्तं हि तदा नृप ॥
प्रसादं कुरु विप्रर्ष आगच्छ त्वं ममाऽऽश्रमम् ॥ ६५ ॥
जलपूर्णं तडागं च पद्मिनीखण्डमण्डितम् ॥
वृक्षैर्मनोहरैर्युक्तं फलैः पुष्पैर्मनोरमैः ॥ ६६ ॥
स्नात्वा सुशीतले तोये कृत्वा कर्म च नैत्यकम् ॥
कुरु विप्र फलाहारं पिब वारि सुशीतलम् ॥ ६७ ॥
सुखेन कुरु विश्रामं मया संरक्षितः स्वयम् ॥
विप्रेन्द्र तृप्तिपर्यन्तं वस त्वं च ममाश्रमे ॥ ६८ ॥
उत्तिष्ठ त्वं द्विजश्रेष्ठ प्रसादं कर्तुमर्हसि ॥
लब्धसञ्ज्ञस्तदा विप्रः श्रुत्वा शूद्रस्य भाषितम् ॥ ६९ ॥
करे जग्राह तं शूद्रं गतो यत्र जलाशयः ॥
उपविष्टो महाबाहो छायामाश्रित्य तत्तटे ॥ 2.5.11.७० ॥
स्नानं चकार विधिवत्पूजयामास केशवम् ॥
तर्पयित्वा पितॄन्देवान्पपौ नीरं सुशीतलम् ॥ ७१ ॥
विश्रान्तो वृक्षूमूलेऽभूद्देवशर्मा द्विजोत्तमः ॥
साष्टाङ्गं मुनये कृत्वा नमस्कारं सह स्त्रिया ॥ ७२ ॥
शूद्रस्तु परया भक्त्या प्रोवाच मुनिसन्निधौ ॥
आवयोस्तरणार्थाय अतिथिस्त्वं समागतः ॥ ७३ ॥
दर्शनात्तव विप्रर्षे जातः पापस्य सङ्क्षयः ॥
प्रिये फलानि स्वादूनि प्रयच्छास्मै द्विजातये ॥
मृदूनि रसयुक्तानि सुपक्वानि प्रियाणि च ॥ ७४ ॥
॥ ॥ ब्राह्मण उवाच ॥ ॥
त्वामहं नैव जानामि स्वज्ञातिं कथयस्व मे ॥
नाज्ञातस्य हि भोक्तव्यं ब्राह्मणस्याऽपि पुत्रक ॥ ७५ ॥
॥ शूद्र उवाच ॥ ॥
शूद्रोऽहं द्विजशार्दूल न कार्यः संशयस्त्वया ॥
आत्मजैर्दुर्जनैर्विप्र परित्यक्तः स्वबन्धुभिः ॥ ७६ ॥
तयोः संवदतोरेवं शूद्रपत्न्या फलानि च ॥
दत्तानि तस्मै विप्राय तेन भुक्तानि तानि वै ॥ ७७ ॥
अभूत्प्रीतमना विप्रः पीत्वा नीरं सुशीतलम् ॥
सुखं सम्प्राप्य स मुनिर्विश्रान्तस्तरुमूलके ॥ ७८ ॥
स च शूद्रः सपत्नीको भुक्त्वा च पुनरागतः ॥
स्वागतं ते मुनिश्रेष्ठ कुतस्त्वमिह चाऽऽगतः ॥ ७९ ॥
शून्याटवीं द्विजश्रेष्ठ दुष्टसत्त्वभयाकुलाम् ॥
निर्मनुष्यां दुःखयुक्तां दिवारात्रं भयानकाम् ॥ 2.5.11.८० ॥
॥ ब्राह्मण उवाच ॥ ॥
ब्राह्मणोऽहं महाभाग प्रयागगमनं प्रति ॥
अहमज्ञातमार्गेण प्रविष्टो दारुणे वने ॥ ८१ ॥
मम पुण्यप्रभावेण जातोसि वरबान्धवः ॥
जीवितं मे त्वया दत्तं ब्रूहि किं करवाणि ते ॥ ६२ ॥
भवानपि कुतः प्राप्तो निर्मनुष्ये वने खलु ॥
को भवान्कारणं किंस्वित्कथयस्व ममाऽग्रतः ॥ ८३ ॥
॥ शूद्र उवाच ॥ ॥
विदर्भनगरी राज्ञा भीमसेनेन रक्षिता ॥
वासो मम महाराष्ट्रे शूद्रोऽहं पापलम्पटः ॥ ८४ ॥
स्वकर्मविहितो धर्मो मया त्यक्तो द्विजोत्तम ॥
त्यक्तोऽहं बन्धुवर्गेण ततोऽहं वनमागतः ॥ ८५ ॥
कृत्वा जीववधं नित्यं जीवेऽहं भार्यया सह ॥
साम्प्रतं पातकात्सम्यङ् निर्विण्णोस्मि महामुने ॥ ८६ ॥
कुरुष्वाऽनुग्रहं किञ्चित्पापयुक्तस्य मे प्रभो ॥
मम पुण्यप्रभावेण आगतस्त्वं द्विजोत्तम ॥ ८७ ॥
न पश्यामि यथा सौरिं पत्न्या सह महामुने ॥
उपदेशप्रभावेण प्रसादं कर्तुमर्हसि ॥ ८८ ॥
नान्यदिच्छाम्यहं किञ्चिन्मुक्त्वा देवं जनार्दनम् ॥
कुरुष्वाऽनुग्रहं मेऽद्य प्रसादमृषिसत्तम ॥ ८९ ॥
॥ भारद्वाज उवाच ॥ ॥
इति तेन समापृष्टो देवशर्मा द्विजाग्रणीः ॥
शूद्रेण परया भक्त्या प्रहसन्वाक्यमब्रवीत् ॥ 2.5.11.९० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्य एकादश्याख्यानन्नामैकादशोऽध्यायः ॥ ११ ॥ ॥ छ ॥